पुत्रैः कथं महाराज पुरुषस्तारितो भवेत् ।
यावन्न लब्धवान्पुत्रमफलः पुरुषो नृप
putraiḥ kathaṃ mahārāja puruṣastārito bhavet |
yāvanna labdhavānputramaphalaḥ puruṣo nṛpa
इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि चतुःपश्चाशोऽध्यायः ॥
26 श्लोक · 54 में से 274
युधिष्ठिर पूछते हैं कि पुत्र पुरुष को कैसे तारते हैं। भीष्म एक प्राचीन इतिहास सुनाते हैं। गंगा और यमुना के संगम पर मार्कण्डेय नारद, पर्वत, असित देवल, आरुणेय और रैभ्य से मिलते हैं और पूछते हैं कि क्षीण होते धर्म का पालन कैसे हो। नारद समझाते हैं कि कृतयुग में धर्म चार चरणों पर था, त्रेता में अधर्म ने अंश लिया, द्वापर में अधर्म दो चरण नष्ट करता है, और चौथे युग में धर्म का एक ही चरण बचता है तथा मनुष्य अल्पायु, अल्पबुद्धि और अल्पधन जन्मते हैं। मार्कण्डेय पूछते हैं कि दान कहाँ जाता है। नारद कहते हैं कि मन्त्र से पवित्र और विधि से दिया हव्य-कव्य देवताओं और पितरों तक पहुँचता है। बिना मन्त्र और विधि के दिया दान असुरों, राक्षसों, प्रेतों और भूतों को जाता है।
युधिष्ठिर उवाच
पुत्रैः कथं महाराज पुरुषस्तारितो भवेत् ।
यावन्न लब्धवान्पुत्रमफलः पुरुषो नृप
putraiḥ kathaṃ mahārāja puruṣastārito bhavet |
yāvanna labdhavānputramaphalaḥ puruṣo nṛpa
भीष्म उवाच
अत्राप्युदाहरन्तीममितिहासं पुरातनम् ।
नारदेन पुरा गीतं मार्कण्डेयाय पृच्छते
atrāpyudāharantīmamitihāsaṃ purātanam |
nāradena purā gītaṃ mārkaṇḍeyāya pṛcchate
पर्वतं नारदं चैव असितं देवलं च तम् ।
आरुणेयं च रैभ्यं च एतानत्रागतान्पुरा
parvataṃ nāradaṃ caiva asitaṃ devalaṃ ca tam |
āruṇeyaṃ ca raibhyaṃ ca etānatrāgatānpurā
गङ्गायमुनयोर्मध्ये भोगवत्याः समागमे ।
दृष्ट्वा पूर्वं समासीनान्मार्कण्डेयोऽभ्यगच्छत
gaṅgāyamunayormadhye bhogavatyāḥ samāgame |
dṛṣṭvā pūrvaṃ samāsīnānmārkaṇḍeyo'bhyagacchata
ऋषयस्तु मुनिं दृष्ट्वा समुत्थायोन्मुखाः स्थिताः ।
अर्चयित्वाऽर्हतो विप्रं किं कुर्म इति चाब्रुवन्
ṛṣayastu muniṃ dṛṣṭvā samutthāyonmukhāḥ sthitāḥ |
arcayitvā'rhato vipraṃ kiṃ kurma iti cābruvan
मार्कण्डेय उवाच
अयं समागमः सद्भिर्यत्नेनासादितो मया ।
अत्र प्राप्स्यामि धर्माणामाचारस्य च निश्चयम्
ayaṃ samāgamaḥ sadbhiryatnenāsādito mayā |
atra prāpsyāmi dharmāṇāmācārasya ca niścayam
ऋजुः कृतयुगे धर्मस्तस्मिन्क्षीणे विमुह्यति ।
युगेयुगे महर्षिभ्यो धर्ममिच्छामि वेदितुम्
ṛjuḥ kṛtayuge dharmastasminkṣīṇe vimuhyati |
yugeyuge maharṣibhyo dharmamicchāmi veditum
ऋषिभिर्नारदः प्रोक्तो ब्रूहि यत्रास्य संशयः ।
धर्माधर्मेषु तत्वज्ञ त्वं हि च्छेत्ता हि संशयान्
ṛṣibhirnāradaḥ prokto brūhi yatrāsya saṃśayaḥ |
dharmādharmeṣu tatvajña tvaṃ hi cchettā hi saṃśayān
ऋषिभ्योऽनुमतं वाक्यं नियोगान्नारदस्तदा ।
सर्वधर्मार्थतत्वज्ञं मार्कण्डेयं ततोऽब्रवीत्
ṛṣibhyo'numataṃ vākyaṃ niyogānnāradastadā |
sarvadharmārthatatvajñaṃ mārkaṇḍeyaṃ tato'bravīt
दीर्घायो तपसा दीप्त वदेवदाङ्गतत्ववित् ।
यत्र ते संशयो ब्रह्मन्समुत्पन्नः स उच्यताम्
dīrghāyo tapasā dīpta vadevadāṅgatatvavit |
yatra te saṃśayo brahmansamutpannaḥ sa ucyatām
धर्मं लोकोपकारं वा यच्चान्यच्छ्रोतुमिच्छसि ।
तदहं कथयिष्यामि ब्रूहि त्वं सुमहातपाः
dharmaṃ lokopakāraṃ vā yaccānyacchrotumicchasi |
