अनुशासन पर्व

अध्याय 232: सुकृत: संयम, सत्य, व्रत, शौच और आहार

इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि द्वात्रिंशदधिकद्विशततमोऽध्यायः ॥

42 श्लोक · 232 में से 274

इस अध्याय में क्या होता है

सुकृत: संयम, सत्य, व्रत, शौच और आहार

अब महादेव उमा को सुकृत बताते हैं। पहला है मन, वाणी और देह के पाप से केवल हट जाना। यह संयम ही मनुष्य को ऊपर उठाता है और दान से भी बढ़कर है। फिर नियम आते हैं: सत्य, शौच, सरलता, व्रत, उपवास, ब्रह्मचर्य और दम। सत्य स्वर्ग की सीढ़ी और समुद्र पार की नौका है। उससे बड़ा न दान है न तप, और छल से जुड़ा सच भी झूठ है। स्नान करके पञ्चभूत, सूर्य, चन्द्र और पितरों के सामने व्रत लिया जाता है और अन्त तक निभाया जाता है, यद्यपि औषधि या गुरु के कहने पर उसे तोड़ना दोष नहीं। शौच भीतरी और बाहरी है। शुद्ध आहार मांस और मद्य रहित, ताजा और पहले अर्पित किया हुआ होता है।

महेश्वर उवाच

232.1

विधानं सुकृतस्यापि भूयः शृणु शुचिस्मिते ।
प्रोच्यते तत्त्रिधा देवि सुकृतं च समासतः

vidhānaṃ sukṛtasyāpi bhūyaḥ śṛṇu śucismite |
procyate tattridhā devi sukṛtaṃ ca samāsataḥ

232.2

यदौपरमिकं चैव सुकृतं निरुपद्रवम् ।
तथैव सोपकरणं तावता सुकृतं विदुः

yadauparamikaṃ caiva sukṛtaṃ nirupadravam |
tathaiva sopakaraṇaṃ tāvatā sukṛtaṃ viduḥ

232.3

निवृत्तिः पापकर्मभ्यस्तदौपरमिकं प्रिये ।
मनोवाक्कायजा दोषाः शृणु मे वर्जनाच्छुभम्

nivṛttiḥ pāpakarmabhyastadauparamikaṃ priye |
manovākkāyajā doṣāḥ śṛṇu me varjanācchubham

232.4

त्रैविध्यदोषोपरमे यस्तु दोषव्यपेक्षया ।
स हि प्राप्नोति सकलं सर्वदुष्कृतवर्जनात्

traividhyadoṣoparame yastu doṣavyapekṣayā |
sa hi prāpnoti sakalaṃ sarvaduṣkṛtavarjanāt

232.5

प्रथमं वर्जयेद्दोषान्युगपत्पृथगेव वा ।
तथा धर्ममवाप्नोति दोषत्यागो हि दुष्करः ।
दोषसाकल्यसंत्यागान्मुनिर्भवति मानवः

prathamaṃ varjayeddoṣānyugapatpṛthageva vā |
tathā dharmamavāpnoti doṣatyāgo hi duṣkaraḥ |
doṣasākalyasaṃtyāgānmunirbhavati mānavaḥ

232.6

सौकर्यं पस्य धर्मस्य कार्यारम्भादृतेऽपि च ।
आत्मा च लब्धोपरमो लभन्ते सुकृतं परम्

saukaryaṃ pasya dharmasya kāryārambhādṛte'pi ca |
ātmā ca labdhoparamo labhante sukṛtaṃ param

232.7

अहो नृशंसाः पच्यन्ते मानुषाः स्वल्पबुद्धयः ।
एतादृशं न बुध्यन्ते आत्माधीनं न निर्व्यथाः

aho nṛśaṃsāḥ pacyante mānuṣāḥ svalpabuddhayaḥ |
etādṛśaṃ na budhyante ātmādhīnaṃ na nirvyathāḥ

232.8

दुष्कृतत्यागमात्रेण पदमूर्ध्वं हि लभ्यते

duṣkṛtatyāgamātreṇa padamūrdhvaṃ hi labhyate

232.9

पापभीरुत्वमात्रेण दोषाणां परिवर्जनात् ।
सुशोभनो भवेद्देवि क्रजुर्धर्मव्यपेक्षया ।
इत्यौपरमिकं देवि कथितं सुकृतं तव

pāpabhīrutvamātreṇa doṣāṇāṃ parivarjanāt |
suśobhano bhaveddevi krajurdharmavyapekṣayā |
ityauparamikaṃ devi kathitaṃ sukṛtaṃ tava

