स्त्रीणां हि समुदाचारं सर्वधर्मविदांवर ।
श्रोतुमिच्छाम्यहं त्वत्तस्तन्मे ब्रूहि पितामह
strīṇāṃ hi samudācāraṃ sarvadharmavidāṃvara |
śrotumicchāmyahaṃ tvattastanme brūhi pitāmaha
इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि पञ्चाशीत्यधिकशततमोऽध्यायः ॥
25 श्लोक · 185 में से 274
युधिष्ठिर स्त्रियों के आचार के विषय में पूछते हैं। भीष्म बताते हैं कि केकय देश की सुमना ने देवलोक में तेजस्विनी शाण्डिली से पूछा कि किस व्रत से वे वहाँ पहुँचीं। शाण्डिली कहती हैं कि उन्होंने न गेरुआ वस्त्र पहना, न वल्कल, न सिर मुँड़ाया, न जटा रखी। उन्होंने पति से कभी कठोर वचन नहीं कहा, सास-ससुर की सेवा की और देवता, पितर तथा ब्राह्मणों के पूजन में सावधान रहीं। वे चुगली से दूर रहीं और पति के घर लौटने पर उनका आदर किया। जो भोजन पति को प्रिय न हो, उसे त्याग दिया; गृह-अग्नि की रक्षा की और बच्चों का पालन किया। पति के परदेश जाने पर अञ्जन, माला और शृंगार छोड़ दिया। जो स्त्री यह मार्ग निभाती है, वह स्वर्ग में अरुन्धती की तरह पूजित होती है।
युधिष्ठिर उवाच
स्त्रीणां हि समुदाचारं सर्वधर्मविदांवर ।
श्रोतुमिच्छाम्यहं त्वत्तस्तन्मे ब्रूहि पितामह
strīṇāṃ hi samudācāraṃ sarvadharmavidāṃvara |
śrotumicchāmyahaṃ tvattastanme brūhi pitāmaha
भीष्म उवाच
सर्वज्ञां सर्वतत्त्वज्ञां देवलोके मनस्विनीम् ।
कैकेयी सुमना नाम शाण्डिलीं पर्यपृच्छत
sarvajñāṃ sarvatattvajñāṃ devaloke manasvinīm |
kaikeyī sumanā nāma śāṇḍilīṃ paryapṛcchata
केन वृत्तेन कल्याणि समाचारेण केन वा ।
विधूय सर्वपापानि देवलोकं त्वमागता
kena vṛttena kalyāṇi samācāreṇa kena vā |
vidhūya sarvapāpāni devalokaṃ tvamāgatā
हुताशनशिखेव त्वं ज्वलमाना स्वतेजसा ।
सुता ताराधिपस्येव प्रभया दिवमागता
hutāśanaśikheva tvaṃ jvalamānā svatejasā |
sutā tārādhipasyeva prabhayā divamāgatā
अरजांसि च वस्त्राणि धारयन्ती गतक्लमा ।
विमानस्था शुभा भासि सहस्रगुणमोजसा
arajāṃsi ca vastrāṇi dhārayantī gataklamā |
vimānasthā śubhā bhāsi sahasraguṇamojasā
न त्वमल्पेन तपसा दानेन नियमेन वा ।
इमं लोकमनुप्राप्ता त्वं हि तत्त्वं वदस्व मे
na tvamalpena tapasā dānena niyamena vā |
imaṃ lokamanuprāptā tvaṃ hi tattvaṃ vadasva me
इति पृष्टा सुमनया मधुरं चारुहासिनी ।
शाण्डिली निभृतं वाक्यं सुमनामिदमब्रवीत्
iti pṛṣṭā sumanayā madhuraṃ cāruhāsinī |
śāṇḍilī nibhṛtaṃ vākyaṃ sumanāmidamabravīt
नाहं काषायवसना नापि वल्कलधारिणी ।
न च मुण्डा च जटिला भूत्वा देवत्वमागता
nāhaṃ kāṣāyavasanā nāpi valkaladhāriṇī |
na ca muṇḍā ca jaṭilā bhūtvā devatvamāgatā
अहितानि च वाक्यानि सर्वाणि परुषाणि च ।
अप्रमत्ता च भर्तारं कदाचिन्नाहमब्रवम्
ahitāni ca vākyāni sarvāṇi paruṣāṇi ca |
apramattā ca bhartāraṃ kadācinnāhamabravam
देवतानां पितॄणां च ब्राह्मणानां च पूजने ।
अप्रमत्ता सदा युक्ता श्वश्रूश्वशुरवर्तिनी
devatānāṃ pitṝṇāṃ ca brāhmaṇānāṃ ca pūjane |
apramattā sadā yuktā śvaśrūśvaśuravartinī
पैशुन्ये न प्रवर्तामि न ममैतन्मनो गतम् ।
अद्वारि न च तिष्ठामि चिरं न कथयामि च
paiśunye na pravartāmi na mamaitanmano gatam |
