चातुर्वर्ण्यस्य धर्मात्मन्धर्माः प्रोक्ता यथा त्वया ।
तथैव मे श्राद्धविधिं कृत्स्नं प्रब्रूहि पार्थिव
cāturvarṇyasya dharmātmandharmāḥ proktā yathā tvayā |
tathaiva me śrāddhavidhiṃ kṛtsnaṃ prabrūhi pārthiva
इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि चतुस्त्रिंशदधिकशततमोऽध्यायः ॥
21 श्लोक · 134 में से 274
युधिष्ठिर श्राद्ध की पूरी विधि पूछते हैं। भीष्म कहते हैं कि सब प्राणी पितरों का पूजन करते हैं, और उन्हें पहले पूजना चाहिए, क्योंकि तब देवता भी तृप्त होते हैं। अग्निहोत्री द्विज अमावस्या को पिण्डों सहित मासिक अन्वाहार्य श्राद्ध करे। फिर वे हर तिथि का फल बताते हैं: प्रतिपदा पर सुन्दर और बहुत सन्तान वाली पत्नियाँ, द्वितीया पर कन्याएँ, तृतीया पर घोड़े, चतुर्थी पर छोटे पशु, पञ्चमी पर बहुत पुत्र, और आगे क्रम से तेज, खेती, व्यापार में लाभ, एक खुर वाले पशु, गौएँ, धातु के पात्र और ब्रह्मतेजस्वी पुत्र, चाँदी और सोना, और कुटुम्ब में श्रेष्ठता। चतुर्दशी युद्ध में भाग देती है पर घर के युवक मरते हैं। अमावस्या सब कामनाएँ पूरी करती है। कृष्णपक्ष की दशमी से आगे की तिथियाँ श्रेष्ठ हैं, और अपराह्न पूर्वाह्न से उत्तम है।
युधिष्ठिर उवाच
चातुर्वर्ण्यस्य धर्मात्मन्धर्माः प्रोक्ता यथा त्वया ।
तथैव मे श्राद्धविधिं कृत्स्नं प्रब्रूहि पार्थिव
cāturvarṇyasya dharmātmandharmāḥ proktā yathā tvayā |
tathaiva me śrāddhavidhiṃ kṛtsnaṃ prabrūhi pārthiva
वैशम्पायन उवाच
युधिष्ठिरेणैवमुक्तो भीष्मः शान्तनवस्तदा ।
इमं श्राद्धविधिं कृत्स्नं वक्तुं समुपचक्रमे
yudhiṣṭhireṇaivamukto bhīṣmaḥ śāntanavastadā |
imaṃ śrāddhavidhiṃ kṛtsnaṃ vaktuṃ samupacakrame
भीष्म उवाच
शृणुष्वावहितो राजञ्श्राद्धकर्मविधिं शुभम् ।
धन्यं यशस्यं पुत्रीयं पितृयज्ञं परन्तप
śṛṇuṣvāvahito rājañśrāddhakarmavidhiṃ śubham |
dhanyaṃ yaśasyaṃ putrīyaṃ pitṛyajñaṃ parantapa
देवासुरमनुष्याणां गन्धर्वोरगरक्षसाम् ।
पिशाचकिन्नराणां च पूज्या वै पितरः सदा
devāsuramanuṣyāṇāṃ gandharvoragarakṣasām |
piśācakinnarāṇāṃ ca pūjyā vai pitaraḥ sadā
पितॄन्पूज्यादितः पश्चाद्देवतास्तर्पयन्ति वै ।
तस्मात्तान्सर्वयत्नेन पुरुषः पूजयेत्सदा
pitṝnpūjyāditaḥ paścāddevatāstarpayanti vai |
tasmāttānsarvayatnena puruṣaḥ pūjayetsadā
अन्वाहार्यं महाराज पितॄणां श्राद्धमुच्यते ।
तस्माद्विशेषविधिना विधिः प्रथमकल्पितः
anvāhāryaṃ mahārāja pitṝṇāṃ śrāddhamucyate |
tasmādviśeṣavidhinā vidhiḥ prathamakalpitaḥ
सर्वेष्वहःसु प्रीयन्ते कृते श्राद्धे पितामहाः ।
पिण्डान्वाहार्यकं श्राद्धं कुर्यान्मासानुमासिकम् ।
पितृयज्ञं तु निर्वर्त्य विप्रश्चन्द्रक्षयेऽग्निमान्
sarveṣvahaḥsu prīyante kṛte śrāddhe pitāmahāḥ |
piṇḍānvāhāryakaṃ śrāddhaṃ kuryānmāsānumāsikam |
pitṛyajñaṃ tu nirvartya vipraścandrakṣaye'gnimān
पिण्डानां मासिकश्राद्धमन्वाहार्यं विदुर्बुधाः ।
