अनुशासन पर्व

अध्याय 32: श्री रुक्मिणी को अपना निवास बताती हैं

इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि द्वात्रिंशोऽध्यायः ॥

24 श्लोक · 32 में से 274

इस अध्याय में क्या होता है

श्री रुक्मिणी को अपना निवास बताती हैं

युधिष्ठिर पूछते हैं कि श्री किस पुरुष और स्त्री में सदा रहती हैं। भीष्म बताते हैं कि नारायण की गोद में श्री को देखकर रुक्मिणी ने श्रीकृष्ण के सामने उनसे पूछा कि वे किनके पास रहती हैं। श्री कहती हैं कि वे कर्मठ, कुशल, कृतज्ञ, क्रोधरहित और जितेन्द्रिय पुरुष में रहती हैं, आलसी, नास्तिक, कृतघ्न और क्रूर में नहीं। सत्यवती, पतिव्रता, देवता और ब्राह्मणों की सेवा करने वाली, घर स्वच्छ रखने और गौ तथा अन्न का ध्यान रखने वाली स्त्रियों में वे बसती हैं, कलहप्रिय, अपवित्र और दिन भर सोने वाली स्त्री को त्याग देती हैं। वर्षा वाले मेघ, खिले कमल, हाथी, गौशाला, सिंहासन और अतिथि तथा अग्नि का आदर करने वाले घर भी उनके निवास हैं। सबसे बढ़कर वे पूरे भाव से नारायण में रहती हैं।

युधिष्ठिर उवाच

32.1

कीदृशे पुरुषे तात स्त्रीषु भरतर्षभ ।
श्रीः पद्मा वसते नित्यं तन्मे ब्रूहि पितामह

kīdṛśe puruṣe tāta strīṣu bharatarṣabha |
śrīḥ padmā vasate nityaṃ tanme brūhi pitāmaha

भीष्म उवाच

32.2

अत्र ते वर्णयिष्यामि यथावृत्तं यथाश्रुतम् ।
रुक्मिणी देवकीपुत्रसन्निधौ पर्यपृच्छत

atra te varṇayiṣyāmi yathāvṛttaṃ yathāśrutam |
rukmiṇī devakīputrasannidhau paryapṛcchata

32.3

नारायणस्याङ्कगतां ज्वलन्तीं
दृष्ट्वा श्रियं पद्मसमानवक्त्राम् ।

nārāyaṇasyāṅkagatāṃ jvalantīṃ
dṛṣṭvā śriyaṃ padmasamānavaktrām |

32.4

कौतूहलाद्विस्मितचारुनेत्रा
पप्रच्छ माता मकरध्वजस्यष
कानीह भूतान्युपसेवसे त्वं
सन्तिष्ठसे कानि च सेवसे त्वम् ।
तानि त्रिलोकेश्वरभूतकान्ते
तत्त्वेन मे ब्रूहि महर्षिकन्ये

kautūhalādvismitacārunetrā
papraccha mātā makaradhvajasyaṣa
kānīha bhūtānyupasevase tvaṃ
santiṣṭhase kāni ca sevase tvam |
tāni trilokeśvarabhūtakānte
tattvena me brūhi maharṣikanye

32.5

एवं तदा श्रीराभिभाष्यमाणा
देव्या समक्षं गरुडध्वजस्य ।
उवाच वाक्यं मधुराभिधानं
मनोहरं चन्द्रमुखी प्रसन्ना

evaṃ tadā śrīrābhibhāṣyamāṇā
devyā samakṣaṃ garuḍadhvajasya |
uvāca vākyaṃ madhurābhidhānaṃ
manoharaṃ candramukhī prasannā

श्रीरुवाच

32.6

वसामि नित्यं सुभगे प्रगल्भे
दक्षे नरे कर्मणि वर्तमाने ।
अक्रोधने देवपरे कृतज्ञे
जितेन्द्रिये नित्यमुदीर्णसत्वे

vasāmi nityaṃ subhage pragalbhe
dakṣe nare karmaṇi vartamāne |
akrodhane devapare kṛtajñe
jitendriye nityamudīrṇasatve

32.7

नाकर्मशीले पुरुषे वसामि
न नास्तिके साङ्करिके कृतघ्ने ।
न भिन्नवृत्ते न नृशंसवृत्ते
न चाविनीते न गुरुष्वसूयके

nākarmaśīle puruṣe vasāmi
na nāstike sāṅkarike kṛtaghne |
na bhinnavṛtte na nṛśaṃsavṛtte
na cāvinīte na guruṣvasūyake

32.8

ये चाल्पतेजोबलसत्त्वमानाः
क्लिश्यन्ति कुप्यन्ति च यत्रतत्र ।
न चैव तिष्ठामि तथाविधेषु
नरेषु सङ्गुप्तमनोरथेषु

ye cālpatejobalasattvamānāḥ
kliśyanti kupyanti ca yatratatra |
na caiva tiṣṭhāmi tathāvidheṣu
nareṣu saṅguptamanoratheṣu

32.9

यश्चात्मनि प्रार्थयते न किञ्चि-
द्यश्च स्वभावोपहतान्तरात्मा ।
द्यश्च स्वभावोपहतान्तरात्मा ।
नरेषु नाहं निवसामि स्म्यक्

yaścātmani prārthayate na kiñci-
dyaśca svabhāvopahatāntarātmā |
dyaśca svabhāvopahatāntarātmā |
nareṣu nāhaṃ nivasāmi smyak

32.10

वसामि धर्मशीलेषु धर्मज्ञेषु महात्मसु ।
वृद्धसेविषु दान्तेषु सत्वज्ञेषु महात्मसु

vasāmi dharmaśīleṣu dharmajñeṣu mahātmasu |
vṛddhaseviṣu dānteṣu satvajñeṣu mahātmasu

