अनुशासन पर्व

अध्याय 190: देवताओं और ऋषियों के और गूढ़ नियम

इति श्रीमन्महाभारते अनुशासनपर्वणि नवत्यधिकशततमोऽध्यायः ॥

19 श्लोक · 190 में से 274

इस अध्याय में क्या होता है

देवताओं और ऋषियों के और गूढ़ नियम

विभावसु के अनुसार पूर्णिमा को उगते चन्द्रमा को अक्षत सहित जल की अञ्जलि अग्निहोत्र के समान है, पर अमावस्या को वृक्ष काटने या दातुन चबाने से चन्द्रमा आहत होते हैं और पितर कुपित। देवी श्री कहती हैं कि जिस घर में टूटे पात्र हों, कलह हो और स्त्रियों को मारा जाए, वहाँ से देवता और पितर लौट जाते हैं। अंगिरा वर्ष भर करंज वृक्ष के नीचे दीप रखने की प्रशंसा करते हैं। गार्ग्य निरन्तर अतिथिसत्कार और पुष्कर तीर्थों के कीर्तन की बात कहते हैं,; रजस्वला स्त्री की दृष्टि से हवि दूषित होती है। धौम्य टूटे बर्तन, खाट, मुर्गे और कुत्ते को कर्म के पास अशुभ मानते हैं। जमदग्नि कहते हैं कि शुद्ध हृदय के बिना सौ यज्ञ भी नरक ले जाते हैं,।

[विभावसुरुवाच

190.1

सलिलस्याञ्जलिं पूर्णमक्षताश्च धृतोत्तराः ।
सोमस्योत्तिष्ठमानस्य तज्जलं चाक्षतांश्च तान्

salilasyāñjaliṃ pūrṇamakṣatāśca dhṛtottarāḥ |
somasyottiṣṭhamānasya tajjalaṃ cākṣatāṃśca tān

190.2

स्थितो ह्यभिमुखो मर्त्यः पौर्णमास्यां बलिं हरेत् ।
अग्निकार्यं कृतं तेन हुताश्चास्याग्नयस्त्रयः

sthito hyabhimukho martyaḥ paurṇamāsyāṃ baliṃ haret |
agnikāryaṃ kṛtaṃ tena hutāścāsyāgnayastrayaḥ

190.3

वनस्पतिं च यो हन्यादमावास्यामबुद्धिमान् ।
अपि ह्येकेन पत्रेण लिप्यते ब्रह्महत्यया

vanaspatiṃ ca yo hanyādamāvāsyāmabuddhimān |
api hyekena patreṇa lipyate brahmahatyayā

190.4

दन्तकाष्ठं तु यः खादेदमावास्यामबुद्धिमान् ।
हिंसितश्चन्द्रमा**** पितरश्चोद्विजन्ति च

dantakāṣṭhaṃ tu yaḥ khādedamāvāsyāmabuddhimān |
hiṃsitaścandramā**** pitaraścodvijanti ca

190.5

हव्यं न तस्य देवाश्च प्रतिगृह्णन्ति पर्वसु ।
कुप्यन्ते पितरश्चास्य कुले वंशोऽस्य हीयते

havyaṃ na tasya devāśca pratigṛhṇanti parvasu |
kupyante pitaraścāsya kule vaṃśo'sya hīyate

श्रीरुवाच

190.6

प्रकीर्णं भाजनं यत्र भिन्नभाण्डमथासनम् ।
योषितश्चैव हन्यन्ते कश्मलोपहते गृहे

prakīrṇaṃ bhājanaṃ yatra bhinnabhāṇḍamathāsanam |
yoṣitaścaiva hanyante kaśmalopahate gṛhe

190.7

देवताः पितरश्चैव उत्सवे पर्वणीषु वा ।
निराशाः प्रतिगच्छन्ति कश्मलोपहताद्गृहात्

devatāḥ pitaraścaiva utsave parvaṇīṣu vā |
nirāśāḥ pratigacchanti kaśmalopahatādgṛhāt

अङ्गिरा उवाच

190.8

यस्तु संवत्सरं पूर्णं दद्याद्दीपं करञ्जके ।
सुवर्चलामूलहस्तः प्रजा तस्य विवर्धते

yastu saṃvatsaraṃ pūrṇaṃ dadyāddīpaṃ karañjake |
suvarcalāmūlahastaḥ prajā tasya vivardhate

गार्ग्य उवाच

190.9

आतीथ्यं सततं कुर्याद्दीपं दद्यात्प्रतिश्रये ।
वर्जयानो दिवास्वापं न च मांसानि भक्षयेत्

