त्रियक्ष त्रिदशश्रेष्ठ त्र्यम्बक त्रिदशाधिप ।
त्रिपुरान्तक कामाङ्गहर त्रिपथगाधर
triyakṣa tridaśaśreṣṭha tryambaka tridaśādhipa |
tripurāntaka kāmāṅgahara tripathagādhara
इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि सप्तचत्वारिंशदधिकद्विशततमोऽध्यायः ॥
38 श्लोक · 247 में से 274
उमा शिव को त्र्यम्बक, त्रिपुरान्तक और दक्षयज्ञ का नाश करने वाले कहकर पूछती हैं कि भक्त उनकी सेवा कैसे करते हैं और उनका सायुज्य कैसे पाते हैं। महेश्वर कहते हैं कि वे अव्यक्त और अचिन्त्य हैं, साङ्ख्य, योग और समस्त चराचर के रचयिता हैं, और प्रसन्न होकर भक्तों को अमरता तक देते हैं। वे पशुपति हैं; भस्म रमाए, हाथ में मिट्टी का पात्र लिए जगत में विचरने वाले उनके भक्त पाशुपत हैं। बहुत दक्षिणा वाले यज्ञ भी शिवलिङ्ग को एक प्रणाम की सोलहवीं कला के बराबर नहीं। पलाश और बिल्वपत्र, अमलतास की माला और अर्कपुष्प उन्हें विशेष प्रिय हैं; भक्ति से दिया फल, शाक या जल ही पर्याप्त है। उनसे या उनके भक्तों से द्वेष करने वाले नरक में जाते हैं।
उमोवाच
त्रियक्ष त्रिदशश्रेष्ठ त्र्यम्बक त्रिदशाधिप ।
त्रिपुरान्तक कामाङ्गहर त्रिपथगाधर
triyakṣa tridaśaśreṣṭha tryambaka tridaśādhipa |
tripurāntaka kāmāṅgahara tripathagādhara
दक्षयज्ञप्रशमन सूलपाणेऽरिसूदन ।
नमस्ते लोकपालेश लोकपालवरप्रद
dakṣayajñapraśamana sūlapāṇe'risūdana |
namaste lokapāleśa lokapālavaraprada
नैकशाखमपर्यन्तमध्यात्मज्ञानमुत्तमम् ।
अप्रतर्क्यमविज्ञेयं साङ्ख्ययोगसमन्वितम्
naikaśākhamaparyantamadhyātmajñānamuttamam |
apratarkyamavijñeyaṃ sāṅkhyayogasamanvitam
भवता परिपृष्टेन शृण्वन्त्या मम भाषितम् ।
इदानीं श्रोतुमिच्छामि सायुज्यं त्वद्गतं विभो
bhavatā paripṛṣṭena śṛṇvantyā mama bhāṣitam |
idānīṃ śrotumicchāmi sāyujyaṃ tvadgataṃ vibho
कथं परिचरन्त्येते भक्तास्त्वां परमेष्ठिनम् ।
आचारः कीदृशस्तेषां केन तुष्टो भवेद्भवान् ।
वर्ण्यमानं त्वया साक्षात्प्रीणयत्यधिकं हि मा
kathaṃ paricarantyete bhaktāstvāṃ parameṣṭhinam |
ācāraḥ kīdṛśasteṣāṃ kena tuṣṭo bhavedbhavān |
varṇyamānaṃ tvayā sākṣātprīṇayatyadhikaṃ hi mā
महेश्वर उवाच
हन्त ते कथयिष्यामि मम सायुज्यमद्भुतम् ।
येन ते न निवर्तन्ते युक्ताः परमयोगिनः
hanta te kathayiṣyāmi mama sāyujyamadbhutam |
yena te na nivartante yuktāḥ paramayoginaḥ
अव्यक्तोऽहमचिन्त्योऽहं पूर्वैरपि मुमुक्षुभिः ।
साङ्ख्ययोगौ मया सृष्टौ सर्वं चापि चराचरम्
avyakto'hamacintyo'haṃ pūrvairapi mumukṣubhiḥ |
sāṅkhyayogau mayā sṛṣṭau sarvaṃ cāpi carācaram
अर्चनीयोऽहमीशोऽहमव्ययोऽहं सनातनः ।
अहं प्रसन्नो भक्तानां ददाम्यमरतामपि
arcanīyo'hamīśo'hamavyayo'haṃ sanātanaḥ |
ahaṃ prasanno bhaktānāṃ dadāmyamaratāmapi
न मां विदुः सुरगणा मुनयश्च तपोधनाः ।
त्वत्प्रियार्थमहं देवि मद्विभूतिं ब्रवीमि ते
na māṃ viduḥ suragaṇā munayaśca tapodhanāḥ |
tvatpriyārthamahaṃ devi madvibhūtiṃ bravīmi te
आश्रमेभ्यश्चतुर्भ्योऽहं चतुरो ब्राह्मणाञ्शुभे ।
