अनुशासन पर्व

अध्याय 22: कद्रू के पुत्र छल करने से मना करते हैं

इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि द्वाविंशोऽध्यायः ॥

20 श्लोक · 22 में से 274

इस अध्याय में क्या होता है

कद्रू के पुत्र छल करने से मना करते हैं

कद्रू अपने सर्प पुत्रों को बाज़ी की बात बताती हैं। घोड़ा सचमुच चन्द्रमा जैसा पूरा श्वेत है, इसलिए वे हारकर दासी बनेंगी। वे पुत्रों से कहती हैं कि उसकी पूँछ में जाकर काले बालों की तरह लटक जाएँ। सर्प मना करते हैं: छल की जीत में धर्म नहीं। यदि वे अधर्म से जीतना चाहते तो माता को उन्हें रोकना चाहिए था; उल्टे वे लोभ से अपने निष्पाप पुत्रों को कलंकित करना चाहती हैं। वे दसों दिशाओं में चले जाने की बात कहते हैं, क्योंकि कुमार्ग पर चलने वाले गुरु का भी त्याग विहित है। कद्रू कहती हैं कि वे उनका तर्क समझती हैं पर मान नहीं सकतीं। पुत्र माता को तारने के लिए होते हैं, इसलिए वे काले बाल बनकर उन्हें बचाएँ।

भीष्म उवाच

22.1

विनता तु तथेत्युक्त्वा कृतसंशयना पणे ।
कद्रूरपि तथेत्युक्त्वा पुत्रानिदमुवाच ह

vinatā tu tathetyuktvā kṛtasaṃśayanā paṇe |
kadrūrapi tathetyuktvā putrānidamuvāca ha

22.2

मया कृतः पणः पुत्रा मिथो विनतया सह ।
उच्चैरश्रवसि गान्धर्वे तच्छृणुध्वं भुजङ्गमाः

mayā kṛtaḥ paṇaḥ putrā mitho vinatayā saha |
uccairaśravasi gāndharve tacchṛṇudhvaṃ bhujaṅgamāḥ

22.3

अब्रवं नैकवर्णं तं सैकवर्णमथाब्रवीत् ।
जिता दासी भवेत्पुत्राः सा वाऽहं वा न संशयः

abravaṃ naikavarṇaṃ taṃ saikavarṇamathābravīt |
jitā dāsī bhavetputrāḥ sā vā'haṃ vā na saṃśayaḥ

22.4

एकवर्णश्च वाजी स चन्द्रकोकनदप्रभः ।
साऽहं दासी भविष्यामि जिता पुत्रा न संशयः

ekavarṇaśca vājī sa candrakokanadaprabhaḥ |
sā'haṃ dāsī bhaviṣyāmi jitā putrā na saṃśayaḥ

22.5

ते यूयमश्वप्रवरमाविशध्वमतन्द्रिताः ।
सर्वश्वेतं वालधिषु वाला भूत्वाञ्जनप्रभाः

te yūyamaśvapravaramāviśadhvamatandritāḥ |
sarvaśvetaṃ vāladhiṣu vālā bhūtvāñjanaprabhāḥ

सर्पा ऊचुः

22.6

निकृत्या न जयः श्रेयान्मातः सत्या गिरः शृणु ।
आयत्यां च तदात्वे च न च धर्मोऽत्र विद्यते

nikṛtyā na jayaḥ śreyānmātaḥ satyā giraḥ śṛṇu |
āyatyāṃ ca tadātve ca na ca dharmo'tra vidyate

22.7

सा त्वं धर्मादपेतं वै कुलस्यैवाहितं तव ।
निकृत्या विजयं मातर्मा स्म कार्षीः कथञ्चना

sā tvaṃ dharmādapetaṃ vai kulasyaivāhitaṃ tava |
nikṛtyā vijayaṃ mātarmā sma kārṣīḥ kathañcanā

22.8

यद्यधर्मेण विजयं वयं काङ्क्षामहे क्वचित् ।
त्वया नाम निवार्याः स्म मा कुरुध्वमिति ध्रुवम्

yadyadharmeṇa vijayaṃ vayaṃ kāṅkṣāmahe kvacit |
tvayā nāma nivāryāḥ sma mā kurudhvamiti dhruvam

