कां तु ब्राह्मणपूजायां व्युष्टिं दृष्ट्वा जनाधिप ।
कं वा धर्मोदयं मत्वा तानर्चसि महामते
kāṃ tu brāhmaṇapūjāyāṃ vyuṣṭiṃ dṛṣṭvā janādhipa |
kaṃ vā dharmodayaṃ matvā tānarcasi mahāmate
इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि सप्तपञ्चाशदधिकद्विशततमोऽध्यायः ॥
28 श्लोक · 257 में से 274
युधिष्ठिर पूछते हैं कि ब्राह्मणपूजा में भीष्म ने क्या फल देखा। माहिष्मती का हैहय राजा कार्तवीर्य अर्जुन सात द्वीपों वाली पृथ्वी पर राज करता था। उसने मुनि दत्तात्रेय की आराधना करके वर पाए: युद्ध में सहस्र भुजाएँ, पराक्रम से पृथ्वी की विजय और धर्म से उसका पालन। चौथे वर में उसने माँगा कि भटकने पर सज्जन उसे सुधारें। फिर दर्प में वह बोला कि उससे बड़ा कोई नहीं, ब्राह्मण क्षत्रियों के आश्रित हैं, और वह संसार को ब्राह्मणों के ऊपर क्षत्रियों का बना देगा। आकाशवाणी हुई, और देवदूत वायु ने चेताया कि यह पापी भाव छोड़ो और ब्राह्मणों को नमन करो, नहीं तो वे तुम्हें राज्य से निकाल देंगे। अर्जुन वायु से कहता है कि पृथ्वी, जल या अग्नि के समान किसी ब्राह्मण का नाम बताओ।
युधिष्ठिर उवाच
कां तु ब्राह्मणपूजायां व्युष्टिं दृष्ट्वा जनाधिप ।
कं वा धर्मोदयं मत्वा तानर्चसि महामते
kāṃ tu brāhmaṇapūjāyāṃ vyuṣṭiṃ dṛṣṭvā janādhipa |
kaṃ vā dharmodayaṃ matvā tānarcasi mahāmate
भीष्म उवाच
अत्राप्युदाहरन्तीममितिहासं पुरातनम् ।
पवनस्य च संवादमर्जुनस्य च भारत
atrāpyudāharantīmamitihāsaṃ purātanam |
pavanasya ca saṃvādamarjunasya ca bhārata
सहस्रभुजभृच्छ्रीमान्कार्तवीर्योऽभवत्प्रभुः ।
अस्य लोकस्य सर्वस्य माहिष्मत्यां महाबलः
sahasrabhujabhṛcchrīmānkārtavīryo'bhavatprabhuḥ |
asya lokasya sarvasya māhiṣmatyāṃ mahābalaḥ
स तु रत्नाकरवतीं सप्तद्वीपां ससागराम् ।
शशास पृथिवीं सर्वां हैहयः सत्यविक्रमः
sa tu ratnākaravatīṃ saptadvīpāṃ sasāgarām |
śaśāsa pṛthivīṃ sarvāṃ haihayaḥ satyavikramaḥ
स्ववित्तं तेन दत्तं तु दत्तात्रेयाय कर्मणे ।
क्षत्रधर्मं पुरस्कृत्य विनयं श्रुतमेव च
svavittaṃ tena dattaṃ tu dattātreyāya karmaṇe |
kṣatradharmaṃ puraskṛtya vinayaṃ śrutameva ca
आराधयामास च तं कृतवीर्यात्मजो मुनिम् ।
न्यमन्त्रयत संतुष्टो द्विजश्चैनं वरैस्त्रिभिः
ārādhayāmāsa ca taṃ kṛtavīryātmajo munim |
nyamantrayata saṃtuṣṭo dvijaścainaṃ varaistribhiḥ
स वरैश्छन्दितस्तेन नृपो वचनमब्रवीत् ।
