अनुशासन पर्व

अध्याय 267: आगम, प्रत्यक्ष और सज्जनों का आचार

इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि सप्तषष्ट्यधिकद्विशततमोऽध्यायः ॥

26 श्लोक · 267 में से 274

इस अध्याय में क्या होता है

आगम, प्रत्यक्ष और सज्जनों का आचार

श्रीकृष्ण के वचन पूरे होने पर युधिष्ठिर भीष्म से पूछते हैं कि संशय का निर्णय किससे हो, आँखों देखे प्रत्यक्ष से या शास्त्र के आगम से। भीष्म कहते हैं कि संशय सरल है, उसका निर्णय कठिन। जो केवल तर्क को कारण मानकर कहते हैं कि इसके आगे कुछ नहीं, वे अपने को पण्डित समझने वाले बालक हैं। लम्बे संयमित प्रयत्न से ही वह ज्योति मिलती है जहाँ तर्क समाप्त होते हैं। फिर युधिष्ठिर पूछते हैं कि वेद, प्रत्यक्ष और आचार तीन प्रमाण होकर एक धर्म कैसे हैं। भीष्म उत्तर देते हैं कि धर्म एक है, उसके दर्शन तीन। तर्क से उसे मत खींचो, जैसा बताया है वैसा आचरण करो। अहिंसा, सत्य, अक्रोध और दान सनातन धर्म हैं। पितृपरम्परा का मार्ग पकड़ो और उसके उपदेशक ब्राह्मणों का सम्मान करो।

वैशम्पायन उवाच

267.1

इत्युक्तवति तद्वाक्यं कृष्णे देवकिनन्दने ।
भीष्मं शान्तनवं भूयः पर्यपृच्छद्युधिष्ठिरः

ityuktavati tadvākyaṃ kṛṣṇe devakinandane |
bhīṣmaṃ śāntanavaṃ bhūyaḥ paryapṛcchadyudhiṣṭhiraḥ

267.2

निर्णये वा महाबुद्धे सर्वधर्मविदांवर ।
प्रत्यक्षमागमो वेति किं तयोः कारणं भवेत्

nirṇaye vā mahābuddhe sarvadharmavidāṃvara |
pratyakṣamāgamo veti kiṃ tayoḥ kāraṇaṃ bhavet

भीष्म उवाच

267.3

नास्त्यत्रि संशयः कश्चिदिति मे वर्तते मतिः ।
शृणु वक्ष्यामि ते प्राज्ञ सम्यक्त्वं मेऽनुपृच्छसि

nāstyatri saṃśayaḥ kaściditi me vartate matiḥ |
śṛṇu vakṣyāmi te prājña samyaktvaṃ me'nupṛcchasi

267.4

संशयः सुगमस्तत्र दुर्गमस्तस्य निर्णयः ।
दृष्टं श्रुतमनन्तं हि यत्र संशयदर्शन्

saṃśayaḥ sugamastatra durgamastasya nirṇayaḥ |
dṛṣṭaṃ śrutamanantaṃ hi yatra saṃśayadarśan

267.5

प्रत्यक्षं कारणं दृष्टं हैतुकं प्राज्ञमानिनः ।
नास्तीत्येवं व्यवस्यन्ति सत्यमागममेव वा

pratyakṣaṃ kāraṇaṃ dṛṣṭaṃ haitukaṃ prājñamāninaḥ |
nāstītyevaṃ vyavasyanti satyamāgamameva vā

267.6

तदयुक्तं व्यवस्यन्ति बालाः पण्डितमानिनः ।
अथ सञ्चिन्त्यमेवैकं कारणं किं भवेदिति

tadayuktaṃ vyavasyanti bālāḥ paṇḍitamāninaḥ |
atha sañcintyamevaikaṃ kāraṇaṃ kiṃ bhavediti

267.7

शक्यं दीर्घेण कालेन युक्तेनामन्त्रितेन च ।
प्राणयात्रामनेकां च कल्पयानेन भारत

śakyaṃ dīrgheṇa kālena yuktenāmantritena ca |
prāṇayātrāmanekāṃ ca kalpayānena bhārata

267.8

तत्परेणैव नान्येन शक्यते तत्तु कारणम् ।
हेतूनामन्तमासाद्य विपुलं ज्ञानमुत्तमम्

tatpareṇaiva nānyena śakyate tattu kāraṇam |
hetūnāmantamāsādya vipulaṃ jñānamuttamam

267.9

ज्योतिः सर्वस्य लोकस्य विपुलं प्रतिपद्यते ।
न त्वेव गमनं राजन्हेतुतो गमनं तथा ।
अग्राह्यमनिबद्धं च वाचा सम्परिवर्जयेत्

jyotiḥ sarvasya lokasya vipulaṃ pratipadyate |
na tveva gamanaṃ rājanhetuto gamanaṃ tathā |
agrāhyamanibaddhaṃ ca vācā samparivarjayet

युधिष्ठिर उवाच

267.10

प्रत्यिक्षं लोकतः सिद्धिर्लोकश्चागमपूर्वकः ।
शिष्टाचारो बहुविधस्तन्मे ब्रूहि पितामहः

pratyikṣaṃ lokataḥ siddhirlokaścāgamapūrvakaḥ |
śiṣṭācāro bahuvidhastanme brūhi pitāmahaḥ

भीष्म उवाच

267.11

धर्मस्य ह्रियमाणस्य बलवद्भिर्दुरात्मभिः ।
संस्था यत्नैरपि कृता कालेन प्रतिभिद्यते

dharmasya hriyamāṇasya balavadbhirdurātmabhiḥ |
saṃsthā yatnairapi kṛtā kālena pratibhidyate