तदामिषेण कुर्वीत प्रयतः प्राञ्जलिः शुचिः
piṇḍānāṃ māsikaśrāddhamanvāhāryaṃ vidurbudhāḥ |
tadāmiṣeṇa kurvīta prayataḥ prāñjaliḥ śuciḥ
प्रवक्ष्यामि तु ते सर्वांस्तिथ्यांतिथ्यां दिने गुणान् ।
येष्वहःसु कृतैः श्राद्धैर्यत्फलं प्राप्यतेऽनघ ।
तत्सर्वं कीर्तयिष्यामि यथावत्तन्निबोध मे
pravakṣyāmi tu te sarvāṃstithyāṃtithyāṃ dine guṇān |
yeṣvahaḥsu kṛtaiḥ śrāddhairyatphalaṃ prāpyate'nagha |
tatsarvaṃ kīrtayiṣyāmi yathāvattannibodha me
पितॄनर्च्य प्रतिपदि प्राप्नुयात्स्वगृहे स्त्रियः ।
अभिरूपप्रजायिन्यो दर्शनीया बहुप्रजाः
pitṝnarcya pratipadi prāpnuyātsvagṛhe striyaḥ |
abhirūpaprajāyinyo darśanīyā bahuprajāḥ
स्त्रियो द्वितीयां जायन्ते तृतीयायां तु वाजिनः ।
चतुर्थ्यां क्षुद्रपशवो भवन्ति बहवो गृहे
striyo dvitīyāṃ jāyante tṛtīyāyāṃ tu vājinaḥ |
caturthyāṃ kṣudrapaśavo bhavanti bahavo gṛhe
पञ्चम्यां बहवः पुत्रा जायन्ते कुर्वतां नृप ।
कुर्वाणास्तु नराः षष्ठ्यां भवन्ति द्युतिभागिनः
pañcamyāṃ bahavaḥ putrā jāyante kurvatāṃ nṛpa |
kurvāṇāstu narāḥ ṣaṣṭhyāṃ bhavanti dyutibhāginaḥ
कृषिभागी भवेच्छ्राद्धं कुर्वाणः सप्तमीं नृप ।
अष्टम्यां तु प्रकुर्वाणो वाणिज्ये लाभमाप्नुयात्
kṛṣibhāgī bhavecchrāddhaṃ kurvāṇaḥ saptamīṃ nṛpa |
aṣṭamyāṃ tu prakurvāṇo vāṇijye lābhamāpnuyāt
नवम्यां कुर्वतः श्राद्धं भवत्येकशफं बहु ।
विवर्धन्ते तु दशमीं गावः श्राद्धानि कुर्वतः
navamyāṃ kurvataḥ śrāddhaṃ bhavatyekaśaphaṃ bahu |
vivardhante tu daśamīṃ gāvaḥ śrāddhāni kurvataḥ
कुप्यभागी भवेन्मर्त्यः कुर्वन्नेकादशीं नृप ।
ब्रह्मवर्चस्विनः पुत्रा जायन्ते तस्य वेश्मनि
kupyabhāgī bhavenmartyaḥ kurvannekādaśīṃ nṛpa |
brahmavarcasvinaḥ putrā jāyante tasya veśmani
द्वादश्यामीहमानस्य नित्यमेव प्रदृश्यते ।
रजतं बहुवित्तं च सुवर्णं च मनोरमम्
dvādaśyāmīhamānasya nityameva pradṛśyate |
rajataṃ bahuvittaṃ ca suvarṇaṃ ca manoramam
ज्ञातीनां तु भवेच्छ्रेष्ठः कुर्वञ्श्राद्धं त्रयोदशीम्
jñātīnāṃ tu bhavecchreṣṭhaḥ kurvañśrāddhaṃ trayodaśīm
अवश्यं तु युवानोऽस्य प्रमीयन्ते नरा गृहे ।
युद्धभागी भवेन्मर्त्यः कुर्वञ्श्राद्धं चतुर्दशीम्
avaśyaṃ tu yuvāno'sya pramīyante narā gṛhe |
yuddhabhāgī bhavenmartyaḥ kurvañśrāddhaṃ caturdaśīm
अमावास्यां तु निवपन्सर्वकामानवाप्नुयात्
amāvāsyāṃ tu nivapansarvakāmānavāpnuyāt
कृष्णपक्षे दशम्यादौ वर्जयित्वा चतुर्दशीम् ।
श्राद्धकर्मणि तिथ्यस्तु प्रशस्ता न तथेतराः
kṛṣṇapakṣe daśamyādau varjayitvā caturdaśīm |
śrāddhakarmaṇi tithyastu praśastā na tathetarāḥ
यथा चैवापरः पक्षः पूर्वपक्षाद्विशिष्यते ।
तथा श्राद्धस्य पूर्वाह्णादपराह्णो विशिष्यते
yathā caivāparaḥ pakṣaḥ pūrvapakṣādviśiṣyate |
tathā śrāddhasya pūrvāhṇādaparāhṇo viśiṣyate
पाठ का स्रोत: Wikisource · CC BY-SA 4.0 (Wikisource transcription of a public-domain text)