advāri na ca tiṣṭhāmi ciraṃ na kathayāmi ca
असद्वा हसितं किञ्चिदहितं वाऽपि कर्मणा ।
रहस्यमरहस्यं वा न प्रवर्तामि सर्वथा
asadvā hasitaṃ kiñcidahitaṃ vā'pi karmaṇā |
rahasyamarahasyaṃ vā na pravartāmi sarvathā
कार्यार्थे निर्गतं चापि भर्तारं गृहमागतम् ।
आसनेनोपसंयोज्य पूजयामि समाहिता
kāryārthe nirgataṃ cāpi bhartāraṃ gṛhamāgatam |
āsanenopasaṃyojya pūjayāmi samāhitā
यदन्नं नाभिजानाति यद्भोज्यं नाभिनन्दति ।
भक्ष्यं वा यदि वा लेह्यं तत्सर्वं वर्जयाम्यहम्
yadannaṃ nābhijānāti yadbhojyaṃ nābhinandati |
bhakṣyaṃ vā yadi vā lehyaṃ tatsarvaṃ varjayāmyaham
कुटुंबार्थे समानीतं यत्किञ्चित्कार्यमेव तु ।
पुनरुत्थाय तत्सर्वं कारयामि करोमि च
kuṭuṃbārthe samānītaṃ yatkiñcitkāryameva tu |
punarutthāya tatsarvaṃ kārayāmi karomi ca
अग्निसंरक्षणपरा गृहशुद्धिं च कारये ।
कुमारान्पालये नित्यं कुमारीं परिशिक्षये
agnisaṃrakṣaṇaparā gṛhaśuddhiṃ ca kāraye |
kumārānpālaye nityaṃ kumārīṃ pariśikṣaye
आत्मप्रियाणि हित्वाऽपि गर्भसंरक्षणे रता ।
बालानां वर्जये नित्यं शापं कोपं प्रतापनम्
ātmapriyāṇi hitvā'pi garbhasaṃrakṣaṇe ratā |
bālānāṃ varjaye nityaṃ śāpaṃ kopaṃ pratāpanam
अविक्षिप्तानि धान्यानि नान्नविक्षेपणं गृहे ।
रक्तवत्स्पृहये गेहे गावः सयवसोदकाः ।
समुद्गम्य च शुद्धाऽहं भिक्षां दद्यां द्विजातिषु
avikṣiptāni dhānyāni nānnavikṣepaṇaṃ gṛhe |
raktavatspṛhaye gehe gāvaḥ sayavasodakāḥ |
samudgamya ca śuddhā'haṃ bhikṣāṃ dadyāṃ dvijātiṣu
प्रवासं यदि मे याति भर्ता कार्येण केनचित् ।
मङ्गलैर्बहुभिर्युक्ता भवामि नियता तदा
pravāsaṃ yadi me yāti bhartā kāryeṇa kenacit |
maṅgalairbahubhiryuktā bhavāmi niyatā tadā
अञ्जनं रोचनां चैव स्नानं माल्यानुलेपनम् ।
प्रसाधनं च निष्क्रान्ते नामिनन्दामि भर्तरि
añjanaṃ rocanāṃ caiva snānaṃ mālyānulepanam |
prasādhanaṃ ca niṣkrānte nāminandāmi bhartari
नोत्थापयामि भर्तारं सुखं सुप्तमहं सदा ।
आतुरेष्वपि कार्येषु तेन तुष्यति मे मनः ।
नोत्थापये सुखं सुप्तं ह्यातुरं पालये पतिम्
notthāpayāmi bhartāraṃ sukhaṃ suptamahaṃ sadā |
ātureṣvapi kāryeṣu tena tuṣyati me manaḥ |
notthāpaye sukhaṃ suptaṃ hyāturaṃ pālaye patim
नायासयामि भर्तारं कुटुम्बार्थेऽपि सर्वदा ।
गुप्तगुह्या सदा चास्मि सुसंमृष्टनिवेशना
nāyāsayāmi bhartāraṃ kuṭumbārthe'pi sarvadā |
guptaguhyā sadā cāsmi susaṃmṛṣṭaniveśanā
इमं धर्मपथं नारी पालयन्ती समाहिता ।
अरुन्धतीव नारीणीस्वर्गलोके महीयते
imaṃ dharmapathaṃ nārī pālayantī samāhitā |
arundhatīva nārīṇīsvargaloke mahīyate
एतदाख्याय सा देवी सुमनायै तपस्विनी ।
पतिधर्मं महाभागा जगामादर्शनं तदा
etadākhyāya sā devī sumanāyai tapasvinī |
patidharmaṃ mahābhāgā jagāmādarśanaṃ tadā
यश्चेदं पाण्डवाख्यानं पठेत्पर्वणि पर्वणि ।
स देवलोकं सम्प्राप्य नन्दने स सुखी वसेत्
yaścedaṃ pāṇḍavākhyānaṃ paṭhetparvaṇi parvaṇi |
sa devalokaṃ samprāpya nandane sa sukhī vaset
पाठ का स्रोत: Wikisource · CC BY-SA 4.0 (Wikisource transcription of a public-domain text)