शृणु मूढ गुणान्कांश्चिद्ब्राह्मणानां महात्मनाम् ।
ये त्वया कीर्तिता राजंस्तेभ्योऽथ ब्राह्मणो वरः
śṛṇu mūḍha guṇānkāṃścidbrāhmaṇānāṃ mahātmanām |
ye tvayā kīrtitā rājaṃstebhyo'tha brāhmaṇo varaḥ
इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि अष्टपञ्चाशदधिकद्विशततमोऽध्यायः ॥
19 श्लोक · 258 में से 274
वायु अर्जुन को मूढ़ कहकर उसके गिनाए तत्त्वों से भी बड़े ब्राह्मणों के कार्य सुनाते हैं। कश्यप से होड़ करने पर पृथ्वी नष्ट हुई और कश्यप ने ही उसे फिर स्थापित किया। अङ्गिरा ने जल को दूध की तरह पी लिया और फिर बाढ़ से पृथ्वी भर दी; उनके भय से वायु स्वयं अग्निहोत्र में जा छिपे। अहल्या की कामना करने पर गौतम ने इन्द्र को शाप दिया। स्वर्ण वर्ण, धूमरहित और ऊर्ध्वशिखा वाले अग्नि ने अङ्गिरा के शाप से वे गुण खो दिए। वायु पूछते हैं कि अग्नि की उपासना करने वाला अर्जुन उस ब्राह्मण को क्यों नहीं जानता जो सारे लोक का हव्य वहन करता है। वे अजन्मा, अविनाशी, चराचर के स्रष्टा ब्रह्मा की बात करते हैं, और अर्जुन चुप हो जाता है।
वायुरुवाच
शृणु मूढ गुणान्कांश्चिद्ब्राह्मणानां महात्मनाम् ।
ये त्वया कीर्तिता राजंस्तेभ्योऽथ ब्राह्मणो वरः
śṛṇu mūḍha guṇānkāṃścidbrāhmaṇānāṃ mahātmanām |
ye tvayā kīrtitā rājaṃstebhyo'tha brāhmaṇo varaḥ
त्यक्त्वा महीत्वं भूमिस्तु स्पर्धया काश्यपस्य ह ।
नाशं जगाम तां विप्रो व्यस्तम्ययत कश्यपः
tyaktvā mahītvaṃ bhūmistu spardhayā kāśyapasya ha |
nāśaṃ jagāma tāṃ vipro vyastamyayata kaśyapaḥ
अक्षया ब्राह्मणा राजन्दिवि चेह च नित्यदा ।
अपिबत्तेजसा ह्यापः स्वयमेवाङ्गिराः पुरा
akṣayā brāhmaṇā rājandivi ceha ca nityadā |
apibattejasā hyāpaḥ svayamevāṅgirāḥ purā
स ताः पिबञ्शीरमिव नातृप्यत महातपाः ।
अपूरयन्महौघेन महीं सर्वां च पार्थिव
sa tāḥ pibañśīramiva nātṛpyata mahātapāḥ |
apūrayanmahaughena mahīṃ sarvāṃ ca pārthiva
तस्मिन्नहं च क्रुद्धे वै जगत्त्यक्त्वा ततो भयात् ।
व्यतिष्ठमग्निहोत्रे च चिरमङ्गिरसो भयात्
tasminnahaṃ ca kruddhe vai jagattyaktvā tato bhayāt |
vyatiṣṭhamagnihotre ca ciramaṅgiraso bhayāt
अथ शप्तश्च भगवान्गौतमेन पुरंदरः ।
अहल्यां कामयानो वै धर्मार्थं च न हिंसितः
atha śaptaśca bhagavāngautamena puraṃdaraḥ |
ahalyāṃ kāmayāno vai dharmārthaṃ ca na hiṃsitaḥ
तथा समुद्रो नृपते पूर्णो दृष्टश्च वारिणा ।
ब्राह्मणैरभिशप्तश्च बभूव लवणोदकः
tathā samudro nṛpate pūrṇo dṛṣṭaśca vāriṇā |
brāhmaṇairabhiśaptaśca babhūva lavaṇodakaḥ
सुवर्णवर्णो निर्धूमः सङ्गतोर्ध्वशिखः कविः ।
