अनुशासन पर्व

अध्याय 226: आत्मा का लिंग नहीं, वह कर्ता नहीं

इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि षड्विंशत्यधिकद्विशततमोऽध्यायः ॥

21 श्लोक · 226 में से 274

इस अध्याय में क्या होता है

आत्मा का लिंग नहीं, वह कर्ता नहीं

उमा पूछती हैं कि क्या स्त्री और पुरुष के प्राण अलग हैं। महादेव कहते हैं कि आत्मा निर्विकार है, न स्त्री है न पुरुष। कर्म के अनुसार पुरुष स्त्री और स्त्री पुरुष होकर जन्म ले सकती है। उमा पूछती हैं कि यदि आत्मा कर्ता नहीं तो कर्म कौन करता है। महादेव कहते हैं कि प्रकृति अपने तीन गुणों से कर्म करती है, जो देह में वैसे ही व्याप्त हैं जैसे वात, पित्त और कफ। सत्त्व प्रकाश है, रज दुःख और तृष्णा, तम मोह। सत्य, दया और दम सात्त्विक कर्म हैं। लोभ और ऐश्वर्य की लालसा राजस हैं। झूठ, हिंसा, आलस्य और भय तामस हैं। सात्त्विक पुण्यलोक पाते हैं, राजस फिर मनुष्य बनते हैं, तामस पशुयोनि और नरक में जाते हैं।

उमोवाच

226.1

देवदेव महादेव श्रुतं मे भगवन्निदम् ।
आत्मनो जातिसम्बन्धं ब्रूहि स्त्रीपुरुषान्तरम्

devadeva mahādeva śrutaṃ me bhagavannidam |
ātmano jātisambandhaṃ brūhi strīpuruṣāntaram

226.2

स्त्रीप्राणाः पुरुषप्राणा एकतः पृथगेव वा ।
एष मे संशयो देव तं मे छेत्तुं त्वमर्हसि

strīprāṇāḥ puruṣaprāṇā ekataḥ pṛthageva vā |
eṣa me saṃśayo deva taṃ me chettuṃ tvamarhasi

महेश्वर उवाच

226.3

तदहं ते प्रवक्ष्यामि शृणु सर्वं समाहिता ।
स्त्रीत्वं पुंस्त्वमिति प्राणे स्थितिर्नास्ति शुभेक्षणे

tadahaṃ te pravakṣyāmi śṛṇu sarvaṃ samāhitā |
strītvaṃ puṃstvamiti prāṇe sthitirnāsti śubhekṣaṇe

226.4

निर्विकारः सदैवात्मा स्त्रीत्वं पुंस्त्वं न चात्मनि ।
कर्मप्रकारेण तथा जात्यां जात्यां प्रजायते

nirvikāraḥ sadaivātmā strītvaṃ puṃstvaṃ na cātmani |
karmaprakāreṇa tathā jātyāṃ jātyāṃ prajāyate

226.5

कृत्वा कर्म पुमान्स्त्री वा स्त्री पुमानपि जायते ।
स्त्रीभावं यत्पुमान्कृत्वा कर्मणा प्रमदा भवेत्

kṛtvā karma pumānstrī vā strī pumānapi jāyate |
strībhāvaṃ yatpumānkṛtvā karmaṇā pramadā bhavet

उमोवाच

226.6

भगवन्सर्वलोकेश कर्मात्मा न करोति चेत् ।
कोऽन्यः कर्मकरो देहे तन्मे त्वं वक्तुमर्हसि

bhagavansarvalokeśa karmātmā na karoti cet |
ko'nyaḥ karmakaro dehe tanme tvaṃ vaktumarhasi

महेश्वर उवाच

226.7

शृणु भामिनि कर्तारमात्मा हि न च कर्मकृत् ।
प्रकृत्या गुणयुक्तेन क्रियते कर्म नित्यशः

śṛṇu bhāmini kartāramātmā hi na ca karmakṛt |
prakṛtyā guṇayuktena kriyate karma nityaśaḥ

226.8

शरीरं प्राणिनां लोके यथा पित्तकफानिलैः ।
व्याप्तमेभिस्त्रिभिर्दोषैस्तथा व्याप्तं त्रिभिर्गुणैः

śarīraṃ prāṇināṃ loke yathā pittakaphānilaiḥ |
vyāptamebhistribhirdoṣaistathā vyāptaṃ tribhirguṇaiḥ

226.9

सत्वं रजस्तमश्चैव गुणास्त्वेते शरीरिणः ।
प्रकाशात्मकमेतेषां सत्वं सततमिष्यते

satvaṃ rajastamaścaiva guṇāstvete śarīriṇaḥ |
prakāśātmakameteṣāṃ satvaṃ satatamiṣyate