सहस्रबाहुता मेऽस्तु यूपमध्ये ग्रहो यथा
sa varaiśchanditastena nṛpo vacanamabravīt |
sahasrabāhutā me'stu yūpamadhye graho yathā
मम बाहुसहस्रं तु पश्यन्तां सैनिका रणे ।
विक्रमेणि महीं कृत्स्नां जयेयं संशितव्रत
mama bāhusahasraṃ tu paśyantāṃ sainikā raṇe |
vikrameṇi mahīṃ kṛtsnāṃ jayeyaṃ saṃśitavrata
तां च धर्मेण सम्प्राप्य पालयेयमतन्द्रितः ।
चतुर्थं तु वरं याचे त्वामहं द्विजसत्तम
tāṃ ca dharmeṇa samprāpya pālayeyamatandritaḥ |
caturthaṃ tu varaṃ yāce tvāmahaṃ dvijasattama
तं ममानुग्रहकृते दातुमर्हस्यनिन्दित ।
अनुशाशन्तु मां सन्तो मिथ्यावृत्तं त्वदाश्रयम्
taṃ mamānugrahakṛte dātumarhasyanindita |
anuśāśantu māṃ santo mithyāvṛttaṃ tvadāśrayam
इत्युक्तः स द्विजः प्राह तथास्त्विति नराधिपम् ।
एवं समभवंस्तस्य वरास्ते दीप्ततेजसः
ityuktaḥ sa dvijaḥ prāha tathāstviti narādhipam |
evaṃ samabhavaṃstasya varāste dīptatejasaḥ
गतः स रथमास्थाय ज्वलनार्कसमद्युतिम् ।
अब्रवीद्वीर्यसंमोहात्को वाऽस्ति सदृशो मम
gataḥ sa rathamāsthāya jvalanārkasamadyutim |
abravīdvīryasaṃmohātko vā'sti sadṛśo mama
धैर्यैर्वीर्यैर्यशःशौर्यौर्विक्रमेणौजसाऽपि वा ।
तद्वाक्यान्ते चान्तरिक्षे वागुवाचाशरीरिणी
dhairyairvīryairyaśaḥśauryaurvikrameṇaujasā'pi vā |
tadvākyānte cāntarikṣe vāguvācāśarīriṇī
न त्वं मूढ विजानीषे ब्राह्मणं क्षत्रियाद्वरम् ।
सहितो ब्राह्मणेनेह क्षत्रियः शास्ति वै प्रजाः
na tvaṃ mūḍha vijānīṣe brāhmaṇaṃ kṣatriyādvaram |
sahito brāhmaṇeneha kṣatriyaḥ śāsti vai prajāḥ
अर्जुन उवाच
कुर्यां भूतानि तुष्टोऽहं क्रुद्धो नाशं तथा नये ।
कर्म्णा मनसा वाचा न मत्तोस्ति वरो द्विजः
kuryāṃ bhūtāni tuṣṭo'haṃ kruddho nāśaṃ tathā naye |
karmṇā manasā vācā na mattosti varo dvijaḥ
पूर्वो ब्रह्मोत्तरो वादो द्वितीयः क्षत्रियोत्तरः ।
त्वयोक्तौ हेतुयुक्तौ तौ विशेषस्तत्र दृश्यते
pūrvo brahmottaro vādo dvitīyaḥ kṣatriyottaraḥ |
tvayoktau hetuyuktau tau viśeṣastatra dṛśyate
ब्राह्मणाः संश्रिताः क्षत्रं न क्षत्रं ब्राह्मणाश्रितम् ।
श्रिता ब्रह्मोपधा विप्राः खादन्ति क्षत्रियान्भुवि
brāhmaṇāḥ saṃśritāḥ kṣatraṃ na kṣatraṃ brāhmaṇāśritam |
śritā brahmopadhā viprāḥ khādanti kṣatriyānbhuvi
क्षत्रियेष्वाश्रितो धर्मः प्रजानां परिपालनम् ।