मद्भक्तान्निर्मलान्पुण्यान्समानीय तपस्विनः
āśramebhyaścaturbhyo'haṃ caturo brāhmaṇāñśubhe |
madbhaktānnirmalānpuṇyānsamānīya tapasvinaḥ
व्याचख्येऽहं तथा देवि योगं पाशुपतं महत् ।
गृहीतं तच्च तैः सर्वं मुखाच्च मम दक्षिणात्
vyācakhye'haṃ tathā devi yogaṃ pāśupataṃ mahat |
gṛhītaṃ tacca taiḥ sarvaṃ mukhācca mama dakṣiṇāt
श्रुत्वा तत्त्रिषु लोकेषु स्थापितं चापि तैः पुनः ।
इदानीं च त्वया पृष्टो वदाम्येकमनाः शृणु
śrutvā tattriṣu lokeṣu sthāpitaṃ cāpi taiḥ punaḥ |
idānīṃ ca tvayā pṛṣṭo vadāmyekamanāḥ śṛṇu
अहं पसुपतिर्नाम मद्भक्ता ये च मानवाः ।
सर्वे पाशुपता ज्ञेया भस्मदिग्धतनूरुहाः
ahaṃ pasupatirnāma madbhaktā ye ca mānavāḥ |
sarve pāśupatā jñeyā bhasmadigdhatanūruhāḥ
रक्षार्थं मङ्गलार्थं न पवित्रार्थं च भामिनि ।
लिङ्गार्थं चैव भक्तानां भस्म दत्तं मया पुरा
rakṣārthaṃ maṅgalārthaṃ na pavitrārthaṃ ca bhāmini |
liṅgārthaṃ caiva bhaktānāṃ bhasma dattaṃ mayā purā
तेन संदिग्धसर्वाङ्गा भस्मना ब्रह्मचारिणः ।
जटिला मुण्डिता वाऽपि नानाकारशिखण्डिनः
tena saṃdigdhasarvāṅgā bhasmanā brahmacāriṇaḥ |
jaṭilā muṇḍitā vā'pi nānākāraśikhaṇḍinaḥ
विकृताः पिङ्गलाभिस्च नग्ना नानाप्रकारिणः ।
भैक्षं चरन्तः सर्वत्र निःस्पृहा निष्परिग्रहाः
vikṛtāḥ piṅgalābhisca nagnā nānāprakāriṇaḥ |
bhaikṣaṃ carantaḥ sarvatra niḥspṛhā niṣparigrahāḥ
मृत्पात्रहस्ता मद्भक्ता मन्निवेशितबुद्ध्यः ।
चरन्तो निखिलं लोकं मम हर्षविवर्धनाः
mṛtpātrahastā madbhaktā manniveśitabuddhyaḥ |
caranto nikhilaṃ lokaṃ mama harṣavivardhanāḥ
मम पाशुपतं दिव्यं योगशास्त्रमनुत्तमम् ।
सूक्ष्मं सर्वेषु लोकेषु विमृशन्तश्चरन्ति ते
mama pāśupataṃ divyaṃ yogaśāstramanuttamam |
sūkṣmaṃ sarveṣu lokeṣu vimṛśantaścaranti te
एवं नित्याभियुक्तानां मद्भक्तानां तपस्विनाम् ।
उपायं चिन्तयाम्याशु येन मामुपयान्ति ते
evaṃ nityābhiyuktānāṃ madbhaktānāṃ tapasvinām |
upāyaṃ cintayāmyāśu yena māmupayānti te
स्थापितं त्रिषु लोकेषु शिवलिङ्गं मया मम ।
नमस्कारेण वा तस्य मुच्यन्ते सर्वकिल्बिषैः
sthāpitaṃ triṣu lokeṣu śivaliṅgaṃ mayā mama |
namaskāreṇa vā tasya mucyante sarvakilbiṣaiḥ
इष्टं दत्तमधीतं च यज्ञाश्च बहुदक्षिणाः ।
शिवलिङ्गप्रणामस्य कलां नार्हन्ति षोडशीम्
iṣṭaṃ dattamadhītaṃ ca yajñāśca bahudakṣiṇāḥ |
śivaliṅgapraṇāmasya kalāṃ nārhanti ṣoḍaśīm
अर्चया शिवलिङ्गस्य परितुष्याम्यहं प्रिये ।
शिवलिङ्गार्चनायां तु विदानमपि मे शृणु
arcayā śivaliṅgasya parituṣyāmyahaṃ priye |
śivaliṅgārcanāyāṃ tu vidānamapi me śṛṇu
गोक्षीरनवनीताभ्यामर्चयेद्यः शिवं मम ।
इष्टस्य हयमेधस्य यत्फलं तत्फलं भवेत्
gokṣīranavanītābhyāmarcayedyaḥ śivaṃ mama |
iṣṭasya hayamedhasya yatphalaṃ tatphalaṃ bhavet
घृतमण्डेन यो नित्यमर्चयेद्यः शिवं मम ।
स फलं प्राप्नुयान्मर्त्यो ब्राह्मणस्याग्निहोत्रिणः
ghṛtamaṇḍena yo nityamarcayedyaḥ śivaṃ mama |
