यमस्तु यानि श्राद्धानि प्रोवाच शशबिन्दवे ।
तानि मे शृणु काम्यानि नक्षत्रेषु पृथक्पृथक्
yamastu yāni śrāddhāni provāca śaśabindave |
tāni me śṛṇu kāmyāni nakṣatreṣu pṛthakpṛthak
इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि षट्त्रिंशदधिकशततमोऽध्यायः ॥
15 श्लोक · 136 में से 274
भीष्म यम का वह उपदेश दोहराते हैं जो उन्होंने राजा शशबिन्दु को नक्षत्रानुसार श्राद्ध पर दिया था। कृत्तिका में श्राद्ध करने वाला सन्तान सहित निश्चिन्त होकर अग्निहोत्र करता है। रोहिणी से सन्तान, मृगशिरा से तेज, आर्द्रा से कठोर कर्म, पुनर्वसु से खेती, पुष्य से पुष्टि, आश्लेषा से धीर पुत्र, मघा से कुटुम्ब में श्रेष्ठता, पूर्वाफाल्गुनी से सौभाग्य, हस्त से फल, चित्रा से रूपवान पुत्र, स्वाती से व्यापार, विशाखा से बहुत पुत्र, अनुराधा से राजसत्ता, ज्येष्ठा से आधिपत्य, मूल से आरोग्य और आषाढ़ा से यश मिलता है। उत्तराषाढ़ा शोक दूर करती है, अभिजित श्रेष्ठ विद्या देता है, श्रवण उत्तम गति, धनिष्ठा राज्य, शतभिषा चिकित्सा में सिद्धि, भाद्रपदा बकरी, भेड़ और सहस्रों गौएँ, रेवती धातु का धन, अश्विनी घोड़े और भरणी दीर्घ आयु। शशबिन्दु ने यही किया और बिना क्लेश पृथ्वी जीती।
भीष्म उवाच
यमस्तु यानि श्राद्धानि प्रोवाच शशबिन्दवे ।
तानि मे शृणु काम्यानि नक्षत्रेषु पृथक्पृथक्
yamastu yāni śrāddhāni provāca śaśabindave |
tāni me śṛṇu kāmyāni nakṣatreṣu pṛthakpṛthak
श्राद्धं यः कृत्तिकायोगे कुर्वीत सततं नरः ।
अग्नीनाधाय सापत्यो यजेत विगतज्वरः
śrāddhaṃ yaḥ kṛttikāyoge kurvīta satataṃ naraḥ |
agnīnādhāya sāpatyo yajeta vigatajvaraḥ
अपत्यकामो रोहिण्यां तेजस्कामो मृगोत्तमे ।
क्रूरकर्मा ददच्छ्राद्धमार्द्रायां मानवो भवेत्
apatyakāmo rohiṇyāṃ tejaskāmo mṛgottame |
krūrakarmā dadacchrāddhamārdrāyāṃ mānavo bhavet
कृषिभागी भवेन्मर्त्यः कुर्वञ्श्राद्धं पुनर्वसौ ।
पुष्टिकामोऽथ पुष्येण श्राद्धमीहेत मानवः
kṛṣibhāgī bhavenmartyaḥ kurvañśrāddhaṃ punarvasau |
puṣṭikāmo'tha puṣyeṇa śrāddhamīheta mānavaḥ
आश्लेषायां ददच्छ्राद्धं धीरान्पुत्रान्प्रजायते ।
ज्ञातीनां तु भवेच्छ्रेष्ठो मघासु श्राद्धमावपन्
āśleṣāyāṃ dadacchrāddhaṃ dhīrānputrānprajāyate |
jñātīnāṃ tu bhavecchreṣṭho maghāsu śrāddhamāvapan
फल्गुनीषु ददच्छ्राद्धं सुभगः श्राद्धदो भवेत् ।
अपत्यभागुत्तरासु हस्तेन फलभाग्भवेत्
phalgunīṣu dadacchrāddhaṃ subhagaḥ śrāddhado bhavet |
apatyabhāguttarāsu hastena phalabhāgbhavet
चित्रायां तु ददच्छ्राद्धं लभेद्रूपवतः सुतान् ।
स्वातियोगे पितॄनर्च्य वाणिज्यमुपजीवति
citrāyāṃ tu dadacchrāddhaṃ labhedrūpavataḥ sutān |
svātiyoge pitṝnarcya vāṇijyamupajīvati
बहुपुत्रो विशाखासु पुत्रमीनहन्भवेन्नरः ।
अनुराधासु कुर्वाणो राज्यचक्रं प्रवर्तयेत्
bahuputro viśākhāsu putramīnahanbhavennaraḥ |
anurādhāsu kurvāṇo rājyacakraṃ pravartayet
आधिपत्यं व्रजेन्मर्त्यो ज्येष्ठायामपवर्जयन् ।
नरः कुरुकुलश्रेष्ठ ऋद्धो दमपुरःसरः
ādhipatyaṃ vrajenmartyo jyeṣṭhāyāmapavarjayan |
naraḥ kurukulaśreṣṭha ṛddho damapuraḥsaraḥ
मूले त्वारोग्यमृच्छेत यशोऽषाढासु चोत्तमम् ।
उत्तरासु त्वषाढासु वीतशोकश्चरेन्महीम्
mūle tvārogyamṛccheta yaśo'ṣāḍhāsu cottamam |
uttarāsu tvaṣāḍhāsu vītaśokaścarenmahīm
श्राद्धं त्वभिजितौ कुर्वन्विद्यां श्रेष्ठामवाप्नुयात् ।
श्रवणेषु ददच्छ्राद्धं प्रेत्य गच्छेत्स तद्गतिम्
śrāddhaṃ tvabhijitau kurvanvidyāṃ śreṣṭhāmavāpnuyāt |
śravaṇeṣu dadacchrāddhaṃ pretya gacchetsa tadgatim
राज्यभागी धनिष्ठायां भवेत नियतं नरः ।
नक्षत्रे वारुणे कुर्वन्भिषक्सिद्धिमवाप्नुयात्
rājyabhāgī dhaniṣṭhāyāṃ bhaveta niyataṃ naraḥ |
nakṣatre vāruṇe kurvanbhiṣaksiddhimavāpnuyāt
पूर्वप्रोष्ठपदाः कुर्वन्बहून्विन्दत्यजाविकान् ।
उत्तरासु प्रकुर्वाणो विन्दो गाः सहस्रशः
pūrvaproṣṭhapadāḥ kurvanbahūnvindatyajāvikān |
uttarāsu prakurvāṇo vindo gāḥ sahasraśaḥ
बहुकुप्यकृतं वित्तं विन्दते रेवतीं श्रितः ।
अश्विनीष्वश्वान्विन्देत भरणीष्वायुरुत्तमम्
bahukupyakṛtaṃ vittaṃ vindate revatīṃ śritaḥ |
aśvinīṣvaśvānvindeta bharaṇīṣvāyuruttamam
इमं श्राद्धविधिं श्रुत्वा शशबिन्दुस्तथाऽकरोत् ।
अक्लेसेनाजयच्चापि महीं सोऽनुशशास ह
imaṃ śrāddhavidhiṃ śrutvā śaśabindustathā'karot |
aklesenājayaccāpi mahīṃ so'nuśaśāsa ha
पाठ का स्रोत: Wikisource · CC BY-SA 4.0 (Wikisource transcription of a public-domain text)