अनुशासन पर्व

अध्याय 149: सेवक का आचरण और प्रायश्चित्त

इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि एकोनपञ्चाशदधिकशततमोऽध्यायः ॥

26 श्लोक · 149 में से 274

इस अध्याय में क्या होता है

सेवक का आचरण और प्रायश्चित्त

पराशर कहते हैं, सेवक भिक्षु का अपराध न करे, उलटा उत्तर न दे, और वे क्रुद्ध हों तो मौन से शान्त करे। स्थावर और जङ्गम सब पर दया करे, अपने को सब प्राणियों में और सब प्राणियों को अपने में देखे। जरायुज, अण्डज, उद्भिज्ज, स्वेदज, कोई प्राणी वध योग्य नहीं, और हिंसा के प्रायश्चित्त बताए गए हैं: बिना हड्डी वाले जीव को मारने पर एक दिन उपवास, बारह प्राणायाम और तीन स्नान, हड्डी वाले के लिए दुगुना। स्त्री-सम्बन्धी आरोप लगे सेवक के लिए ग्रन्थ एक वर्ष खुले आकाश के नीचे सोना अथवा घास की आग में जलना या लिङ्गच्छेद बताता है। कर्म से किया पाप चौगुना, वाणी से दुगुना गिना जाता है। वह मृत्यु का न स्वागत करे न भय, जैसे मजदूर मजदूरी की प्रतीक्षा करता है।

पराशर उवाच

149.1

एवं प्रयतितव्यं हि शुश्रूषार्थमतन्द्रितैः ।
सर्वाभिरूपसेवाभिस्तुष्यन्ति यतयो यथा

evaṃ prayatitavyaṃ hi śuśrūṣārthamatandritaiḥ |
sarvābhirūpasevābhistuṣyanti yatayo yathā

149.2

नापराध्येत भिक्षोस्तु न चैनमवधीरयेत् ।
उत्तरं च न सन्दद्यात्क्रुद्धं चैव प्रसादयेत्

nāparādhyeta bhikṣostu na cainamavadhīrayet |
uttaraṃ ca na sandadyātkruddhaṃ caiva prasādayet

149.3

श्रेय एवाभिधातव्यं कर्तव्यं च प्रहृष्टवत् ।
तूष्णींभावेन वै तत्र न क्रुद्धमभिसंवदेत्

śreya evābhidhātavyaṃ kartavyaṃ ca prahṛṣṭavat |
tūṣṇīṃbhāvena vai tatra na kruddhamabhisaṃvadet

149.4

नाददीत परस्वानि न गृह्णीयादयाचितम् ।
लब्धालब्धेन जीवेत तथैव परितोषयेत्

nādadīta parasvāni na gṛhṇīyādayācitam |
labdhālabdhena jīveta tathaiva paritoṣayet

149.5

कोपिनं तु न याचेत ज्ञानविद्वेषकारितः ।
स्थावरेषु दयां कुर्याज्जङ्गमेषु चु प्राणिषु

kopinaṃ tu na yāceta jñānavidveṣakāritaḥ |
sthāvareṣu dayāṃ kuryājjaṅgameṣu cu prāṇiṣu

149.6

यथाऽऽत्मनि तथाऽन्येषु समां दृष्टिं निपातयेत् ।
सर्वभूतेषु चात्मानं सर्वभूतानि चात्मनि ।
सम्पश्यमानो विचरन्ब्रह्मभूयाय कल्पते

yathā''tmani tathā'nyeṣu samāṃ dṛṣṭiṃ nipātayet |
sarvabhūteṣu cātmānaṃ sarvabhūtāni cātmani |
sampaśyamāno vicaranbrahmabhūyāya kalpate

149.7

हिंसा वा यदि वाऽहिंसां न कुर्यादात्मकारणात् ।
यत्रेतरो भवेन्नित्यं दोषं तत्र न कारयेत्

hiṃsā vā yadi vā'hiṃsāṃ na kuryādātmakāraṇāt |
yatretaro bhavennityaṃ doṣaṃ tatra na kārayet

149.8

एवं स मुच्यते दोषात्परानाश्रित्य वर्तयन् ।
आत्माश्रयेण दोषेण लिप्यते ह्यल्पबुद्धिमान्

evaṃ sa mucyate doṣātparānāśritya vartayan |
ātmāśrayeṇa doṣeṇa lipyate hyalpabuddhimān

149.9

जरायुजाण्डजाश्चैव उद्भिज्जाः स्वेदजाश्व ये ।
अवध्याः सर्व एतैते बुधैः समनुवर्णिताः

jarāyujāṇḍajāścaiva udbhijjāḥ svedajāśva ye |
avadhyāḥ sarva etaite budhaiḥ samanuvarṇitāḥ

149.10

निश्चयार्थं विबुद्धानां प्रायश्चित्तं विधीयते ।
हिंसा यथाऽन्या विहिता तथा दोष प्रयोजयेत् ।
तथोपदिष्टं गुरुणा शिष्यस्य चरतो विधिम्

niścayārthaṃ vibuddhānāṃ prāyaścittaṃ vidhīyate |
hiṃsā yathā'nyā vihitā tathā doṣa prayojayet |
tathopadiṣṭaṃ guruṇā śiṣyasya carato vidhim

149.11

न हि लोभः प्रभवति हिंसा वाऽपि तदात्मिका ।
शास्त्रदर्शनमेतद्धि विहितं विश्वयोनिना

na hi lobhaḥ prabhavati hiṃsā vā'pi tadātmikā |
śāstradarśanametaddhi vihitaṃ viśvayoninā

