अनुशासन पर्व

अध्याय 256: ब्राह्मण क्यों पूजनीय हैं

इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि षट्पञ्चाशदधिकद्विशततमोऽध्यायः ॥

23 श्लोक · 256 में से 274

इस अध्याय में क्या होता है

ब्राह्मण क्यों पूजनीय हैं

युधिष्ठिर पूछते हैं कि किसकी पूजा करें, किसे प्रणाम करें और किनके बीच कैसे रहें कि हानि न हो। भीष्म उत्तर देते हैं: ब्राह्मण। उनका अपमान देवताओं को भी गिरा देता है, उन्हें प्रणाम करने वाला नष्ट नहीं होता। उनके साथ पुत्र के प्रति पिता जैसा व्यवहार करो। वे लोकों को धारण करते हैं, धर्म के सेतु हैं, शास्त्रों के प्रणेता हैं; तप उनका धन और वाणी उनका बल है। पितरों, देवों और अतिथियों के हव्य-कव्य को पहले ग्रहण करके वे तीनों लोकों की रक्षा करते हैं। उनके शाप से सागर अपेय हुआ और उनकी क्रोधाग्नि आज भी दण्डकवन में नहीं बुझी। विद्वान हो या अविद्वान, ब्राह्मण महान देवता है, जैसे अग्नि संस्कारित हो या न हो, पवित्र है और श्मशान में भी दूषित नहीं होती।

युधिष्ठिर उवाच

256.1

के पूज्याः के नमस्कार्या कथं वर्तेत केषु च ।
किमाचारः कीदृशेषु पितामह न रिष्यते

ke pūjyāḥ ke namaskāryā kathaṃ varteta keṣu ca |
kimācāraḥ kīdṛśeṣu pitāmaha na riṣyate

भीष्म उवाच

256.2

ब्राह्मणानां परिभवः सादयेदपि देवताः ।
ब्राह्मणांस्तु नमस्कृत्य युधिष्ठिर न रिष्यते

brāhmaṇānāṃ paribhavaḥ sādayedapi devatāḥ |
brāhmaṇāṃstu namaskṛtya yudhiṣṭhira na riṣyate

256.3

ते पूज्यास्ते नमस्कार्या वर्तेथास्तेषु पुत्रवत् ।
ते हि लोकानिमान्सर्वान्धारयन्ति मनीषिणः

te pūjyāste namaskāryā vartethāsteṣu putravat |
te hi lokānimānsarvāndhārayanti manīṣiṇaḥ

256.4

ब्राह्मणाः सर्वलोकानां महान्तो धर्मसेतवः ॥
धनत्यागाभिरामास्चि वाक्सङ्गमधुराश्च ये

brāhmaṇāḥ sarvalokānāṃ mahānto dharmasetavaḥ ||
dhanatyāgābhirāmāsci vāksaṅgamadhurāśca ye

256.5

रमणीयाश्च भूतानां नियमेन धृतव्रताः ।
प्रणेतारश्च कोशानां शास्त्राणां च यशस्विनः

ramaṇīyāśca bhūtānāṃ niyamena dhṛtavratāḥ |
praṇetāraśca kośānāṃ śāstrāṇāṃ ca yaśasvinaḥ

256.6

तपो येषां धनं नित्यं वाक्चैव विपुलं बलम् ।
प्रसवाश्चैव धर्माणां धर्मज्ञाः सूक्ष्मदर्शिनः

tapo yeṣāṃ dhanaṃ nityaṃ vākcaiva vipulaṃ balam |
prasavāścaiva dharmāṇāṃ dharmajñāḥ sūkṣmadarśinaḥ

256.7

धर्मकामाः स्थिता धर्मे सुकृतैर्धर्मसेवतः ।
यान्समाश्रित्य तिष्ठन्ति प्रजाः सर्वाश्चतुर्विधाः

dharmakāmāḥ sthitā dharme sukṛtairdharmasevataḥ |
yānsamāśritya tiṣṭhanti prajāḥ sarvāścaturvidhāḥ

256.8

पन्थानः सर्वनेतारो यज्ञवाहाः सनातनाः ।
पितृपैतामहीं गुर्वीमुद्वहन्ति धुरं सदा

panthānaḥ sarvanetāro yajñavāhāḥ sanātanāḥ |
pitṛpaitāmahīṃ gurvīmudvahanti dhuraṃ sadā

256.9

धुरि ये नावसीदन्ति विषमे सद्धया इव ।
पितृदेवातिथिमुखा हव्यकव्याग्रभोजिनः

dhuri ye nāvasīdanti viṣame saddhayā iva |
pitṛdevātithimukhā havyakavyāgrabhojinaḥ

256.10

भोजनादेव लोकांस्त्रींस्त्रायन्ते महतो भयात् ।
दीपः सर्वस्य लोकस्य चक्षुश्चक्षुष्मतामपि

bhojanādeva lokāṃstrīṃstrāyante mahato bhayāt |
dīpaḥ sarvasya lokasya cakṣuścakṣuṣmatāmapi