232.10

श्रुत्वा च वृद्धसंयोगादिन्द्रियाणां च निग्रहात् ।
सन्तोषाच्च धृतेश्चैव शक्यते दोषवर्जनम्

śrutvā ca vṛddhasaṃyogādindriyāṇāṃ ca nigrahāt |
santoṣācca dhṛteścaiva śakyate doṣavarjanam

232.11

तदेव धर्ममित्याहुर्दोषसंयमनं प्रिये ।
यमधर्मेण धर्मोस्ति नान्यः शुभतरः प्रिये ।
यमधर्मेण यतयः प्राप्नुवन्त्युत्तमां गतिम्

tadeva dharmamityāhurdoṣasaṃyamanaṃ priye |
yamadharmeṇa dharmosti nānyaḥ śubhataraḥ priye |
yamadharmeṇa yatayaḥ prāpnuvantyuttamāṃ gatim

232.12

ईश्वराणां प्रभवतां दरिद्राणां च वै नृणाम् ।
सफलो दोषसंत्यागो दानादपि शुभादपि

īśvarāṇāṃ prabhavatāṃ daridrāṇāṃ ca vai nṛṇām |
saphalo doṣasaṃtyāgo dānādapi śubhādapi

232.13

तपो दानं महादेवि दोषमल्पं हि निर्भरेत् ।
सुकृतं यामिकं चोक्तं वक्ष्ये निरुपसाधनम्

tapo dānaṃ mahādevi doṣamalpaṃ hi nirbharet |
sukṛtaṃ yāmikaṃ coktaṃ vakṣye nirupasādhanam

232.14

सुखाभिसन्धिर्लोकानां सत्यं शौचमथार्जवम् ।
व्रतोपवासः प्रीतिश्च ब्रह्मचर्यं दमः शमः

sukhābhisandhirlokānāṃ satyaṃ śaucamathārjavam |
vratopavāsaḥ prītiśca brahmacaryaṃ damaḥ śamaḥ

232.15

एवमादि शुभं कर्म सुकृतं नियमाश्रितम् ।
शृणु तेषां विशेषांश्च कीर्तयिष्यामि भामिनि

evamādi śubhaṃ karma sukṛtaṃ niyamāśritam |
śṛṇu teṣāṃ viśeṣāṃśca kīrtayiṣyāmi bhāmini

232.16

सत्यं स्वर्गस्य सोपानं पारावारस्य नौरिव ।
नास्ति सत्यात्परं दानं नास्ति सत्यात्परं तपः

satyaṃ svargasya sopānaṃ pārāvārasya nauriva |
nāsti satyātparaṃ dānaṃ nāsti satyātparaṃ tapaḥ

232.17

यथा श्रुतं यथा दृष्टमात्मना यद्यथा कृतम् ।
तथा तस्याविकारेण वचनं सत्यलक्षणम्

yathā śrutaṃ yathā dṛṣṭamātmanā yadyathā kṛtam |
tathā tasyāvikāreṇa vacanaṃ satyalakṣaṇam

232.18

यच्छलेनाभिसंयुक्तं सत्यरूपं मृषैव तत् ।
सत्यमेव प्रवक्तव्यं पारावर्यं विजानता

yacchalenābhisaṃyuktaṃ satyarūpaṃ mṛṣaiva tat |
satyameva pravaktavyaṃ pārāvaryaṃ vijānatā

232.19

दीर्घायुश्च भवेत्सत्यात्कुलसन्तानपालकः ।
लोकसंस्थितिपालश्च भवेत्सत्येन मानवः

dīrghāyuśca bhavetsatyātkulasantānapālakaḥ |
lokasaṃsthitipālaśca bhavetsatyena mānavaḥ

उमोवाच

232.20

कथं सन्धारयन्मर्त्यो व्रतं शुभमवाप्नुयात्

kathaṃ sandhārayanmartyo vrataṃ śubhamavāpnuyāt

महेश्वर उवाच

232.21

पूर्वमुक्तं तु यत्पापं मनोवाक्कायकर्मभिः ।
व्रतवत्तस्य संत्यागस्तपोव्रतमिति स्मृतम्

pūrvamuktaṃ tu yatpāpaṃ manovākkāyakarmabhiḥ |
vratavattasya saṃtyāgastapovratamiti smṛtam

