परदारेषु ये सक्ता अकृत्वा दारसङ्ग्रहम् ।
निराशाः पितरस्तेषां श्राद्धकाले भवन्ति वै
paradāreṣu ye saktā akṛtvā dārasaṅgraham |
nirāśāḥ pitarasteṣāṃ śrāddhakāle bhavanti vai
इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि द्विनवत्यधिकशततमोऽध्यायः ॥
15 श्लोक · 192 में से 274
लोमश गूढ़ उपदेश आगे बढ़ाते हैं। जो विवाह किए बिना परस्त्रियों में आसक्त रहते हैं, उनके पितर श्राद्ध के समय निराश रहते हैं। परस्त्रीगामी, वन्ध्या स्त्री का सेवन करने वाला और ब्राह्मण का धन हरने वाला, तीनों समान दोषी हैं। देवता और पितर उनकी हवि नहीं लेते और उनसे बात तक नहीं करते। इसलिए अपना हित चाहने वाला इनसे बचे। हर द्वादशी और पूर्णिमा को ब्राह्मणों को घी और अक्षत दे। इससे चन्द्रमा और समुद्र बढ़ते हैं और इन्द्र अश्वमेध का चौथाई फल देते हैं। कलियुग के लिए वे एक और विधि कहते हैं। प्रातः उठकर, स्नान करके, श्वेत वस्त्र पहनकर तिलपात्र, मधु सहित तिलोदक, दीप और खिचड़ी दे। देवता तिलपात्र को गोदान और भूमिदान के बराबर मानते हैं।
लोमश उवाच
परदारेषु ये सक्ता अकृत्वा दारसङ्ग्रहम् ।
निराशाः पितरस्तेषां श्राद्धकाले भवन्ति वै
paradāreṣu ye saktā akṛtvā dārasaṅgraham |
nirāśāḥ pitarasteṣāṃ śrāddhakāle bhavanti vai
परदाररतिर्यश्च यश्च वन्ध्यामुपासते ।
ब्रह्मस्वं हरते यश्च समदोषा भवन्ति ते
paradāraratiryaśca yaśca vandhyāmupāsate |
brahmasvaṃ harate yaśca samadoṣā bhavanti te
असम्भाष्या भवन्त्येते पितॄणां नात्र संशयः ।
देवताः पितरश्चैषां नाभिनन्दन्ति तद्धविः
asambhāṣyā bhavantyete pitṝṇāṃ nātra saṃśayaḥ |
devatāḥ pitaraścaiṣāṃ nābhinandanti taddhaviḥ
तस्मात्परस्य वै दारांस्त्यजेद्वन्ध्यां च योषितम् ।
ब्रह्मस्वं हि न हर्तव्यमात्मनो हितमिच्छता
tasmātparasya vai dārāṃstyajedvandhyāṃ ca yoṣitam |
brahmasvaṃ hi na hartavyamātmano hitamicchatā
श्रूयतां चापरं गुह्यं रहस्यं धर्मसंहितम् ।
श्रद्दधानेन कर्तव्यं गुरुणां वचनं सदा
śrūyatāṃ cāparaṃ guhyaṃ rahasyaṃ dharmasaṃhitam |
śraddadhānena kartavyaṃ guruṇāṃ vacanaṃ sadā
द्वादश्यां पौर्णमास्यां च मासिमासि घृताक्षतम् ।
ब्राह्मणेभ्यः प्रयच्छेत तस्य पुण्यं निबोधत
dvādaśyāṃ paurṇamāsyāṃ ca māsimāsi ghṛtākṣatam |
brāhmaṇebhyaḥ prayaccheta tasya puṇyaṃ nibodhata
सोमश्च वर्धते तेन समुद्रश्च महोदधिः ।
अश्वमेधचतुर्भागं फलं सृजति वासवः
somaśca vardhate tena samudraśca mahodadhiḥ |
aśvamedhacaturbhāgaṃ phalaṃ sṛjati vāsavaḥ
दानेनैतेन तेजस्वी वीर्यवांश्च भवेन्नरः ।
प्रीतश्च भगवान्सोम इष्टान्कामान्प्रयच्छति
dānenaitena tejasvī vīryavāṃśca bhavennaraḥ |
prītaśca bhagavānsoma iṣṭānkāmānprayacchati
श्रूयतां चापरो धर्मः सरहस्यो महाफलः ।
इदं कलियुगं प्राप्य मनुष्याणां सुखावहः
śrūyatāṃ cāparo dharmaḥ sarahasyo mahāphalaḥ |
idaṃ kaliyugaṃ prāpya manuṣyāṇāṃ sukhāvahaḥ
कल्यमुत्थाय यो मर्त्यः स्नातः शुक्लेन वाससा ।
तिलपात्रं प्रयच्छेत ब्राह्मणेभ्यः समाहितः
kalyamutthāya yo martyaḥ snātaḥ śuklena vāsasā |
tilapātraṃ prayaccheta brāhmaṇebhyaḥ samāhitaḥ
तिलोदकं च यो दद्यात्पितॄणां मधुना सह ।
दीपकं कृसंर चैव श्रूयतां तस्य यत्फलम्
tilodakaṃ ca yo dadyātpitṝṇāṃ madhunā saha |
dīpakaṃ kṛsaṃra caiva śrūyatāṃ tasya yatphalam
तिलपात्रे फलं प्राह भगवान्पाकशांसनः ।
गोप्रदानं च यः कुर्याद्भूमिदानं च शाश्वतम्
tilapātre phalaṃ prāha bhagavānpākaśāṃsanaḥ |
gopradānaṃ ca yaḥ kuryādbhūmidānaṃ ca śāśvatam
अग्निष्टोमं च यो यज्ञं यजेत बहुदक्षिणम् ।
तिलपात्रं सहैतेन समं मन्यन्ति देवताः
agniṣṭomaṃ ca yo yajñaṃ yajeta bahudakṣiṇam |
tilapātraṃ sahaitena samaṃ manyanti devatāḥ
तिलोदकं सदा श्राद्धे मन्यन्ते पितरोऽक्षयम् ।
दीपे च कृसरे चैव तुष्यन्तेऽस्य पितामहाः
tilodakaṃ sadā śrāddhe manyante pitaro'kṣayam |
dīpe ca kṛsare caiva tuṣyante'sya pitāmahāḥ
स्वर्गे च पितृलोके च पितृदेवाभिपूजितम् ।
एवमेतन्मयोद्दिष्टपिदृष्टं पुरातनम् ॥]
svarge ca pitṛloke ca pitṛdevābhipūjitam |
evametanmayoddiṣṭapidṛṣṭaṃ purātanam ||]
पाठ का स्रोत: Wikisource · CC BY-SA 4.0 (Wikisource transcription of a public-domain text)