प्रायश्चित्तं कृतघ्नानां प्रतिब्रूहि पितामह ।
मातॄः पितॄन्गुरुंश्चैव येऽवमन्यन्ति मोहिताः
prāyaścittaṃ kṛtaghnānāṃ pratibrūhi pitāmaha |
mātṝḥ pitṝnguruṃścaiva ye'vamanyanti mohitāḥ
इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि त्रयस्त्रिंशोऽध्यायः ॥
25 श्लोक · 33 में से 274
युधिष्ठिर कृतघ्नता का और माता, पिता तथा गुरु के अपमान का प्रायश्चित्त पूछते हैं। भीष्म कहते हैं कि कृतघ्न अनन्त वर्षों तक नरक में रहते हैं और कीड़े तथा वृक्ष बनकर जन्म लेते हैं। फिर वे ब्रह्मर्षि वत्सनाभ की कथा कहते हैं, जिनके लम्बे तप में उन पर बाँबी बन गई। इन्द्र ने सात दिन वर्षा की और बिजली से बाँबी टूट गई। करुणा से धर्म भैंसा बनकर मुनि के ऊपर खड़े रहे, फिर चुपचाप चले गए। भैंसे को देखकर वत्सनाभ ने क्षण भर सोचा कि यह कितना मोटा और मांसल है। इसे कृतघ्नता मानकर, जिसका प्रायश्चित्त केवल प्राणत्याग है, वे मेरु के शिखर पर देह त्यागने गए। धर्म ने उनका हाथ पकड़ा, उन्हें पवित्र बताया और लौटा दिया।
युधिष्ठिर उवाच
प्रायश्चित्तं कृतघ्नानां प्रतिब्रूहि पितामह ।
मातॄः पितॄन्गुरुंश्चैव येऽवमन्यन्ति मोहिताः
prāyaścittaṃ kṛtaghnānāṃ pratibrūhi pitāmaha |
mātṝḥ pitṝnguruṃścaiva ye'vamanyanti mohitāḥ
ये चाप्यन्ते परे तात कृतघ्ना निरपत्रपाः ।
तेषां गतिं महाबाहो श्रोतुमिच्छामि तत्वतः
ye cāpyante pare tāta kṛtaghnā nirapatrapāḥ |
teṣāṃ gatiṃ mahābāho śrotumicchāmi tatvataḥ
भीष्म उवाच
कृतघ्नानां गतिस्तात नरके शाश्वतीः समाः ।
मातापितृगुरूणां च ये न तिष्ठन्ति शासने ।
क्रिमिकीटपिपीलेषु जायन्ते स्थावरेषु च
kṛtaghnānāṃ gatistāta narake śāśvatīḥ samāḥ |
mātāpitṛgurūṇāṃ ca ye na tiṣṭhanti śāsane |
krimikīṭapipīleṣu jāyante sthāvareṣu ca
दुर्लभो हि पुनस्तेषां मानुष्ये पुनरुद्भवः ।
अत्राप्युदाहरन्तीममितिहासं पुरातनम्
durlabho hi punasteṣāṃ mānuṣye punarudbhavaḥ |
atrāpyudāharantīmamitihāsaṃ purātanam
वत्सनाभो महाप्राज्ञो महर्षिः संशितव्रतः ।
वल्मीकभूतो ब्रह्मर्षिस्तप्यते सुमहत्तपः
vatsanābho mahāprājño maharṣiḥ saṃśitavrataḥ |
valmīkabhūto brahmarṣistapyate sumahattapaḥ
तस्मिंश्च तप्यति तपो वासवो भरतर्षभ ।
ववर्ष समुहद्वर्षं सविद्युत्स्तनयित्नुमान्
tasmiṃśca tapyati tapo vāsavo bharatarṣabha |
vavarṣa samuhadvarṣaṃ savidyutstanayitnumān
तत्र सप्ताहवर्षं तु मुमुचे पाकशासनः ।
निमीलिताक्षस्तद्वर्षं प्रत्यगृह्यत वै द्विजः
tatra saptāhavarṣaṃ tu mumuce pākaśāsanaḥ |
nimīlitākṣastadvarṣaṃ pratyagṛhyata vai dvijaḥ
तस्मिन्पतति वर्षे तु शीतवातसमन्विते ।
विशीर्णध्वस्तशिखरो वल्मीकोऽशनिताडितः
tasminpatati varṣe tu śītavātasamanvite |
viśīrṇadhvastaśikharo valmīko'śanitāḍitaḥ
ताड्यमाने ततस्तस्मिन्वत्सनाभे महात्मनि ।
कारुण्यात्तस्य धर्मः स्वमानृशंस्यमथाकरोत्
tāḍyamāne tatastasminvatsanābhe mahātmani |
kāruṇyāttasya dharmaḥ svamānṛśaṃsyamathākarot
चिन्तयानस्य ब्रह्मर्षि तपन्तमतिधार्मिकम् ।
अनुरूपा मतिः क्षिप्रमुपजाता स्वभावजा
cintayānasya brahmarṣi tapantamatidhārmikam |
anurūpā matiḥ kṣipramupajātā svabhāvajā
स्वं रूपं माहिषं कृत्वा ********* मनोहरम् ।
रक्षार्थं वत्सनामस्य चतुष्पादुपरिस्थितः