क्रुद्धेनाङ्गिरसा शप्तो गुणैरेतैर्विवर्जितः
suvarṇavarṇo nirdhūmaḥ saṅgatordhvaśikhaḥ kaviḥ |
kruddhenāṅgirasā śapto guṇairetairvivarjitaḥ
महतश्चूर्णितान्पश्य ये हासन्त महोदधिम् ।
सुवर्णिधारिणा नित्यमवशप्ता द्विजातिना
mahataścūrṇitānpaśya ye hāsanta mahodadhim |
suvarṇidhāriṇā nityamavaśaptā dvijātinā
सम्मतत्वं द्विजातिभ्यः श्रेष्ठं विद्धि नराधिप ।
गर्भस्थान्ब्राह्मणाञ्शश्वन्नमस्यति किल प्रभुः
sammatatvaṃ dvijātibhyaḥ śreṣṭhaṃ viddhi narādhipa |
garbhasthānbrāhmaṇāñśaśvannamasyati kila prabhuḥ
दण्डकानां महद्राज्यं ब्राह्मणेन विनाशितम् ।
तालजङ्घं महाक्षत्रमौर्वेणैकेन नाशितम्
daṇḍakānāṃ mahadrājyaṃ brāhmaṇena vināśitam |
tālajaṅghaṃ mahākṣatramaurveṇaikena nāśitam
त्वया च विपुलं राज्यं बलं धर्मं श्रुतं तथा ।
दत्तात्रेयप्रसादेन प्रप्तं परमदुर्लभम्
tvayā ca vipulaṃ rājyaṃ balaṃ dharmaṃ śrutaṃ tathā |
dattātreyaprasādena praptaṃ paramadurlabham
अग्निं त्वं यजसे नित्यं कस्माद्ब्राह्मणमर्जन ।
स हि सर्वस्य लोकस्य हव्यवाट् किं न वेत्सि तम्
agniṃ tvaṃ yajase nityaṃ kasmādbrāhmaṇamarjana |
sa hi sarvasya lokasya havyavāṭ kiṃ na vetsi tam
अथवा ब्राह्मणश्रेष्ठमनुभूतानुपालकम् ।
कर्तारं जवलोकस्य कस्माज्जानन्विमुह्यसे
athavā brāhmaṇaśreṣṭhamanubhūtānupālakam |
kartāraṃ javalokasya kasmājjānanvimuhyase
तथा प्रजापतिर्ब्राह्मा अव्यक्तप्रभवोऽव्ययः ।
येनेदं विपुलं विश्वं जनितं स्थावरं चरम्
tathā prajāpatirbrāhmā avyaktaprabhavo'vyayaḥ |
yenedaṃ vipulaṃ viśvaṃ janitaṃ sthāvaraṃ caram
अण्डजातं तु ब्रह्माणं केचिदिच्छिन्त्यपण्डिताः ।
अण्डाद्भिन्नाद्बभुः शैला दिशोंऽभः पृथिवी दिवम्
aṇḍajātaṃ tu brahmāṇaṃ kecidicchintyapaṇḍitāḥ |
aṇḍādbhinnādbabhuḥ śailā diśoṃ'bhaḥ pṛthivī divam
दृष्टवानेतदेवं हि कथं जायेदजो हि सः ।
स्थानमाकाशमण्डं तु यस्माज्जातः पितामहः
dṛṣṭavānetadevaṃ hi kathaṃ jāyedajo hi saḥ |
sthānamākāśamaṇḍaṃ tu yasmājjātaḥ pitāmahaḥ
तिष्ठेत्कथमिति ब्रूयान्न किञ्चिद्धि तदा भवेत् ।
अहङ्कार इति प्रोक्तः सर्वतेजोगतः प्रभुः
tiṣṭhetkathamiti brūyānna kiñciddhi tadā bhavet |
ahaṅkāra iti proktaḥ sarvatejogataḥ prabhuḥ
नास्त्यन्तमस्ति तु ब्रह्मा स राजा लोकभावनः ।
इत्युक्तः स तदा तूष्णीमभूद्वायुस्तमब्रवीत्
nāstyantamasti tu brahmā sa rājā lokabhāvanaḥ |
ityuktaḥ sa tadā tūṣṇīmabhūdvāyustamabravīt
पाठ का स्रोत: Wikisource · CC BY-SA 4.0 (Wikisource transcription of a public-domain text)