अनुशासन पर्व

अध्याय 183: मैत्रेय विद्वान ब्राह्मण की महिमा कहते हैं

इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि त्र्यशीत्यधिकशततमोऽध्यायः ॥

19 श्लोक · 183 में से 274

इस अध्याय में क्या होता है

मैत्रेय विद्वान ब्राह्मण की महिमा कहते हैं

धनी कुल में जन्मे मैत्रेय व्यास की बात मानकर कुछ कहने की आज्ञा माँगते हैं। उनका सौभाग्य विद्या और तप से पवित्र महात्मा के दर्शन से ही मिला है। तप, विद्या और जन्म, तीनों मिलकर ब्राह्मण बनाते हैं; उसके तृप्त होने पर पितर और देवता भी तृप्त होते हैं। उसके बिना क्षत्रिय और वैश्य संस्कारहीन होकर नष्ट हो जाएँ और संसार अन्धकार में डूब जाए। विद्वान ब्राह्मण को दिया दान अच्छे जुते खेत में बोए बीज की तरह फल देता है। देने वाले और लेने वाले को समान पुण्य मिलता है, क्योंकि एक पहिये से रथ नहीं चलता। तप, दान और स्वाध्याय में लगे ऐसे ब्राह्मण ही स्वर्ग का देवयान मार्ग खुला रखते हैं।

भीष्म उवाच

183.1

एवमुक्तः प्रत्युवाच मैत्रेयः कर्मपूर्वकः ।
अत्यन्तं श्रीमति कुले जातः प्राज्ञो बहुश्रुतः

evamuktaḥ pratyuvāca maitreyaḥ karmapūrvakaḥ |
atyantaṃ śrīmati kule jātaḥ prājño bahuśrutaḥ

183.2

असंशयं महाप्राज्ञ यथैवात्थ तथैव तत् ।
अनुज्ञातश्च भवता किञ्चिद्ब्रूयामहं विभो

asaṃśayaṃ mahāprājña yathaivāttha tathaiva tat |
anujñātaśca bhavatā kiñcidbrūyāmahaṃ vibho

व्यास उवाच

183.3

यद्यदिच्छसि मैत्रेय यावद्यावद्यथायथा ।
ब्रूहि तत्वं महाप्राज्ञ शुश्रुषे वचनं तव

yadyadicchasi maitreya yāvadyāvadyathāyathā |
brūhi tatvaṃ mahāprājña śuśruṣe vacanaṃ tava

मैत्रेय उवाच

183.4

निर्दोषं निर्मलं चैव वचनं सत्यसंहितम् ।
विद्यातपोभ्यां हि भवान्भावितात्मा न संशयः

nirdoṣaṃ nirmalaṃ caiva vacanaṃ satyasaṃhitam |
vidyātapobhyāṃ hi bhavānbhāvitātmā na saṃśayaḥ

183.5

भवतो भावितात्मत्वाल्लाभोऽयं सुमहान्मम ।
भूयो बुद्ध्याऽनुपश्यामि सुसमृद्धतपा इव

bhavato bhāvitātmatvāllābho'yaṃ sumahānmama |
bhūyo buddhyā'nupaśyāmi susamṛddhatapā iva

183.6

अपि मे दर्शनादेव भवतोऽभ्युदयो महान् ।
मन्ये भवत्प्रसादोऽयं बुद्धिकर्मस्वभावतः

api me darśanādeva bhavato'bhyudayo mahān |
manye bhavatprasādo'yaṃ buddhikarmasvabhāvataḥ

183.7

तपः श्रुतं च योनिश्चाप्येतद्ब्राह्मण्यकारणम् ।
त्रिभिर्गुणैः समुदितः स्नातो भवति वै द्विजः

tapaḥ śrutaṃ ca yoniścāpyetadbrāhmaṇyakāraṇam |
tribhirguṇaiḥ samuditaḥ snāto bhavati vai dvijaḥ

183.8

अस्मिंस्तृप्ते च तृप्यन्ति पितरो दैवतानि च ।
न हि श्रुतवतां किञ्चिदधिकं ब्राह्मणादृते

asmiṃstṛpte ca tṛpyanti pitaro daivatāni ca |
na hi śrutavatāṃ kiñcidadhikaṃ brāhmaṇādṛte