149.12

यद्येतदेवं मन्येत शूद्रो ह्यपि च बुद्धिमान् ।
कृतं कृतवतां गच्छेत्किं पुनर्यो निषेवते

yadyetadevaṃ manyeta śūdro hyapi ca buddhimān |
kṛtaṃ kṛtavatāṃ gacchetkiṃ punaryo niṣevate

149.13

न शूद्रः पतते कश्चिन्न च संस्कारमर्हति ।
नास्याधिकारो धर्मेऽस्ति न धर्मात्प्रतिषेधनम्

na śūdraḥ patate kaścinna ca saṃskāramarhati |
nāsyādhikāro dharme'sti na dharmātpratiṣedhanam

149.14

अनुग्रहार्तं मनुना सर्ववर्णेषु वर्णितम् ।

anugrahārtaṃ manunā sarvavarṇeṣu varṇitam |

149.15

यदापवादस्तु भवेत्स्त्रीकृतः परिचारके ।
अभ्रावकाशशयनं तस्य संवत्सरं स्मृतम् ।
तेन तस्य भवेच्छान्तिस्ततो भूयोप्युपाव्रजेत्

yadāpavādastu bhavetstrīkṛtaḥ paricārake |
abhrāvakāśaśayanaṃ tasya saṃvatsaraṃ smṛtam |
tena tasya bhavecchāntistato bhūyopyupāvrajet

149.16

सवर्णाया भवेदेतद्धीनायास्त्वर्धमर्हति ।
वर्षत्रयं तु वैश्यायाः क्षत्रियायास्तु षट् समाः ।
ब्राह्मण्या तु समेतस्य समा द्वादश कीर्तिताः ।

savarṇāyā bhavedetaddhīnāyāstvardhamarhati |
varṣatrayaṃ tu vaiśyāyāḥ kṣatriyāyāstu ṣaṭ samāḥ |
brāhmaṇyā tu sametasya samā dvādaśa kīrtitāḥ |

149.17

कटाग्निना वा दग्धव्यस्तस्मिन्नेव क्षणे भवेत् ।
शिश्नावपातनाद्वाऽपि विशुद्धिं समवाप्नुयात्

kaṭāgninā vā dagdhavyastasminneva kṣaṇe bhavet |
śiśnāvapātanādvā'pi viśuddhiṃ samavāpnuyāt

149.18

अनस्थिबन्धमेकं तु यदि प्राणैर्वियोजयेत् ।
उपोष्यैकाहमादद्यात्प्राणायामांस्तु द्वादश

anasthibandhamekaṃ tu yadi prāṇairviyojayet |
upoṣyaikāhamādadyātprāṇāyāmāṃstu dvādaśa

149.19

त्रिः स्नानमुदके कृत्वा तस्मात्पापात्प्रमुच्यते ।
अस्थिबन्धेषु द्विगुणं प्रायश्चित्तं विधीयते

triḥ snānamudake kṛtvā tasmātpāpātpramucyate |
asthibandheṣu dviguṇaṃ prāyaścittaṃ vidhīyate

149.20

अनेन विधिना वाऽपि स्थावरेषु न संशयः ।
कायेन पद्भ्यां हस्ताभ्यामपराधात्तु मुच्यते

anena vidhinā vā'pi sthāvareṣu na saṃśayaḥ |
kāyena padbhyāṃ hastābhyāmaparādhāttu mucyate

149.21

अदुष्टं क्षपयेद्यस्तु सर्ववर्णेषु यश्चरेत् ।
तस्याप्यष्टगुणं विद्यात्प्रायश्चित्तं तदेव तु

aduṣṭaṃ kṣapayedyastu sarvavarṇeṣu yaścaret |
tasyāpyaṣṭaguṇaṃ vidyātprāyaścittaṃ tadeva tu

149.22

चतुर्गुणं कर्मकृते द्विगुणं वाक्प्रदूषिते ।
कृत्वा तु मानसं पापं तथैवैकगुणं स्मृतम्

caturguṇaṃ karmakṛte dviguṇaṃ vākpradūṣite |
kṛtvā tu mānasaṃ pāpaṃ tathaivaikaguṇaṃ smṛtam

149.23

तस्मादेतानि सर्वाणि विदित्वा न समाचरेत् ।
सर्वभूतहितार्थं हि कुशलानि समाचरेत्

tasmādetāni sarvāṇi viditvā na samācaret |
sarvabhūtahitārthaṃ hi kuśalāni samācaret

149.24

एवं समाहितमनाः सेवते यदि यत्तमान् ।
तद्गतिस्तत्समाचारस्तन्मनास्तत्परायणः

evaṃ samāhitamanāḥ sevate yadi yattamān |
tadgatistatsamācārastanmanāstatparāyaṇaḥ

149.25

नाभिनन्देत मरणं नाभिनन्देत जीवितम् ।
कालमेव प्रतीक्षेत निर्वेशं भृतको यथा

nābhinandeta maraṇaṃ nābhinandeta jīvitam |
kālameva pratīkṣeta nirveśaṃ bhṛtako yathā

149.26

एवं प्रवर्तमानस्तु विनीतः प्रयतात्मवान् ।
निर्णयं पुण्यपापाभ्यामचिरेणोपगच्छति

evaṃ pravartamānastu vinītaḥ prayatātmavān |
nirṇayaṃ puṇyapāpābhyāmacireṇopagacchati

पाठ का स्रोत: Wikisource · CC BY-SA 4.0 (Wikisource transcription of a public-domain text)