tadahaṃ kathayiṣyāmi brūhi tvaṃ sumahātapāḥ
युगेयुगे व्यतीतेऽस्मिन्धर्मसेतुः प्रणश्यति ।
कथं धर्मच्छलेनाहं प्राप्नुयामिति मे मतिः
yugeyuge vyatīte'smindharmasetuḥ praṇaśyati |
kathaṃ dharmacchalenāhaṃ prāpnuyāmiti me matiḥ
नारद उवाच
आसीद्धर्मः पुरा विप्र चतुष्पादः कृते युगे ।
ततो ह्यधर्मः कालेन प्रसूतः किञ्चिदूनतः
āsīddharmaḥ purā vipra catuṣpādaḥ kṛte yuge |
tato hyadharmaḥ kālena prasūtaḥ kiñcidūnataḥ
ततस्त्रेतायुगं नाम प्रवृत्तं धर्मदूषणम्
tatastretāyugaṃ nāma pravṛttaṃ dharmadūṣaṇam
तस्मिन्नतीते सम्प्राप्तं तृतीयं द्वापरं युगम् ।
तदा धर्मस्य द्वौ पादावधर्मो नाशयिष्यति
tasminnatīte samprāptaṃ tṛtīyaṃ dvāparaṃ yugam |
tadā dharmasya dvau pādāvadharmo nāśayiṣyati
द्वापरे तु परिक्षीणे नन्दिके समुपस्थिते ।
लोकवृत्तं च धर्मं च उच्यमानं निबोध मे
dvāpare tu parikṣīṇe nandike samupasthite |
lokavṛttaṃ ca dharmaṃ ca ucyamānaṃ nibodha me
चतुर्थं नन्दिकं नाम धर्मः पादावशेषितः ।
ततः प्रभृति जायन्ते क्षीणप्रज्ञायुपो नराः ।
क्षीणप्राणधना लोके धर्माचारबहिष्कृताः
caturthaṃ nandikaṃ nāma dharmaḥ pādāvaśeṣitaḥ |
tataḥ prabhṛti jāyante kṣīṇaprajñāyupo narāḥ |
kṣīṇaprāṇadhanā loke dharmācārabahiṣkṛtāḥ
मार्कण्डेय उवाच
एवं विलुलिते धर्मे लोके चाधर्मसंयुते ।
चातुर्वर्ण्यस्य नियतं हव्यं कव्यं नियच्छति
evaṃ vilulite dharme loke cādharmasaṃyute |
cāturvarṇyasya niyataṃ havyaṃ kavyaṃ niyacchati
नारद उवाच
मन्त्रपूतं सदा हव्यं कव्यं चैव न नश्यति ।
प्रतिगृह्णन्ति तद्देवा दातुर्न्यायात्प्रयच्छतः
mantrapūtaṃ sadā havyaṃ kavyaṃ caiva na naśyati |
pratigṛhṇanti taddevā dāturnyāyātprayacchataḥ
सत्वयुक्तं च दाता च सर्वान्कामानवाप्नुयात् ।
अवाप्तकामः स्वर्गे च महीयेत यथेप्सितम्
satvayuktaṃ ca dātā ca sarvānkāmānavāpnuyāt |
avāptakāmaḥ svarge ca mahīyeta yathepsitam
मार्कण्डेय उवाच
चत्वारो ह्यथ ये वर्णा हव्यं कव्यं प्रदास्यति ।
मन्त्रहीनमपन्यायं तेषां दत्तं क्व गच्छति
catvāro hyatha ye varṇā havyaṃ kavyaṃ pradāsyati |
mantrahīnamapanyāyaṃ teṣāṃ dattaṃ kva gacchati
नारद उवाच
असुरान्गच्छते दत्तं विप्रै रक्षांसि क्षत्रियैः ।
वैश्यैः प्रेतानि वै दत्तं शूद्रैर्भूतानि गच्छति
asurāngacchate dattaṃ viprai rakṣāṃsi kṣatriyaiḥ |
vaiśyaiḥ pretāni vai dattaṃ śūdrairbhūtāni gacchati
मार्कण्डेय उवाच
अथ वर्णावरे जाताश्चातुर्वर्ण्योपदेशिनः ।
दास्यन्ति हव्यकव्यानि तेषां दत्तं क्व गच्छति
atha varṇāvare jātāścāturvarṇyopadeśinaḥ |
dāsyanti havyakavyāni teṣāṃ dattaṃ kva gacchati
नारद उवाच
वर्णावराणां भूतानां हव्यकव्यप्रदातृणाम् ।
नैव देवा न पितरः प्रतिगृह्णन्ति तत्स्वयम्
varṇāvarāṇāṃ bhūtānāṃ havyakavyapradātṛṇām |
naiva devā na pitaraḥ pratigṛhṇanti tatsvayam
यातुधानाः पिशाचाश्च भूता ये चापि नैर्ऋताः ।
तेषां सा विहिता वृत्तिः पितृदैवतनिर्गताः
yātudhānāḥ piśācāśca bhūtā ye cāpi nairṛtāḥ |
teṣāṃ sā vihitā vṛttiḥ pitṛdaivatanirgatāḥ
तेषां सर्वप्रदातॄणां हव्यकव्यं समाहिताः ।
यत्प्रयच्छन्ति विधइवत्तद्वै भुञ्जन्ति देवताः
teṣāṃ sarvapradātṝṇāṃ havyakavyaṃ samāhitāḥ |
yatprayacchanti vidhaivattadvai bhuñjanti devatāḥ
पाठ का स्रोत: Wikisource · CC BY-SA 4.0 (Wikisource transcription of a public-domain text)