232.22

त्याज्यं वा यदि वा जोष्यमव्रतेनि वृथा चरन् ।
तथा फलं न लभते तस्माद्धर्मं वृथा चरेत्

tyājyaṃ vā yadi vā joṣyamavrateni vṛthā caran |
tathā phalaṃ na labhate tasmāddharmaṃ vṛthā caret

232.23

शुद्धकायो नरो भूत्वा स्नात्वा तीर्थ यथाविधि ।
पञ्चभूतानि चन्द्रार्कौ संध्ये धर्मयमौ पितॄन्

śuddhakāyo naro bhūtvā snātvā tīrtha yathāvidhi |
pañcabhūtāni candrārkau saṃdhye dharmayamau pitṝn

232.24

आत्मनैव तथाऽऽत्मानं निवेद्य व्रतवच्चरेत् ।
व्रतमामरणाद्वाऽपि कालच्छेदेन वा हरेत्

ātmanaiva tathā''tmānaṃ nivedya vratavaccaret |
vratamāmaraṇādvā'pi kālacchedena vā haret

232.25

शाकादिषु व्रतं कुर्यात्तथा पुष्पफलादिषु ।
ब्रह्मचर्यव्रतं कुर्यादुपवासव्रतं तथा

śākādiṣu vrataṃ kuryāttathā puṣpaphalādiṣu |
brahmacaryavrataṃ kuryādupavāsavrataṃ tathā

232.26

एवमन्येषु बहुषु व्रतं कार्यं हितैषिणा ।
व्रतभङ्गो यथा न स्याद्रक्षितव्यं तथा बुधैः ।
व्रतभङ्गे महत्पापमिति विद्धि शुभेक्षणे

evamanyeṣu bahuṣu vrataṃ kāryaṃ hitaiṣiṇā |
vratabhaṅgo yathā na syādrakṣitavyaṃ tathā budhaiḥ |
vratabhaṅge mahatpāpamiti viddhi śubhekṣaṇe

232.27

औषधार्थं यदज्ञानाद्गुरूणां वचनादपि ।
अनुग्रहार्थं बन्धूनां व्रतभङ्गो न दुष्यते

auṣadhārthaṃ yadajñānādgurūṇāṃ vacanādapi |
anugrahārthaṃ bandhūnāṃ vratabhaṅgo na duṣyate

232.28

व्रतापवर्गकाले तु दैवब्राह्मणपूजनम् ।
नरेण तु यथा विद्धि कार्यसिद्धिं यथाऽऽप्तुयात्

vratāpavargakāle tu daivabrāhmaṇapūjanam |
nareṇa tu yathā viddhi kāryasiddhiṃ yathā''ptuyāt

उमोवाच

232.29

कथं शौचविधिस्तत्र तन्मे शंसितुमर्हसि

kathaṃ śaucavidhistatra tanme śaṃsitumarhasi

महेश्वर उवाच

232.30

बाह्ममाभ्यन्तरं चेति द्विविधं शौचमिष्यते ।
मानसं सुकृतं यत्तच्छौचमाभ्यन्तरं स्मृतम्

bāhmamābhyantaraṃ ceti dvividhaṃ śaucamiṣyate |
mānasaṃ sukṛtaṃ yattacchaucamābhyantaraṃ smṛtam

232.31

सदाऽऽहारविशुद्धिश्च कायप्रक्षालनं च यत् ।
बाह्यशौचं भवेदेतत्तथैवाचमनादिना

sadā''hāraviśuddhiśca kāyaprakṣālanaṃ ca yat |
bāhyaśaucaṃ bhavedetattathaivācamanādinā

232.32

मृच्चैव शुद्धदेशस्था गोशकृन्मूत्रमेव च ।
द्रव्याणि गन्धयुक्तानि यानि पुष्टिकराणि च ।
एतैः सम्मार्जयेत्कायमम्भसा च पुनः पुनः

mṛccaiva śuddhadeśasthā gośakṛnmūtrameva ca |
dravyāṇi gandhayuktāni yāni puṣṭikarāṇi ca |
etaiḥ sammārjayetkāyamambhasā ca punaḥ punaḥ