क्षत्राद्वृत्तिर्ब्राह्मणानां तैः कथं ब्राह्मणो वरः
kṣatriyeṣvāśrito dharmaḥ prajānāṃ paripālanam |
kṣatrādvṛttirbrāhmaṇānāṃ taiḥ kathaṃ brāhmaṇo varaḥ
सर्वभूतप्रधानांस्तान्भैक्षवृत्तीनहं सदा ।
आत्मसम्भावितान्विप्रान्स्थापयाम्यात्मनो वशे
sarvabhūtapradhānāṃstānbhaikṣavṛttīnahaṃ sadā |
ātmasambhāvitānviprānsthāpayāmyātmano vaśe
कथितं त्वनयाऽसत्यं गायन्त्या कन्यया दिवि ।
विजेष्याम्यवशान्सर्वान्ब्राह्मणांश्चर्मवाससः
kathitaṃ tvanayā'satyaṃ gāyantyā kanyayā divi |
vijeṣyāmyavaśānsarvānbrāhmaṇāṃścarmavāsasaḥ
न च मां च्यावयेद्राष्ट्रात्त्रिषु लोकेषु कश्चन ।
देवो वा मानुषो वाऽपि तस्माज्ज्येष्ये द्विजानहम्
na ca māṃ cyāvayedrāṣṭrāttriṣu lokeṣu kaścana |
devo vā mānuṣo vā'pi tasmājjyeṣye dvijānaham
अद्य ब्रह्मोत्तरं लोकं करिष्ये क्षत्रियोत्तरम् ।
नहि मे संयुगे कश्चित्सोढुमुत्सहते बलम्
adya brahmottaraṃ lokaṃ kariṣye kṣatriyottaram |
nahi me saṃyuge kaścitsoḍhumutsahate balam
अर्जुनस्य वचः श्रुत्वा वित्रस्ताऽभून्निशाचरी ।
अथैनमन्तरिक्षस्थस्ततो वायुरभाषत
arjunasya vacaḥ śrutvā vitrastā'bhūnniśācarī |
athainamantarikṣasthastato vāyurabhāṣata
त्यजैनं कलुषं भावं ब्राह्मणेभ्यो नमस्कुरु ।
एतेषां कुर्वतः पापं राष्ट्रक्षोभो भविष्यति
tyajainaṃ kaluṣaṃ bhāvaṃ brāhmaṇebhyo namaskuru |
eteṣāṃ kurvataḥ pāpaṃ rāṣṭrakṣobho bhaviṣyati
अथ च त्वां महीपाल शमयिष्यन्ति वै द्विजाः ।
निरसिष्यन्ति ते राष्ट्राद्धतोत्साहा महाबलाः
atha ca tvāṃ mahīpāla śamayiṣyanti vai dvijāḥ |
nirasiṣyanti te rāṣṭrāddhatotsāhā mahābalāḥ
तं राजा कस्त्वमित्याह ततस्तं प्राह मारुतः ।
वायुर्वै देवदूतोस्मि हितं त्वां प्रब्रवीम्यहम्
taṃ rājā kastvamityāha tatastaṃ prāha mārutaḥ |
vāyurvai devadūtosmi hitaṃ tvāṃ prabravīmyaham
अहो त्वयाऽयं विप्रेषु भक्तिरागः प्रदर्शितः ।
यादृशं पृथिवीभूतं तादृशं ब्रूहि मे द्विजम्
aho tvayā'yaṃ vipreṣu bhaktirāgaḥ pradarśitaḥ |
yādṛśaṃ pṛthivībhūtaṃ tādṛśaṃ brūhi me dvijam
वायोर्वा सदृशं किञ्चिद्ब्रूहि त्वं ब्राह्मणोत्तमम् ।
अपां वै सदृशं वह्नेः सूर्यस्य नभसोऽपि वा
vāyorvā sadṛśaṃ kiñcidbrūhi tvaṃ brāhmaṇottamam |
apāṃ vai sadṛśaṃ vahneḥ sūryasya nabhaso'pi vā
पाठ का स्रोत: Wikisource · CC BY-SA 4.0 (Wikisource transcription of a public-domain text)