ātīthyaṃ satataṃ kuryāddīpaṃ dadyātpratiśraye |
varjayāno divāsvāpaṃ na ca māṃsāni bhakṣayet

190.10

गोब्राह्मणं न हिंस्याच्च पुष्कराणि च कीर्तयेत् ।
एत श्रेष्ठतमो धर्मः सरहस्यो महाफलः

gobrāhmaṇaṃ na hiṃsyācca puṣkarāṇi ca kīrtayet |
eta śreṣṭhatamo dharmaḥ sarahasyo mahāphalaḥ

190.11

अपि क्रतुशतैरिष्ट्वा क्षयं गच्छति तद्धविः ।
न तु क्षीयन्ति ते धर्माः श्रद्दधानैः प्रयोजिताः

api kratuśatairiṣṭvā kṣayaṃ gacchati taddhaviḥ |
na tu kṣīyanti te dharmāḥ śraddadhānaiḥ prayojitāḥ

190.12

इदं च परमं गुह्यं सरहस्यं निबोधत ।
श्राद्धकल्पे च दैवे च तैर्थिके पर्वणीषु च

idaṃ ca paramaṃ guhyaṃ sarahasyaṃ nibodhata |
śrāddhakalpe ca daive ca tairthike parvaṇīṣu ca

190.13

रजस्वला च या नारी श्वित्रिकाऽपुत्रिका च या ।
एताभिश्चक्षुषा दृष्टं हविर्नाश्नन्ति देवताः ।
पितरश्च न तुष्यन्ति वर्षाण्यपि त्रयोदश

rajasvalā ca yā nārī śvitrikā'putrikā ca yā |
etābhiścakṣuṣā dṛṣṭaṃ havirnāśnanti devatāḥ |
pitaraśca na tuṣyanti varṣāṇyapi trayodaśa

190.14

शुक्लवासाः शुचिर्भूत्वा ब्राह्मणान्स्वस्ति वाचयेत् ।
कीर्तयेद्भारतं चैव तथा स्यादक्षयं हविः

śuklavāsāḥ śucirbhūtvā brāhmaṇānsvasti vācayet |
kīrtayedbhārataṃ caiva tathā syādakṣayaṃ haviḥ

धौम्य उवाच

190.15

भिन्नभाण्डं च खट्वां च कुक्कुटं शुनकं तथा ।
अप्रशस्तानि सर्वाणि यश्च वृक्षो गृहेरुहः

bhinnabhāṇḍaṃ ca khaṭvāṃ ca kukkuṭaṃ śunakaṃ tathā |
apraśastāni sarvāṇi yaśca vṛkṣo gṛheruhaḥ

190.16

भिन्नभाण्डे कलिं प्राहुः खट्वायां तु धनक्षयः ।
कुक्कुटे शुनके चैव हविर्नाश्नन्ति देवताः ।
वृक्षमूले ध्रुवं सत्वं तस्माद्वृक्षं न रोपयेत्

bhinnabhāṇḍe kaliṃ prāhuḥ khaṭvāyāṃ tu dhanakṣayaḥ |
kukkuṭe śunake caiva havirnāśnanti devatāḥ |
vṛkṣamūle dhruvaṃ satvaṃ tasmādvṛkṣaṃ na ropayet

जमदग्निरुवाच

190.17

यो यजेदश्वमेधेन वाजपेयशतेन ह ।
अवाक्शिरा वा लम्बेत सत्रं वा स्फीतमाहरेत्

yo yajedaśvamedhena vājapeyaśatena ha |
avākśirā vā lambeta satraṃ vā sphītamāharet

190.18

न यस्य हृदयं शुद्धं नरकं स ध्रुवं व्रजेत् ।
तुल्यं यज्ञश्च सत्यं च हृदयस्य च शुद्धता

na yasya hṛdayaṃ śuddhaṃ narakaṃ sa dhruvaṃ vrajet |
tulyaṃ yajñaśca satyaṃ ca hṛdayasya ca śuddhatā

190.19

शुद्धेन मनसा दत्त्वा सक्तुप्रस्थं द्विजातये ।
ब्रह्मलोकमनुप्राप्तः पर्याप्तं तन्निदर्शनम् ॥]

śuddhena manasā dattvā saktuprasthaṃ dvijātaye |
brahmalokamanuprāptaḥ paryāptaṃ tannidarśanam ||]

पाठ का स्रोत: Wikisource · CC BY-SA 4.0 (Wikisource transcription of a public-domain text)