256.11

सर्वशिल्पादिनिधयो निपुणाः सूक्ष्मदर्शिनः ।
गतिज्ञाः सर्वभूतानामध्यात्मगतिचिन्तकाः

sarvaśilpādinidhayo nipuṇāḥ sūkṣmadarśinaḥ |
gatijñāḥ sarvabhūtānāmadhyātmagaticintakāḥ

256.12

आदिमध्यावसानानां ज्ञातारश्छिन्नसंशयाः ।
परावरविशेषज्ञा गन्तारः परमां गतिम्

ādimadhyāvasānānāṃ jñātāraśchinnasaṃśayāḥ |
parāvaraviśeṣajñā gantāraḥ paramāṃ gatim

256.13

विमुक्ता धूतपाप्मानो निर्द्वन्द्वा निष्परिग्रहाः ।
मानार्हा मानिता नित्यं ज्ञानविद्भिर्महात्मभिः

vimuktā dhūtapāpmāno nirdvandvā niṣparigrahāḥ |
mānārhā mānitā nityaṃ jñānavidbhirmahātmabhiḥ

256.14

चन्दने मलपङ्के च भोजनेऽभोजने समाः ।
समं येषां दुकूलं च शाणक्षौमाजिनानि च

candane malapaṅke ca bhojane'bhojane samāḥ |
samaṃ yeṣāṃ dukūlaṃ ca śāṇakṣaumājināni ca

256.15

तिष्ठेयुरप्यभुञ्जाना बहूनि दिवसान्यपि ।
शोषयेयुश्च गात्राणि स्वाध्यायैः संयतेन्द्रियाः

tiṣṭheyurapyabhuñjānā bahūni divasānyapi |
śoṣayeyuśca gātrāṇi svādhyāyaiḥ saṃyatendriyāḥ

256.16

अदैवं दैवतं कुर्युर्दैवतं चाप्यदैवतम् ।
लोकानन्यान्सृजेयुस्ते लोकपालांश्च कोपिताः

adaivaṃ daivataṃ kuryurdaivataṃ cāpyadaivatam |
lokānanyānsṛjeyuste lokapālāṃśca kopitāḥ

256.17

अपेयः सागरो येषामपि सापान्महात्मनाम् ।
येषां कोपाग्निरद्यापि दण्डके नोपशाम्यति

apeyaḥ sāgaro yeṣāmapi sāpānmahātmanām |
yeṣāṃ kopāgniradyāpi daṇḍake nopaśāmyati

256.18

देवानामपि ये देवाः कारणं कारणस्य च ।
प्रमामस्य प्रमाणं च तस्मान्नाभिभवेद्बुधः

devānāmapi ye devāḥ kāraṇaṃ kāraṇasya ca |
pramāmasya pramāṇaṃ ca tasmānnābhibhavedbudhaḥ

256.19

तेषां वृद्धाश्च बालाश्च सर्वे सन्मार्गदर्शिनः ।
तपोविद्याविशेषात्तु मानयन्ति परस्परम्

teṣāṃ vṛddhāśca bālāśca sarve sanmārgadarśinaḥ |
tapovidyāviśeṣāttu mānayanti parasparam

256.20

अविद्वान्ब्राह्मणो देवः पात्रं वै पावनं महत् ।
विद्वान्भूयस्तरो देवः पूर्णसागरसन्निभः

avidvānbrāhmaṇo devaḥ pātraṃ vai pāvanaṃ mahat |
vidvānbhūyastaro devaḥ pūrṇasāgarasannibhaḥ

256.21

अविद्वांश्चैव विद्वांश्च ब्राह्मणो दैवतं महत् ।
प्रणीतश्चाप्रणीतश्च यथाऽग्निर्दैवतं महत्

avidvāṃścaiva vidvāṃśca brāhmaṇo daivataṃ mahat |
praṇītaścāpraṇītaśca yathā'gnirdaivataṃ mahat

256.22

श्मशाने ह्यपि तेजस्वी पावको नैव दुष्यति ।
हविर्यज्ञे च विधिवद्भूय एवाभिशोभते

śmaśāne hyapi tejasvī pāvako naiva duṣyati |
haviryajñe ca vidhivadbhūya evābhiśobhate

256.23

एवं यद्यप्यनिष्टेषु वर्तते सर्वकर्मसु ।
सर्वथा ब्राह्मणो मान्यो दैवतं विद्धि तत्परम्

evaṃ yadyapyaniṣṭeṣu vartate sarvakarmasu |
sarvathā brāhmaṇo mānyo daivataṃ viddhi tatparam

पाठ का स्रोत: Wikisource · CC BY-SA 4.0 (Wikisource transcription of a public-domain text)