22.9

सा त्वमस्मानपि सतो विपापानृजुबुद्धिनः ।
कल्मषेणाभिसंयोक्तुं काङ्क्षसे लोभमोहिता

sā tvamasmānapi sato vipāpānṛjubuddhinaḥ |
kalmaṣeṇābhisaṃyoktuṃ kāṅkṣase lobhamohitā

22.10

ते वयं त्वां परित्यज्य द्रविष्याम दिशो दश ।
यत्र वाक्यं न ते मातः पुनः श्रोष्याम ईदृशम्

te vayaṃ tvāṃ parityajya draviṣyāma diśo daśa |
yatra vākyaṃ na te mātaḥ punaḥ śroṣyāma īdṛśam

22.11

गुरोरप्यवलिप्तस्य कार्याकार्यमजानतः ।
उत्पथं प्रतिपन्नस्य परित्यागो विधीयते

gurorapyavaliptasya kāryākāryamajānataḥ |
utpathaṃ pratipannasya parityāgo vidhīyate

कद्रूरुवाच

22.12

शृणोमि विविधा वाचो हेतुमत्यः समीरिताः ।
वक्रमार्गनिवृत्त्यर्थं तदहं वो न रोचये

śṛṇomi vividhā vāco hetumatyaḥ samīritāḥ |
vakramārganivṛttyarthaṃ tadahaṃ vo na rocaye

22.13

न च तत्पणितं मन्दाः शक्यं जेतुमतोऽन्वथा ।
जिते निकृत्या श्रुत्वैतत्क्षेमं कुरुत पुत्रकाः

na ca tatpaṇitaṃ mandāḥ śakyaṃ jetumato'nvathā |
jite nikṛtyā śrutvaitatkṣemaṃ kuruta putrakāḥ

22.14

श्वोऽहं प्रभातसमये जिता धर्मेण पुत्रकाः ।
शैलूषिणी भविष्यामि विनताया न संशयः

śvo'haṃ prabhātasamaye jitā dharmeṇa putrakāḥ |
śailūṣiṇī bhaviṣyāmi vinatāyā na saṃśayaḥ

22.15

इह चामुत्र चार्थाय पुत्रानिच्छन्ति मातरः ।
सेयमीहा विपन्ना मे युष्मानासाद्य सङ्गताम्

iha cāmutra cārthāya putrānicchanti mātaraḥ |
seyamīhā vipannā me yuṣmānāsādya saṅgatām

22.16

इह वा तारयेत्पुत्रः प्रेत्य वा तारयेत्पितॄन् ।
मात्र चित्रं भवेकिञ्चित्पुनातीति च पुत्रकः

iha vā tārayetputraḥ pretya vā tārayetpitṝn |
mātra citraṃ bhavekiñcitpunātīti ca putrakaḥ

22.17

ते यूयं तारणार्थाय मम पुत्रा मनोजवाः ।
आविशध्वं हयश्रेष्ठं वाला भूत्वाऽञ्जनप्रभाः

te yūyaṃ tāraṇārthāya mama putrā manojavāḥ |
āviśadhvaṃ hayaśreṣṭhaṃ vālā bhūtvā'ñjanaprabhāḥ

22.18

जानाम्यधर्मं सकलं विजिता विनता भवेत् ।
निकृत्या दासभावस्तु युष्मानप्यवपीडयेत्

jānāmyadharmaṃ sakalaṃ vijitā vinatā bhavet |
nikṛtyā dāsabhāvastu yuṣmānapyavapīḍayet

22.19

निकृत्या विजयो वेति दासत्वं वा पराभवे ।
उभयं निश्चयं कृत्वा जयो वै धार्मिको वरः

nikṛtyā vijayo veti dāsatvaṃ vā parābhave |
ubhayaṃ niścayaṃ kṛtvā jayo vai dhārmiko varaḥ

22.20

यद्यप्यधर्मो विजयो युष्मानेव स्पृशेत्पुनः ।
गुरोर्वचनमास्थाय धर्मो वा सम्भविष्यति

yadyapyadharmo vijayo yuṣmāneva spṛśetpunaḥ |
gurorvacanamāsthāya dharmo vā sambhaviṣyati

पाठ का स्रोत: Wikisource · CC BY-SA 4.0 (Wikisource transcription of a public-domain text)