अनुशासन पर्व

अध्याय 113: वसिष्ठ सौदास को गौमहिमा बताते हैं

इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि त्रयोदशाधिकशततमोऽध्यायः ॥

26 श्लोक · 113 में से 274

इस अध्याय में क्या होता है

वसिष्ठ सौदास को गौमहिमा बताते हैं

भीष्म बताते हैं कि इक्ष्वाकुवंशी राजा सौदास ने पुरोहित वसिष्ठ से पूछा कि किसका कीर्तन सबसे पवित्र करता है। वसिष्ठ गायों को नमस्कार कर गवोपनिषद् सुनाते हैं। गायें गुग्गुल जैसी सुगन्धवाली हैं, सब प्राणियों का आधार और लक्ष्मी का मूल हैं, उन्हें दिया हुआ नष्ट नहीं होता। स्वाहा और वषट्कार उन्हीं में प्रतिष्ठित हैं। दस गायोंवाला एक दे, सौवाला दस, हज़ारवाला सौ, सबका फल बराबर है। बछड़े, काँसे के दोहनपात्र और वस्त्र सहित कपिला देनेवाला दोनों लोक जीतता है। सोते और उठते गायों का कीर्तन करे, सुबह शाम प्रणाम करे, उनके गोबर से घृणा न करे और उनका मांस कभी न खाए। अन्तिम प्रार्थना है: जहाँ गायें हैं, वहीं हम हैं।

वैशम्पायन उवाच

113.1

एवमुक्त्वा ततो भीष्मः पुनर्धर्मसुतं नृपम् ।
जनमेजयभूपाल उवाचेदं सहेतुकम्

evamuktvā tato bhīṣmaḥ punardharmasutaṃ nṛpam |
janamejayabhūpāla uvācedaṃ sahetukam

113.2

एतस्मिन्नेव काले तु वसिष्ठमृषिसत्तमम् ।
इक्ष्वाकुवंशजो राजा सौदासो वदतां वरः

etasminneva kāle tu vasiṣṭhamṛṣisattamam |
ikṣvākuvaṃśajo rājā saudāso vadatāṃ varaḥ

113.3

सर्वलोकचरं सिद्धं ब्रह्मकोशं सनातनम् ।
पुरोहितमभिप्रष्टुमभिवाद्योपचक्रमे

sarvalokacaraṃ siddhaṃ brahmakośaṃ sanātanam |
purohitamabhipraṣṭumabhivādyopacakrame

113.4

त्रैलोक्ये भगवन्किंस्वित्पवित्रं कथ्यतेऽनघ ।
यत्कीर्तयन्सदा मर्त्यः प्राप्नुयात्पुण्यमुत्तमम्

trailokye bhagavankiṃsvitpavitraṃ kathyate'nagha |
yatkīrtayansadā martyaḥ prāpnuyātpuṇyamuttamam

भीष्म उवाच

113.5

तस्मै प्रोवाच वचनं प्रणताय हितं तदा ।
गवामुपनिषद्विद्यां नमस्कृत्य गवां शुचिः

tasmai provāca vacanaṃ praṇatāya hitaṃ tadā |
gavāmupaniṣadvidyāṃ namaskṛtya gavāṃ śuciḥ

113.6

गावः सुरभिगन्धिन्यस्तथा गुग्गुलुगन्धयः ।
गावः प्रतिष्ठा भूतानां गावः स्वस्त्ययनं महत्

gāvaḥ surabhigandhinyastathā guggulugandhayaḥ |
gāvaḥ pratiṣṭhā bhūtānāṃ gāvaḥ svastyayanaṃ mahat

113.7

गावो भूतं च भव्यं च गावः पुष्टिः सनातनी ।
गावो लक्ष्म्यास्तथा मूलं गोषु दत्तं न नश्यति

gāvo bhūtaṃ ca bhavyaṃ ca gāvaḥ puṣṭiḥ sanātanī |
gāvo lakṣmyāstathā mūlaṃ goṣu dattaṃ na naśyati

113.8

अन्नं हि परमं गावो देवानां परमं हविः ।
स्वाहाकारवषट्कारौ गोषु नित्यं प्रतिष्ठितौ

annaṃ hi paramaṃ gāvo devānāṃ paramaṃ haviḥ |
svāhākāravaṣaṭkārau goṣu nityaṃ pratiṣṭhitau

113.9

गावो यज्ञस्य हि फलं गोषु यज्ञाः प्रतिष्ठिताः ।
गावो भविष्यं भूतं च गोषु यज्ञाः प्रतिष्ठिताः

gāvo yajñasya hi phalaṃ goṣu yajñāḥ pratiṣṭhitāḥ |
gāvo bhaviṣyaṃ bhūtaṃ ca goṣu yajñāḥ pratiṣṭhitāḥ

113.10

सायं प्रातश्च सततं होमकाले महाद्युते ।
गावो ददति वै हौम्यमृषिभ्यः पुरुषर्षभ

sāyaṃ prātaśca satataṃ homakāle mahādyute |
gāvo dadati vai haumyamṛṣibhyaḥ puruṣarṣabha

113.11

यानि कानि च दुर्गाणि दुष्कृतानि कृतानि च ।
तरन्ति चैव पाप्मानं धेनुं ये ददति प्रभो

yāni kāni ca durgāṇi duṣkṛtāni kṛtāni ca |
taranti caiva pāpmānaṃ dhenuṃ ye dadati prabho

