कार्यते यच्च क्रियते सच्चासच्च कृताकृतम् ।
तत्राश्वसीत सत्कृत्वा असत्कृत्वा न विश्वसेत्
kāryate yacca kriyate saccāsacca kṛtākṛtam |
tatrāśvasīta satkṛtvā asatkṛtvā na viśvaset
इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि सप्तत्यधिकद्विशततमोऽध्यायः ॥
16 श्लोक · 270 में से 274
जो भली प्रकार किया गया हो उस पर विश्वास करो, बुरे किए पर कभी नहीं। काल सबके भीतर की शक्ति है, वही प्राणियों की बुद्धि में प्रवेश कर धर्म और अधर्म को चलाता है और निग्रह तथा अनुग्रह देता है। भाव की शुद्धि तप, देवपूजा, जप, श्रुत और दान से होती है, और अशुद्ध मनुष्य धर्म के समय दान नहीं दे सकता। काल से रक्षित धर्म को अधर्म छू नहीं सकता, जैसे जलती अग्नि को हाथ से नहीं पकड़ा जाता। कुछ लोग सोचते हैं कि मैं शूद्र हूँ, आश्रमों में मेरा अधिकार नहीं, और धर्म को अपने भीतर नहीं लेते। भीष्म कहते हैं कि सबके शरीर पञ्चभूतों के हैं और सबकी आत्मा समान है, इसलिए किसी भी प्राणी के धर्मसेवन में दोष नहीं।
भीष्म उवाच
कार्यते यच्च क्रियते सच्चासच्च कृताकृतम् ।
तत्राश्वसीत सत्कृत्वा असत्कृत्वा न विश्वसेत्
kāryate yacca kriyate saccāsacca kṛtākṛtam |
tatrāśvasīta satkṛtvā asatkṛtvā na viśvaset
काल एवान्तराशक्तिर्निग्रहानुग्रहौ ददत् ।
बुद्धिमाविश्य भूतानां धर्माधर्मौ प्रवर्तते
kāla evāntarāśaktirnigrahānugrahau dadat |
buddhimāviśya bhūtānāṃ dharmādharmau pravartate
यदा त्वस्य भवेद्बुद्धिर्धर्मार्थस्य प्रदर्शनात् ।
तदाश्वसीत धर्मात्मा दृढबुद्धिर्न विश्वसेत्
yadā tvasya bhavedbuddhirdharmārthasya pradarśanāt |
tadāśvasīta dharmātmā dṛḍhabuddhirna viśvaset
एतावन्मात्रमेतद्धि भूतानां प्राज्ञलक्षणम् ।
कालयुक्तोऽप्युभयविच्छेषं युक्तं समाचरेत्
etāvanmātrametaddhi bhūtānāṃ prājñalakṣaṇam |
kālayukto'pyubhayaviccheṣaṃ yuktaṃ samācaret
यथा ह्युपस्थितैश्वर्याः पूजयन्ति नरा जनान् ।
एवमेवात्मनाऽऽत्मानं पूजयन्तीह धार्मिकाः
yathā hyupasthitaiśvaryāḥ pūjayanti narā janān |
evamevātmanā''tmānaṃ pūjayantīha dhārmikāḥ
भावशुद्धिस्तु तपसा देवतानां च मूजया ।
सनातनेन शुद्ध्या च श्रुतदानजपैरपि ।
न ह्यशुद्धस्तु तां दद्याद्धर्मकाले कथञ्चन
bhāvaśuddhistu tapasā devatānāṃ ca mūjayā |
sanātanena śuddhyā ca śrutadānajapairapi |
na hyaśuddhastu tāṃ dadyāddharmakāle kathañcana
न ह्यधर्मतया धर्मं दद्यात्कालः कथञ्चन ।
तस्माद्विशुद्धमात्मानं जानीयाद्धर्मचारिणम्
na hyadharmatayā dharmaṃ dadyātkālaḥ kathañcana |
tasmādviśuddhamātmānaṃ jānīyāddharmacāriṇam
स्प्रष्टुमप्यसमर्थो हि ज्वलन्तमिव पावकम् ।
अधर्मः सन्ततो धर्मं कालेन परिरक्षितम्
spraṣṭumapyasamartho hi jvalantamiva pāvakam |
adharmaḥ santato dharmaṃ kālena parirakṣitam
कार्यावेतौ हि धर्मोणि धर्मो हि विजयावहः ।
त्रयाणामपि लोकानामालोकः कारणं भवेत्
kāryāvetau hi dharmoṇi dharmo hi vijayāvahaḥ |
trayāṇāmapi lokānāmālokaḥ kāraṇaṃ bhavet
न तु कश्चिन्नयेत्प्राज्ञो गृहीत्वैव करे नरम् ।
ऊह्यमानस्तु धर्मेण प्राप्नुयात्परमच्युतम् ।
विश्वास एव कर्तव्यो बहुधर्मे शुभच्छले
na tu kaścinnayetprājño gṛhītvaiva kare naram |
ūhyamānastu dharmeṇa prāpnuyātparamacyutam |
viśvāsa eva kartavyo bahudharme śubhacchale
शूद्रोऽहं नाधिकारो मे चातुराश्रम्यसेवने ।
इति विज्ञानमपरे नात्मन्युपदधत्युत
śūdro'haṃ nādhikāro me cāturāśramyasevane |
iti vijñānamapare nātmanyupadadhatyuta
विशेषेण च वक्ष्यामि चातुर्वर्ण्यस्य लिङ्गतः ।
पञ्चभूतशरीराणां सर्वेषां सदृशात्मनाम्
viśeṣeṇa ca vakṣyāmi cāturvarṇyasya liṅgataḥ |
pañcabhūtaśarīrāṇāṃ sarveṣāṃ sadṛśātmanām
लोकधर्मे च धर्मे च विशेषकरणं कृतम् ।
यथैकत्वं पुनर्यान्ति प्राणिनस्तत्र विस्तरः
lokadharme ca dharme ca viśeṣakaraṇaṃ kṛtam |
yathaikatvaṃ punaryānti prāṇinastatra vistaraḥ
अध्रुवो हि कथं लोकः स्मृतो धर्मः कथं ध्रुवः ।
यत्र कालो ध्रुवस्तात तत्र धर्मः सनातनः
adhruvo hi kathaṃ lokaḥ smṛto dharmaḥ kathaṃ dhruvaḥ |
yatra kālo dhruvastāta tatra dharmaḥ sanātanaḥ
सर्वेषां तुल्यदेहानां सर्वेषां सदृशात्मनाम् ।
कालो धर्मेण संयुक्तः शेष एव स्वयं गुरुः
sarveṣāṃ tulyadehānāṃ sarveṣāṃ sadṛśātmanām |
kālo dharmeṇa saṃyuktaḥ śeṣa eva svayaṃ guruḥ
एवं सति न दोषोऽस्ति भूतानां धर्मसेवने ।
तिर्यग्योनावपि सतां लोक एव मतो गुरुः
evaṃ sati na doṣo'sti bhūtānāṃ dharmasevane |
tiryagyonāvapi satāṃ loka eva mato guruḥ
पाठ का स्रोत: Wikisource · CC BY-SA 4.0 (Wikisource transcription of a public-domain text)