232.33

अक्षोभ्यं यत्प्रकीर्णं च नित्यस्रोतं च यज्जलम् ।
प्रायशस्तादृशे मज्जेदन्यथा च विवर्जयेत्

akṣobhyaṃ yatprakīrṇaṃ ca nityasrotaṃ ca yajjalam |
prāyaśastādṛśe majjedanyathā ca vivarjayet

232.34

त्रिस्त्रिराचमनं श्रेष्ठं निष्फेनैर्निर्मलैर्जलैः ।
तथा विण्मूत्रयोः शुद्धिरद्भिर्बहुमृदा भवेत् ।
तथैव जलसंशुद्धिर्यत्संशुद्धं तु संस्पृशेत्

tristrirācamanaṃ śreṣṭhaṃ niṣphenairnirmalairjalaiḥ |
tathā viṇmūtrayoḥ śuddhiradbhirbahumṛdā bhavet |
tathaiva jalasaṃśuddhiryatsaṃśuddhaṃ tu saṃspṛśet

232.35

शकृता भूमिशुद्धिः स्याल्लौहानां भस्मना स्मृतम् ।
तक्षणं घर्षणं चैव दारवाणां विशोधनम्

śakṛtā bhūmiśuddhiḥ syāllauhānāṃ bhasmanā smṛtam |
takṣaṇaṃ gharṣaṇaṃ caiva dāravāṇāṃ viśodhanam

232.36

दहनं मृण्मयानां च मर्त्यानां कृच्छ्रधारणम् ।
शेषाणां देवि सर्वेषामातपेन जलेन च ।
ब्राह्मणानां च वाक्येन सदा संशोधनं भवेत्

dahanaṃ mṛṇmayānāṃ ca martyānāṃ kṛcchradhāraṇam |
śeṣāṇāṃ devi sarveṣāmātapena jalena ca |
brāhmaṇānāṃ ca vākyena sadā saṃśodhanaṃ bhavet

232.37

अदृष्टमद्भिर्निर्णिक्तं यच्च वाचा प्रशस्यते ।
एवमापदि संशुद्धिरेवं शौचं विधीयते ।

adṛṣṭamadbhirnirṇiktaṃ yacca vācā praśasyate |
evamāpadi saṃśuddhirevaṃ śaucaṃ vidhīyate |

उमोवाच

232.38

आहारशुद्धिस्तु कथं देवदेव महेश्वर

āhāraśuddhistu kathaṃ devadeva maheśvara

महेश्वर उवाच

232.39

अमांसमद्यमक्लेद्यमपर्युषितमेव च ।
अतिकट्वम्ललवणहनं च शुभगन्धि च

amāṃsamadyamakledyamaparyuṣitameva ca |
atikaṭvamlalavaṇahanaṃ ca śubhagandhi ca

232.40

क्रिमिकेशमलैर्हीनं संवृतं शुद्धदर्शम् ।
एवंविधं सदाहार्यं देवब्राह्मणसात्कृतम्

krimikeśamalairhīnaṃ saṃvṛtaṃ śuddhadarśam |
evaṃvidhaṃ sadāhāryaṃ devabrāhmaṇasātkṛtam

232.41

श्रुतमित्येव तज्ज्ञेयमन्यथा मन्यसेऽशुभम् ।
ग्राम्यादारण्यकैः सिद्धं श्रेष्ठमित्यवधारय

śrutamityeva tajjñeyamanyathā manyase'śubham |
grāmyādāraṇyakaiḥ siddhaṃ śreṣṭhamityavadhāraya

232.42

अतिमात्रगृहीतात्तु अल्पदत्तं भवेच्छुचि ।
यज्ञशेषं हविःशेषं पितृशेषं च निर्मलम् ।
इति ते कथितं देवि भूयः किं श्रोतुमिच्छसि

atimātragṛhītāttu alpadattaṃ bhavecchuci |
yajñaśeṣaṃ haviḥśeṣaṃ pitṛśeṣaṃ ca nirmalam |
iti te kathitaṃ devi bhūyaḥ kiṃ śrotumicchasi

पाठ का स्रोत: Wikisource · CC BY-SA 4.0 (Wikisource transcription of a public-domain text)