226.10

रजो दुःखत्मकं तत्र तमो मोहात्मकं स्मृतम् ।
त्रिभिरेतैर्गुणैर्युक्तं लोके कर्म प्रवर्तते

rajo duḥkhatmakaṃ tatra tamo mohātmakaṃ smṛtam |
tribhiretairguṇairyuktaṃ loke karma pravartate

226.11

सत्यं प्राणिदया शौचं श्रेयः प्रीतिः क्षमा दमः ।
एवमादि तथाऽन्यश्च कर्म सात्विकमुच्यते

satyaṃ prāṇidayā śaucaṃ śreyaḥ prītiḥ kṣamā damaḥ |
evamādi tathā'nyaśca karma sātvikamucyate

226.12

दाक्ष्यं कर्मपरत्वं च लोभो मोहो विधिं प्रति ।
कलत्रसङ्गो माधुर्यं नित्यमैश्वर्यलुब्धता ।
रजसश्चोद्भवं चैतत्कर्म नानाविधं सदा

dākṣyaṃ karmaparatvaṃ ca lobho moho vidhiṃ prati |
kalatrasaṅgo mādhuryaṃ nityamaiśvaryalubdhatā |
rajasaścodbhavaṃ caitatkarma nānāvidhaṃ sadā

226.13

अनृतं चैव पारुष्यं धृतिर्विद्वेषिता भृशम् ।
हिंसाऽसत्यं च नास्तिक्यं निद्रालस्यभयानि च ।
तमसश्चोद्भवं चैतत्कर्म पापयुतं तथा

anṛtaṃ caiva pāruṣyaṃ dhṛtirvidveṣitā bhṛśam |
hiṃsā'satyaṃ ca nāstikyaṃ nidrālasyabhayāni ca |
tamasaścodbhavaṃ caitatkarma pāpayutaṃ tathā

226.14

तस्माद्गुणमयः सर्वः कार्यारम्भः शुभाशुभः ।
तस्मादात्मानमव्यग्रं विद्ध्यकर्तारमव्ययम्

tasmādguṇamayaḥ sarvaḥ kāryārambhaḥ śubhāśubhaḥ |
tasmādātmānamavyagraṃ viddhyakartāramavyayam

226.15

सात्विकाः पुण्यलोकेषु राजसा मानुषे पदे ।
तिर्यग्योनौ च नरके तिष्ठेयुस्तामसा नराः

sātvikāḥ puṇyalokeṣu rājasā mānuṣe pade |
tiryagyonau ca narake tiṣṭheyustāmasā narāḥ

उमोवाच

226.16

किमर्थमात्मा भिन्नेऽस्मिन्देहे शस्त्रेण वा हते ।
स्वयं प्रयास्यति तदा तन्मे शंसितुमर्हसि

kimarthamātmā bhinne'smindehe śastreṇa vā hate |
svayaṃ prayāsyati tadā tanme śaṃsitumarhasi

महेश्वर उवाच

226.17

तदहं ते प्रक्ष्यामि शृणु कल्याणि कारणम् ।
एतन्निर्णायकैश्चापि मुह्यन्ते सूक्ष्मबुद्धिभिः

tadahaṃ te prakṣyāmi śṛṇu kalyāṇi kāraṇam |
etannirṇāyakaiścāpi muhyante sūkṣmabuddhibhiḥ

226.18

कर्मक्षये तु सम्प्राप्ते प्राणिनां जन्मधारिणाम् ।
उपद्रवो भवेद्देहे येन केनापि हेतुना

karmakṣaye tu samprāpte prāṇināṃ janmadhāriṇām |
upadravo bhaveddehe yena kenāpi hetunā

226.19

तन्निमित्तं शरीरी तु शरीरं प्राप्य संक्षयम् ।
अपयाति परित्यज्य ततः कर्मवशेन सः

tannimittaṃ śarīrī tu śarīraṃ prāpya saṃkṣayam |
apayāti parityajya tataḥ karmavaśena saḥ

226.20

देहक्षयेपि नैवात्मा वेदनाभिर्न चाल्यते ।
तिष्ठेत्कर्मफलं यावद्व्रजेत्कर्मक्षये पुनः

dehakṣayepi naivātmā vedanābhirna cālyate |
tiṣṭhetkarmaphalaṃ yāvadvrajetkarmakṣaye punaḥ

226.21

आदिप्रभृति लोकेऽस्मिन्नेवमात्मगतिः स्मृता ।
एतत्ते कथितं देवि किं भूयः श्रोतुमिच्छसि

ādiprabhṛti loke'sminnevamātmagatiḥ smṛtā |
etatte kathitaṃ devi kiṃ bhūyaḥ śrotumicchasi

पाठ का स्रोत: Wikisource · CC BY-SA 4.0 (Wikisource transcription of a public-domain text)