113.12

एकां च दशगुर्दद्याद्दश दद्याच्च गोशती ।
शतं सहस्रगुर्दद्यात्सर्वे तुल्यफला हि ते

ekāṃ ca daśagurdadyāddaśa dadyācca gośatī |
śataṃ sahasragurdadyātsarve tulyaphalā hi te

113.13

अनाहिताग्निः शतगुरयज्वा च सहस्रगुः ।
समृद्धो यश्च कीनाशो नार्घमर्हन्ति ते त्रयः

anāhitāgniḥ śatagurayajvā ca sahasraguḥ |
samṛddho yaśca kīnāśo nārghamarhanti te trayaḥ

113.14

कपिलां ये प्रयच्छन्ति सवत्सां कांस्यदोहनाम् ।
सुव्रतां वस्त्रसंवीतामुभौ लोकौ जयन्ति ते

kapilāṃ ye prayacchanti savatsāṃ kāṃsyadohanām |
suvratāṃ vastrasaṃvītāmubhau lokau jayanti te

113.15

युवानमिन्द्रियोपेतं शतेन सहयूथपम् ।
गवेन्द्रं ब्राह्मणेन्द्राय भूरिशृङ्गमलङ्कृतम्

yuvānamindriyopetaṃ śatena sahayūthapam |
gavendraṃ brāhmaṇendrāya bhūriśṛṅgamalaṅkṛtam

113.16

वृषबं ये प्रयच्छन्ति श्रोत्रियाय परन्तप ।
ऐश्वर्यं तेऽधिगच्छन्ति जायमानाः पुनःपुनः

vṛṣabaṃ ye prayacchanti śrotriyāya parantapa |
aiśvaryaṃ te'dhigacchanti jāyamānāḥ punaḥpunaḥ

113.17

नाकीर्तयित्वा गाःक सुप्यात्तासां संस्मृत्य चोत्पतेत् ।
सायं प्रातर्नमस्येच्च गास्ततः पुष्टिमाप्नुयात्

nākīrtayitvā gāḥka supyāttāsāṃ saṃsmṛtya cotpatet |
sāyaṃ prātarnamasyecca gāstataḥ puṣṭimāpnuyāt

113.18

गवां मूत्रपुरीषस्य नोद्विजेत कथञ्चन ।
न चासां मांसमश्नीयाद्गवां पुष्टिं तथाऽऽप्नुयात्

gavāṃ mūtrapurīṣasya nodvijeta kathañcana |
na cāsāṃ māṃsamaśnīyādgavāṃ puṣṭiṃ tathā''pnuyāt

113.19

गाश्च संकीर्तयन्नित्यं नावमन्येत तास्तथा ।
अनिष्टं स्वप्नमालक्ष्य गां नरः सम्प्रकीर्तयेत्

gāśca saṃkīrtayannityaṃ nāvamanyeta tāstathā |
aniṣṭaṃ svapnamālakṣya gāṃ naraḥ samprakīrtayet

113.20

गोमयेन सदा स्नायाद्गोकरीषे च संविशेत् ।
श्लोष्ममूत्रपुरीषाणि प्रतिघातं च वर्जयेत्

gomayena sadā snāyādgokarīṣe ca saṃviśet |
śloṣmamūtrapurīṣāṇi pratighātaṃ ca varjayet

113.21

सार्द्रे चर्मणि भुञ्जीत निरीक्षेद्वारुणीं दिशम् ।
वाग्यतः सर्पिषा भूमौ गवां व्युष्टिं सदाऽऽश्नुते

sārdre carmaṇi bhuñjīta nirīkṣedvāruṇīṃ diśam |
vāgyataḥ sarpiṣā bhūmau gavāṃ vyuṣṭiṃ sadā''śnute

113.22

घृतेन जुहुयादग्निं घृतेन स्वस्ति वाचयेत् ।
घृतं दद्याद्धृतं प्राशेद्गवां व्युष्टिं सदाऽऽश्नुते

ghṛtena juhuyādagniṃ ghṛtena svasti vācayet |
ghṛtaṃ dadyāddhṛtaṃ prāśedgavāṃ vyuṣṭiṃ sadā''śnute

113.23

गोमत्या विद्यया धेनुं तिलानामभिमन्त्र्य यः ।
सर्वरत्नमयीं दद्यान्न स शोचेत्कृताकृते

gomatyā vidyayā dhenuṃ tilānāmabhimantrya yaḥ |
sarvaratnamayīṃ dadyānna sa śocetkṛtākṛte

113.24

गावो मामुपतिष्ठन्तु हेमशृङ्ग्यः पयोमुचः ।
सुरभ्यः सौरभेय्यश्च सरितः सागरं यथा

gāvo māmupatiṣṭhantu hemaśṛṅgyaḥ payomucaḥ |
surabhyaḥ saurabheyyaśca saritaḥ sāgaraṃ yathā

113.25

गा वै पश्याम्यहं नित्यं गावः पश्यन्तु मां सदा ।
गावोस्माकं वयं तासां यतो गावस्ततो वयम्

gā vai paśyāmyahaṃ nityaṃ gāvaḥ paśyantu māṃ sadā |
gāvosmākaṃ vayaṃ tāsāṃ yato gāvastato vayam

113.26

एवं रात्रौ दिवा चापि समेषु विषमेषु च ।
महाभयेषु च नरः कीर्तयन्मुच्यते भवात्

evaṃ rātrau divā cāpi sameṣu viṣameṣu ca |
mahābhayeṣu ca naraḥ kīrtayanmucyate bhavāt

पाठ का स्रोत: Wikisource · CC BY-SA 4.0 (Wikisource transcription of a public-domain text)