ममाप्यनुमतो धर्मस्तं शृणुध्वं समाहिताः ।
नीलषण्डस्य शृङ्गाभ्यां गृहीत्वा मृत्तिकां तु यः
mamāpyanumato dharmastaṃ śṛṇudhvaṃ samāhitāḥ |
nīlaṣaṇḍasya śṛṅgābhyāṃ gṛhītvā mṛttikāṃ tu yaḥ
इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि सप्तनवत्यधिकशततमोऽध्यायः ॥
17 श्लोक · 197 में से 274
स्कन्द अपना रहस्य बताते हैं। जो काले वृषभ के सींगों से उठाई मिट्टी से तीन दिन स्नान करे, उसका सब अशुभ मिटता है, परलोक में उसे आधिपत्य मिलता है और वह हर जन्म में शूर होता है। पूर्णिमा को उगते चन्द्रमा को गूलर के पात्र में मधु सहित पका अन्न अर्पित करे, तो सब देवगण उसे ग्रहण करते हैं। फिर भगवान विष्णु इन सब गूढ़ धर्मों का फल कहते हैं। जो इन्हें प्रतिदिन बिना ईर्ष्या के पढ़े या सुने, उसे न विघ्न होता है न भय, और महापातकों को छोड़ वह सब पापों से छूटता है। भीष्म प्रसंग समाप्त करते हैं कि यह उपदेश व्यास से आया है और रत्नों से भरी पृथ्वी से भी बढ़कर है। इसे अश्रद्धालु, निर्दय या गुरुद्वेषी को न सुनाया जाए।
[स्कन्द उवाच
ममाप्यनुमतो धर्मस्तं शृणुध्वं समाहिताः ।
नीलषण्डस्य शृङ्गाभ्यां गृहीत्वा मृत्तिकां तु यः
mamāpyanumato dharmastaṃ śṛṇudhvaṃ samāhitāḥ |
nīlaṣaṇḍasya śṛṅgābhyāṃ gṛhītvā mṛttikāṃ tu yaḥ
अभिषेकं त्र्यहं कुर्यात्तस्य धर्मं निबोधत ।
शोधयेदशुभं सर्वमाधिपत्यं परत्र च
abhiṣekaṃ tryahaṃ kuryāttasya dharmaṃ nibodhata |
śodhayedaśubhaṃ sarvamādhipatyaṃ paratra ca
यावच्च जायते मर्त्यस्तावच्छूरो भविष्यति ।
इदं चाप्यपरं गुह्यं सरहस्यं निबोधत
yāvacca jāyate martyastāvacchūro bhaviṣyati |
idaṃ cāpyaparaṃ guhyaṃ sarahasyaṃ nibodhata
प्रगृह्यौदुम्बरं पात्रं पक्वान्नं मधुना सह ।
सोमस्योत्तिष्ठमानस्यि पौर्णमास्यां बलिं हरेत्
pragṛhyaudumbaraṃ pātraṃ pakvānnaṃ madhunā saha |
somasyottiṣṭhamānasyi paurṇamāsyāṃ baliṃ haret
तस्य धर्मफलं नित्यं श्रद्दधाना निबोधत ।
साध्या रुद्रास्तथाऽऽदित्या विश्वेदेवास्तथाऽश्विनौ
tasya dharmaphalaṃ nityaṃ śraddadhānā nibodhata |
sādhyā rudrāstathā''dityā viśvedevāstathā'śvinau
मरुतो वसवश्चैव प्रतिगृह्णन्ति तं बलिम् ।
सोमश्च वर्धते तेन समुद्रश्च महोदधिः
maruto vasavaścaiva pratigṛhṇanti taṃ balim |
somaśca vardhate tena samudraśca mahodadhiḥ
एष धर्मो मयोद्दिष्टः सरहस्यः सुखावहः
eṣa dharmo mayoddiṣṭaḥ sarahasyaḥ sukhāvahaḥ
विष्णुरुवाच
धर्मगुह्यानि सर्वाणि देवतानां महात्मनाम् ।
ऋषीणां चैव गुह्यानि यः पठेदाह्निकं सदा
dharmaguhyāni sarvāṇi devatānāṃ mahātmanām |
ṛṣīṇāṃ caiva guhyāni yaḥ paṭhedāhnikaṃ sadā
शृणुयाद्वाऽनसूयुर्यः श्रद्दधानः समाहितः ।
नास्य विघ्नः प्रभवति भयं चास्य न विद्यते
śṛṇuyādvā'nasūyuryaḥ śraddadhānaḥ samāhitaḥ |
nāsya vighnaḥ prabhavati bhayaṃ cāsya na vidyate
ये च धर्माः शुभाः पुण्याः सरहस्या उदाहृताः ।
तेषां धर्मफलं तस्य यः पठेत जितेन्द्रियः
ye ca dharmāḥ śubhāḥ puṇyāḥ sarahasyā udāhṛtāḥ |
teṣāṃ dharmaphalaṃ tasya yaḥ paṭheta jitendriyaḥ
नास्य पापं प्रभवति न च पापेन लिप्यते ।
पठेद्वा श्रावयेद्वाऽपि श्रुत्वा वा लभते फलम्
nāsya pāpaṃ prabhavati na ca pāpena lipyate |
paṭhedvā śrāvayedvā'pi śrutvā vā labhate phalam
भुञ्जते पितरो देवा हव्यं कव्यमथाक्षयम् ।
श्रावयंश्चापि विप्रेन्द्रान्पर्वसु प्रयतो नरः
bhuñjate pitaro devā havyaṃ kavyamathākṣayam |
śrāvayaṃścāpi viprendrānparvasu prayato naraḥ
ऋषीणां देवतानां च पितॄणां चैव नित्यदा ।
भवत्यभिमतः श्रीमान्धर्मेषु प्रयतः सदा
ṛṣīṇāṃ devatānāṃ ca pitṝṇāṃ caiva nityadā |
bhavatyabhimataḥ śrīmāndharmeṣu prayataḥ sadā
कृत्वाऽपि पापकं कर्म महापातकवर्जितम् ।
रहस्यधर्मं श्रुत्वेमं सर्वपापैः प्रमुच्यते
kṛtvā'pi pāpakaṃ karma mahāpātakavarjitam |
rahasyadharmaṃ śrutvemaṃ sarvapāpaiḥ pramucyate
भीष्म उवाच
एतद्धर्मरहस्यं वै देवतानां नराधिप ।
व्यासोद्दिष्टं मया प्रोक्तं सर्वदेवनमस्कृतम्
etaddharmarahasyaṃ vai devatānāṃ narādhipa |
vyāsoddiṣṭaṃ mayā proktaṃ sarvadevanamaskṛtam
पृथिवी रत्नसंपूर्णा ज्ञानं चेदमनुत्तमम् ।
इदमेव ततः श्राव्यमिति मन्येत धर्मवित्
pṛthivī ratnasaṃpūrṇā jñānaṃ cedamanuttamam |
idameva tataḥ śrāvyamiti manyeta dharmavit
नाश्रद्दधानाय न नास्तिकाय
न नष्टधर्मायि न निर्घृणाय ।
न हेतुदुष्टाय गुरुद्विषे वा
नानात्मभूताय निवेद्यमेतत्
nāśraddadhānāya na nāstikāya
na naṣṭadharmāyi na nirghṛṇāya |
na hetuduṣṭāya gurudviṣe vā
nānātmabhūtāya nivedyametat
पाठ का स्रोत: Wikisource · CC BY-SA 4.0 (Wikisource transcription of a public-domain text)