267.12

अधर्मो धर्मरूपेण तृणैः कूप इवावृतः ।
ततस्तैर्भिद्यते वृत्तं शृणु चैव युधिष्ठिर

adharmo dharmarūpeṇa tṛṇaiḥ kūpa ivāvṛtaḥ |
tatastairbhidyate vṛttaṃ śṛṇu caiva yudhiṣṭhira

267.13

अवृत्त्या ये तु निन्दनि श्रुतत्यागपरायणाः ।
धर्मविद्वेषिणो मन्दा इत्युक्तस्तेषु संशयः

avṛttyā ye tu nindani śrutatyāgaparāyaṇāḥ |
dharmavidveṣiṇo mandā ityuktasteṣu saṃśayaḥ

267.14

अतृप्यन्तस्तु साधूनां यावदागमबुद्धयः ।
परमित्येव सन्तुष्टास्तानुपास्स्व च पृच्छ च

atṛpyantastu sādhūnāṃ yāvadāgamabuddhayaḥ |
paramityeva santuṣṭāstānupāssva ca pṛccha ca

267.15

कामार्थौ पृष्ठतः कृत्वा लोभमोहानुसारिणौ ।
धर्म इत्येव सम्बुद्धस्तानुपास्स्व च पृच्छ च

kāmārthau pṛṣṭhataḥ kṛtvā lobhamohānusāriṇau |
dharma ityeva sambuddhastānupāssva ca pṛccha ca

267.16

न तेषां भिद्यते वृत्तं यज्ञाः स्वाध्यायकर्म च ।
आचारः कारणं चैव धर्मश्चैकस्त्रयं पुनः

na teṣāṃ bhidyate vṛttaṃ yajñāḥ svādhyāyakarma ca |
ācāraḥ kāraṇaṃ caiva dharmaścaikastrayaṃ punaḥ

युधिष्ठिर उवाच

267.17

पुनरेव हि मे बुद्धि संशये परिमुह्यति ।
अपरो मज्जमानस्य परं तीरमपश्यतः

punareva hi me buddhi saṃśaye parimuhyati |
aparo majjamānasya paraṃ tīramapaśyataḥ

267.18

वेदः प्रत्यक्षमाचारः प्रमाणं तत्त्रयं यदि ।
पृथक्त्वं लभ्यते चैषां धर्मश्चैतत्त्रयं कथम्

vedaḥ pratyakṣamācāraḥ pramāṇaṃ tattrayaṃ yadi |
pṛthaktvaṃ labhyate caiṣāṃ dharmaścaitattrayaṃ katham

भीष्म उवाच

267.19

धर्मस्य ह्रियमाणस्य बलवद्भिर्दुरात्मभिः ।
यद्येवं मन्यसे राजंस्त्रिधा धर्मविचारणा

dharmasya hriyamāṇasya balavadbhirdurātmabhiḥ |
yadyevaṃ manyase rājaṃstridhā dharmavicāraṇā

267.20

एक एवेति जानीहि त्रिधा धर्मस्य दर्शनम् ।
पृथक्त्वे च न मे बुद्धिस्त्रयाणामपि वै तथा

eka eveti jānīhi tridhā dharmasya darśanam |
pṛthaktve ca na me buddhistrayāṇāmapi vai tathā

267.21

[उक्तो मार्गस्त्रयाणां च तत्तथैव समाचर ।
जिज्ञासा न तु कर्तव्या धर्मस्य परितर्कणात्

[ukto mārgastrayāṇāṃ ca tattathaiva samācara |
jijñāsā na tu kartavyā dharmasya paritarkaṇāt

267.22

सदैव भरतश्रेष्ठ मा ते भूदत्र संशयः ।
अन्धो जड इवाशङ्की यद्ब्रवीमि तदाचर

sadaiva bharataśreṣṭha mā te bhūdatra saṃśayaḥ |
andho jaḍa ivāśaṅkī yadbravīmi tadācara

267.23

अहिंसा सत्यमक्रोधो दानमेतच्चतुष्टयम् ।
अजातशत्रो सेवस्य धर्म एष सनातनः ॥]

ahiṃsā satyamakrodho dānametaccatuṣṭayam |
ajātaśatro sevasya dharma eṣa sanātanaḥ ||]

267.24

ब्राह्मणेषु च वृत्तिर्या पितृपैतामहोचिता ।
तामन्वेहि महाबाहो धर्मस्यैते हि देशिकाः

brāhmaṇeṣu ca vṛttiryā pitṛpaitāmahocitā |
tāmanvehi mahābāho dharmasyaite hi deśikāḥ

267.25

प्रमाणमप्रमाणं वै यः कुर्यादबुधो जनः ।
न स प्रमाणतामर्हो विषादजननो हि सः

pramāṇamapramāṇaṃ vai yaḥ kuryādabudho janaḥ |
na sa pramāṇatāmarho viṣādajanano hi saḥ

267.26

ब्राह्मणानेव सेवस्व सत्कृत्य बहुमान्य च ।
एतेष्वेव त्विमे लोकाः कृत्स्ना इति निबोध तान्

brāhmaṇāneva sevasva satkṛtya bahumānya ca |
eteṣveva tvime lokāḥ kṛtsnā iti nibodha tān

पाठ का स्रोत: Wikisource · CC BY-SA 4.0 (Wikisource transcription of a public-domain text)