32.11

अवन्ध्यकालेषु सदा दानशौचरतषु च ।
ब्रह्मचर्यतपोज्ञानगोद्विजातिप्रियेषु च

avandhyakāleṣu sadā dānaśaucarataṣu ca |
brahmacaryatapojñānagodvijātipriyeṣu ca

32.12

स्त्रीषु कान्तासु शान्तासु देवद्विजपरासु च ।
विशुद्धगृहभाण्डासु गोधान्याभिरतासु च

strīṣu kāntāsu śāntāsu devadvijaparāsu ca |
viśuddhagṛhabhāṇḍāsu godhānyābhiratāsu ca

32.13

वसागि देवद्विजपूजिकासु

vasāgi devadvijapūjikāsu

32.14

प्रकीर्णभाण्डामनवेक्ष्यकारिणीं
सदा च भर्तुः प्रतिकूलवादिनीम् ।

prakīrṇabhāṇḍāmanavekṣyakāriṇīṃ
sadā ca bhartuḥ pratikūlavādinīm |

32.15

लोलामदक्षामवलेपिनीं च
व्यपेतशौचां कलहप्रियां च ।
निद्राभिभूतां सततं शयाना-
मेवंविधां स्त्रीं परिवर्जयामि

lolāmadakṣāmavalepinīṃ ca
vyapetaśaucāṃ kalahapriyāṃ ca |
nidrābhibhūtāṃ satataṃ śayānā-
mevaṃvidhāṃ strīṃ parivarjayāmi

32.16

सत्यासु नित्यं प्रियदर्शनासु
सौभाग्ययुक्तासु गुणान्वितासु ।
वसामि नारीषु पतिव्रतासु
कल्याणशीलासु विभूषितासु

satyāsu nityaṃ priyadarśanāsu
saubhāgyayuktāsu guṇānvitāsu |
vasāmi nārīṣu pativratāsu
kalyāṇaśīlāsu vibhūṣitāsu

32.17

यानेषु कन्यासु विभूषणेषु
यज्ञेषु मेघेषु च वृष्टिमत्सु ।
वसामि फुल्लासु च पद्मिनीषु
नक्षत्रवीथीषु च शारदीषु

yāneṣu kanyāsu vibhūṣaṇeṣu
yajñeṣu megheṣu ca vṛṣṭimatsu |
vasāmi phullāsu ca padminīṣu
nakṣatravīthīṣu ca śāradīṣu

32.18

गजेषु गोष्ठेषु तथाऽऽसनेषु
सरःसु फुल्लोत्पलपङ्कजेषु ।
नदीषु हंसस्वननादितासु
क्रौञ्चावघुष्टस्वरशोभितासु

gajeṣu goṣṭheṣu tathā''saneṣu
saraḥsu phullotpalapaṅkajeṣu |
nadīṣu haṃsasvananāditāsu
krauñcāvaghuṣṭasvaraśobhitāsu

32.19

विकीर्णकूलद्रुमराजितासु
तपस्विसिद्धद्विजसेवितासु ।
वसामि नित्यं सुबहूदकासु
सिम्हैर्गजैश्चाकुलितोदकासु

vikīrṇakūladrumarājitāsu
tapasvisiddhadvijasevitāsu |
vasāmi nityaṃ subahūdakāsu
simhairgajaiścākulitodakāsu

32.20

मत्ते गजे गोवृषभे नरेन्द्रे
सिम्हासने सत्पुरुषेषु नित्यम्

matte gaje govṛṣabhe narendre
simhāsane satpuruṣeṣu nityam

32.21

यस्मिञ्चनो हव्यभुजं जुहोति
गोब्राह्मणं चार्चति देवताश्च
काले च पुष्पैर्बलयः क्रियन्ते
तस्मिन्गृहे नित्यमुपैमि वासम्

yasmiñcano havyabhujaṃ juhoti
gobrāhmaṇaṃ cārcati devatāśca
kāle ca puṣpairbalayaḥ kriyante
tasmingṛhe nityamupaimi vāsam

32.22

स्वाध्यायनित्येषु सदा द्विजेषु
क्षत्रे च धर्माभिरते सदैव ।
वैश्ये च कृष्याभिरते वसामि
शूद्रे च शुश्रूषणनित्ययुक्ते

svādhyāyanityeṣu sadā dvijeṣu
kṣatre ca dharmābhirate sadaiva |
vaiśye ca kṛṣyābhirate vasāmi
śūdre ca śuśrūṣaṇanityayukte

32.23

नारायणे त्वेकमना वसामि
सर्वेण भावेन शरीरभूता ।
तस्मिन्हि धर्मः सुमहान्निविष्टो
ब्रह्मिण्यता चात्र तथा प्रियत्वम्

nārāyaṇe tvekamanā vasāmi
sarveṇa bhāvena śarīrabhūtā |
tasminhi dharmaḥ sumahānniviṣṭo
brahmiṇyatā cātra tathā priyatvam

32.24

नाहं शरीरेण वसामि देवि
नैवं मया शक्यमिहाभिधातुम् ।
भावेन यस्मिन्निवसामि पुंसि
स वर्धते धर्मयशोर्थकामैः

nāhaṃ śarīreṇa vasāmi devi
naivaṃ mayā śakyamihābhidhātum |
bhāvena yasminnivasāmi puṃsi
sa vardhate dharmayaśorthakāmaiḥ

पाठ का स्रोत: Wikisource · CC BY-SA 4.0 (Wikisource transcription of a public-domain text)