183.9

असंस्कारात्क्षत्रवैश्यौ नश्येते ब्राह्मणादृते ।
शूद्रो नश्यत्यशुश्रूषुराश्रमाणां यथार्हतः

asaṃskārātkṣatravaiśyau naśyete brāhmaṇādṛte |
śūdro naśyatyaśuśrūṣurāśramāṇāṃ yathārhataḥ

183.10

[अन्धं स्यात्तम एवेदं न प्रज्ञायेत किञ्चन ।
चातुर्वर्ण्यं न वर्तेत धर्माधर्मावृतानृते ॥]

[andhaṃ syāttama evedaṃ na prajñāyeta kiñcana |
cāturvarṇyaṃ na varteta dharmādharmāvṛtānṛte ||]

183.11

यथाहि सुकृते क्षेत्रे फलं विन्दति मानवः ।
एवं दत्त्वा श्रुतवते फलं दाता समश्नुते

yathāhi sukṛte kṣetre phalaṃ vindati mānavaḥ |
evaṃ dattvā śrutavate phalaṃ dātā samaśnute

183.12

ब्राह्मणश्चेन्न विन्देत श्रुतवृत्तोपसंहितः ।
प्रतिग्रहीता दानस्य मोघं स्याद्धनिनां धनम्

brāhmaṇaścenna vindeta śrutavṛttopasaṃhitaḥ |
pratigrahītā dānasya moghaṃ syāddhanināṃ dhanam

183.13

अन्नं ह्यविद्वान्हन्त्येवमविद्वांसं च हन्ति तत् ।
तच्चान्यं हन्ति यच्चान्यत्स भुक्त्वा हन्यतेऽबुधः

annaṃ hyavidvānhantyevamavidvāṃsaṃ ca hanti tat |
taccānyaṃ hanti yaccānyatsa bhuktvā hanyate'budhaḥ

183.14

प्राहुर्ह्यन्नमदन्विद्वान्पुनर्जनयतीश्वरः ।
स चान्नाज्जायते तस्मात्सूक्ष्म एष व्यतिक्रमः

prāhurhyannamadanvidvānpunarjanayatīśvaraḥ |
sa cānnājjāyate tasmātsūkṣma eṣa vyatikramaḥ

183.15

ब्राह्मं ह्यनुपयोगी यो ददंश्चान्नमसंशयम् ।
यस्तारयति वै विद्वान्पितॄन्देवान्सदाऽमृतान्

brāhmaṃ hyanupayogī yo dadaṃścānnamasaṃśayam |
yastārayati vai vidvānpitṝndevānsadā'mṛtān

183.16

यदेव ददतः पुण्यं तदेव प्रतिगृह्णतः ।
न ह्येकचक्रं वर्तेत इत्येवमृषयो विदुः

yadeva dadataḥ puṇyaṃ tadeva pratigṛhṇataḥ |
na hyekacakraṃ varteta ityevamṛṣayo viduḥ

183.17

यत्र वै ब्राह्मणाः सन्ति श्रुतवृत्तोपसंहिताः ।
तत्र दानफलं पुण्यमिह चामुत्र चाश्नुते

yatra vai brāhmaṇāḥ santi śrutavṛttopasaṃhitāḥ |
tatra dānaphalaṃ puṇyamiha cāmutra cāśnute

183.18

ये योनिशुद्धाः सततं तपस्यभिरता भृशम् ।
दानाध्ययनसम्पन्नास्ते वै पूज्यतमाः सदा

ye yoniśuddhāḥ satataṃ tapasyabhiratā bhṛśam |
dānādhyayanasampannāste vai pūjyatamāḥ sadā

183.19

तैर्हि सद्भिः कृतः पन्था देवयानो न मुह्यते ।
ते हि स्वर्गस्य नेतारो यज्ञवाहाः सनातनाः

tairhi sadbhiḥ kṛtaḥ panthā devayāno na muhyate |
te hi svargasya netāro yajñavāhāḥ sanātanāḥ

पाठ का स्रोत: Wikisource · CC BY-SA 4.0 (Wikisource transcription of a public-domain text)