sa phalaṃ prāpnuyānmartyo brāhmaṇasyāgnihotriṇaḥ
केवलेनापि तोयेन स्नापयेद्यः शिवं मम ।
स चापि लभते पुण्यं प्रियं च लभते नरः
kevalenāpi toyena snāpayedyaḥ śivaṃ mama |
sa cāpi labhate puṇyaṃ priyaṃ ca labhate naraḥ
सघृतं गुग्गुलु सम्यग्धूपयेद्यः शिवान्तिके ।
गोसवस्य तु यज्ञस्य यत्फलं तस्य तद्भवेत्
saghṛtaṃ guggulu samyagdhūpayedyaḥ śivāntike |
gosavasya tu yajñasya yatphalaṃ tasya tadbhavet
यस्तु गुग्गुलपिण्डेन केवलेनापि धूपयेत् ।
तस्य रुक्मप्रधानस्य यत्फलं तस्य तद्भवेत्
yastu guggulapiṇḍena kevalenāpi dhūpayet |
tasya rukmapradhānasya yatphalaṃ tasya tadbhavet
यस्तु नानाविधैः पुष्पैर्मम लिङ्गं समर्चयेत् ।
स हि धेनुसहस्रस्य दत्तस्य फलमाप्नुयात् ।
yastu nānāvidhaiḥ puṣpairmama liṅgaṃ samarcayet |
sa hi dhenusahasrasya dattasya phalamāpnuyāt |
यस्तु देशान्तरं गत्वा शिवलिङ्गं समर्चयेत् ।
तस्मात्सर्वमनुष्येषु नास्ति मे प्रियकृत्तमः
yastu deśāntaraṃ gatvā śivaliṅgaṃ samarcayet |
tasmātsarvamanuṣyeṣu nāsti me priyakṛttamaḥ
एवं नानाविधैर्द्रव्यैः शिवलिङ्गं समर्चयेत् ।
मत्समानो मनुष्येषु न पुनर्जायते नरः
evaṃ nānāvidhairdravyaiḥ śivaliṅgaṃ samarcayet |
matsamāno manuṣyeṣu na punarjāyate naraḥ
अर्चनाभिर्नमस्कारैरुपहारैः स्तवैरपि ।
भक्तो मामर्चयेन्नित्यं शिवलिङ्गेष्वतन्द्रितः
arcanābhirnamaskārairupahāraiḥ stavairapi |
bhakto māmarcayennityaṃ śivaliṅgeṣvatandritaḥ
पलाशबिल्वपत्राणि राजवृक्षस्रजं तथा ।
अर्कपुष्पाणि मेध्यानि मत्प्रियाणि विशेषतः
palāśabilvapatrāṇi rājavṛkṣasrajaṃ tathā |
arkapuṣpāṇi medhyāni matpriyāṇi viśeṣataḥ
फलं वा यदि वा शाकं पुष्पं वा यदि वा जलम् ।
दत्तं सम्प्रीणयेद्देवि भक्तैर्मद्गतमानसैः
phalaṃ vā yadi vā śākaṃ puṣpaṃ vā yadi vā jalam |
dattaṃ samprīṇayeddevi bhaktairmadgatamānasaiḥ
ममाभिपरितुष्टस्य नास्ति लोकेषु दुर्लभम् ।
तस्मात्ते सततं भक्ता मामेवाभ्यर्चयन्त्युत
mamābhiparituṣṭasya nāsti lokeṣu durlabham |
tasmātte satataṃ bhaktā māmevābhyarcayantyuta
मद्भक्ता न विनश्यन्ति मद्भक्ता वीतकल्मषाः ।
मद्भक्ताः सर्वलोकेषु पूजनीया विशेषतः
madbhaktā na vinaśyanti madbhaktā vītakalmaṣāḥ |
madbhaktāḥ sarvalokeṣu pūjanīyā viśeṣataḥ
मद्द्वेषिणश्चि ये मर्त्या मद्भक्तद्वेषिणश्च वा ।
यान्ति ते नरकं घोरमिष्ट्वा क्रतुशतैरपि
maddveṣiṇaści ye martyā madbhaktadveṣiṇaśca vā |
yānti te narakaṃ ghoramiṣṭvā kratuśatairapi
एतत्ते सर्वमाख्यातं योगं पाशुपतं महत् ।
मद्भक्तैर्मनुजैर्देवि श्राव्यमेतद्दिनेदिने
etatte sarvamākhyātaṃ yogaṃ pāśupataṃ mahat |
madbhaktairmanujairdevi śrāvyametaddinedine
शृणुयाद्यः पठेद्वाऽपि ममेदं धर्मनिश्चयम् ।
स्वर्गं कीर्तिं धनं धान्यं स लभेत नरोत्तमः
śṛṇuyādyaḥ paṭhedvā'pi mamedaṃ dharmaniścayam |
svargaṃ kīrtiṃ dhanaṃ dhānyaṃ sa labheta narottamaḥ
पाठ का स्रोत: Wikisource · CC BY-SA 4.0 (Wikisource transcription of a public-domain text)