svaṃ rūpaṃ māhiṣaṃ kṛtvā ********* manoharam |
rakṣārthaṃ vatsanāmasya catuṣpāduparisthitaḥ
यदा त्वपगतं वर्षं वृष्टिवातसमन्वितम् ।
ततो महिषरुपेण धर्मो धर्मभृतांवर ।
शनैर्वल्मीकमुत्सृज्य प्राद्रवद्भरतर्षभ
yadā tvapagataṃ varṣaṃ vṛṣṭivātasamanvitam |
tato mahiṣarupeṇa dharmo dharmabhṛtāṃvara |
śanairvalmīkamutsṛjya prādravadbharatarṣabha
स्थितेऽस्मिन्वृष्टिसम्पाते वीक्षते स्म महातपाः ।
दिशश्च विपुलास्तत्र गिरीणां शिखराणि च
sthite'sminvṛṣṭisampāte vīkṣate sma mahātapāḥ |
diśaśca vipulāstatra girīṇāṃ śikharāṇi ca
दृष्ट्वा च पृथिवीं सर्वां सलिलेन परिप्लुताम् ।
जलाशयान्स तान्दृष्ट्वा विप्रः प्रमुदितोऽभवत्
dṛṣṭvā ca pṛthivīṃ sarvāṃ salilena pariplutām |
jalāśayānsa tāndṛṣṭvā vipraḥ pramudito'bhavat
अचिन्तयद्विस्मितश्चि विप्रः प्रमुदितोऽभवत् ॥
अचिन्तयद्विस्तितश्च वर्षात्केनाभिरक्षितः ।
ततोऽपश्यत्स महिषमवस्थितमदूरतः
acintayadvismitaści vipraḥ pramudito'bhavat ||
acintayadvistitaśca varṣātkenābhirakṣitaḥ |
tato'paśyatsa mahiṣamavasthitamadūrataḥ
तिर्यग्योनावपि कथं दृश्यते धर्मवत्सलः
tiryagyonāvapi kathaṃ dṛśyate dharmavatsalaḥ
अतो नु भद्रमहिषः शिलापट्टमवस्थितः ।
पीवरश्चैव बल्यश्च बहुमांसो भवेदयम्
ato nu bhadramahiṣaḥ śilāpaṭṭamavasthitaḥ |
pīvaraścaiva balyaśca bahumāṃso bhavedayam
तस्य बुद्धिरियं जाता धर्मसंसक्तजा मुनेः ।
कृतघ्ना नरकं यान्ति ये च विश्वस्तघातिनः
tasya buddhiriyaṃ jātā dharmasaṃsaktajā muneḥ |
kṛtaghnā narakaṃ yānti ye ca viśvastaghātinaḥ
निष्कृतिं नैव पश्यामि कृतघ्नानां कथञ्चन ।
क्रते प्राणिपरित्यागाद्धर्मज्ञानां वचो यथा
niṣkṛtiṃ naiva paśyāmi kṛtaghnānāṃ kathañcana |
krate prāṇiparityāgāddharmajñānāṃ vaco yathā
अकृत्वा भरणं पित्रोरदत्त्वा गुरुदक्षिणाम् ।
कृतघ्नतां च सम्प्राप्य मरणान्ता च निष्कृतिः
akṛtvā bharaṇaṃ pitroradattvā gurudakṣiṇām |
kṛtaghnatāṃ ca samprāpya maraṇāntā ca niṣkṛtiḥ
आकाङ्क्षायामुपेक्षायां चोपपातकमुत्तमम् ।
तस्मात्प्राणान्परित्यक्ष्ये प्रायश्चित्तार्थमित्युत
ākāṅkṣāyāmupekṣāyāṃ copapātakamuttamam |
tasmātprāṇānparityakṣye prāyaścittārthamityuta
स मेरुशिखरं गत्वा निस्यङ्केनान्तरात्मना ।
प्रायश्चित्तं कर्तुकामः शरीरं त्यक्तुमुद्यतः ।
निगृहीतश्च धर्मात्मा हस्ते धर्मेण धर्मवित्
sa meruśikharaṃ gatvā nisyaṅkenāntarātmanā |
prāyaścittaṃ kartukāmaḥ śarīraṃ tyaktumudyataḥ |
nigṛhītaśca dharmātmā haste dharmeṇa dharmavit
धर्मि उवाच
वत्सनाभ महाप्राज्ञ बहुवर्षशतायुष ।
परितुष्टोस्मि त्यागेन निस्सङ्गेन तथाऽऽत्मनः
vatsanābha mahāprājña bahuvarṣaśatāyuṣa |
parituṣṭosmi tyāgena nissaṅgena tathā''tmanaḥ
एवं धर्मभृतः सर्वे विमृशन्ति कृताकृतम् ।
न कश्चिद्वत्सनाभस्य यस्य नोपहतं मनः
evaṃ dharmabhṛtaḥ sarve vimṛśanti kṛtākṛtam |
na kaścidvatsanābhasya yasya nopahataṃ manaḥ
यश्चानवद्यश्चरति शक्तो धर्मं च सर्वशः ।
निवर्तस्व महाप्राज्ञ् पूतात्मा ह्यसि शाश्वतः
yaścānavadyaścarati śakto dharmaṃ ca sarvaśaḥ |
nivartasva mahāprājñ pūtātmā hyasi śāśvataḥ
पाठ का स्रोत: Wikisource · CC BY-SA 4.0 (Wikisource transcription of a public-domain text)