आदि पर्व

अध्याय 95: आश्रम में सर्वदमन का पालन

इति श्रीमन्महाभारते आदिपर्वणि संभवपर्वणि पञ्चनवतितमोऽध्यायः ॥

36 श्लोक · 95 में से 261

इस अध्याय में क्या होता है

आश्रम में सर्वदमन का पालन

दुष्यन्त चले जाते हैं और शकुन्तला के गर्भ में बालक दिन दिन बढ़ता है। वह राजा के भेजे लोगों की प्रतीक्षा में दिन गिनती है। तीन वर्ष बीत जाते हैं। ऋषिपत्नियाँ समझाती हैं कि पिता का वचन मानो और समय आने पर प्रसव करो। वह अपार बल वाले पुत्र को जन्म देती है; आकाश से फूल बरसते हैं। बालक के हाथ में चक्र का चिह्न है, मानो दूसरे विष्णु। बचपन में ही वह सिंहों और बाघों को पकड़कर आश्रम के पेड़ों से बाँध देता है; दैत्य और राक्षस डर से पास नहीं आते। मुनि उसका नाम सर्वदमन रखते हैं। बारह वर्ष में वह सब वेद और शास्त्र जान लेता है, जबकि शकुन्तला पीली और दुबली हो जाती है।

वैशंपायन उवाच

95.1

प्रतिज्ञाय च दुष्यन्ते प्रतियाते दिने दिने ।
गर्भश्च ववृधे तस्यां राजपुत्र्यां महात्मनः

pratijñāya ca duṣyante pratiyāte dine dine |
garbhaśca vavṛdhe tasyāṃ rājaputryāṃ mahātmanaḥ

95.2

शकुन्तला चिन्तयन्ती राजानं कार्यगौरवात् ।
दिवारात्रमनिद्रैव स्नानभोजनवर्जिता

śakuntalā cintayantī rājānaṃ kāryagauravāt |
divārātramanidraiva snānabhojanavarjitā

95.3

राजप्रेषणिका विप्राश्चतुरङ्गबलान्विताः ।
अद्य श्वो वा परश्वो वा समायान्तीति निस्चिता

rājapreṣaṇikā viprāścaturaṅgabalānvitāḥ |
adya śvo vā paraśvo vā samāyāntīti niscitā

95.4

दिनान्पक्षानृतून्मासानयनानि च सर्वशः ।
गण्यमानानि वर्षाणि व्यतीयुस्त्रीणि भारत

dinānpakṣānṛtūnmāsānayanāni ca sarvaśaḥ |
gaṇyamānāni varṣāṇi vyatīyustrīṇi bhārata

95.5

त्रिषु वर्षेषु पूर्णेषु ऋषेर्वचनगौरवात् ।
ऋषिपत्न्यः सुबहुशो हेतुमद्वाक्यमब्रुवन्

triṣu varṣeṣu pūrṇeṣu ṛṣervacanagauravāt |
ṛṣipatnyaḥ subahuśo hetumadvākyamabruvan

ऋषिपत्न्य ऊचुः

95.6

शृणु भद्रे लोकवृत्तं श्रुत्वा यद्रोचते तव ।
तत्कुरुष्व हितं देवि नावमान्यं गुरोर्वचः

śṛṇu bhadre lokavṛttaṃ śrutvā yadrocate tava |
tatkuruṣva hitaṃ devi nāvamānyaṃ gurorvacaḥ

95.7

देवानां दैवतं विष्णुर्विप्राणामग्निर्ब्रह्म च ।
नारीणां दैवतं भर्ता लोकानां ब्राह्मणो गुरुः

devānāṃ daivataṃ viṣṇurviprāṇāmagnirbrahma ca |
nārīṇāṃ daivataṃ bhartā lokānāṃ brāhmaṇo guruḥ

95.8

सूतिकाले प्रसूष्वेति भगवांस्ते पिताऽब्रवीत् ।
करिष्यामीति कर्तव्यं तदा ते सुकृतं भवेत्

sūtikāle prasūṣveti bhagavāṃste pitā'bravīt |
kariṣyāmīti kartavyaṃ tadā te sukṛtaṃ bhavet

वैशंपायन उवाच

95.9

पत्नीनां वचनं श्रुत्वा साधु साध्वित्यचिन्तयत् ।
गर्भं सुषाव वामोरूः कुमारममितौजसम्

patnīnāṃ vacanaṃ śrutvā sādhu sādhvityacintayat |
garbhaṃ suṣāva vāmorūḥ kumāramamitaujasam

95.10

त्रिषु वर्षेषु पूर्णेषु प्राजायत शकुन्तला ।
रूपौदार्यगुणोपेतं दौष्यन्तिं जनमेजय

triṣu varṣeṣu pūrṇeṣu prājāyata śakuntalā |
rūpaudāryaguṇopetaṃ dauṣyantiṃ janamejaya

95.11

जाते तस्मिन्नन्तरिक्षात्पुष्पवृष्टिः पपात ह ।
देवदुन्दुभयो नेदुर्ननृतुश्चाप्सरोगणाः

jāte tasminnantarikṣātpuṣpavṛṣṭiḥ papāta ha |
devadundubhayo nedurnanṛtuścāpsarogaṇāḥ

95.12

गायद्भिर्मधुरं तत्र देवैः शक्रोऽभ्युवाच ह ।
शकुन्तले तव सुतश्चक्रवर्ती भविष्यति

gāyadbhirmadhuraṃ tatra devaiḥ śakro'bhyuvāca ha |
śakuntale tava sutaścakravartī bhaviṣyati

95.13

बलं तेजश्च रूपं च न समं भुवि केनचित् ।
आहर्ता वाजिमेधस्य शतसङ्ख्यस्य पौरवः

balaṃ tejaśca rūpaṃ ca na samaṃ bhuvi kenacit |
āhartā vājimedhasya śatasaṅkhyasya pauravaḥ

95.14

अनेकारपि साहस्रै राजसूयादिभिर्मखैः ।
स्वार्थं ब्राह्मणसात्कृत्वा दक्षिणाममितां ददत्

anekārapi sāhasrai rājasūyādibhirmakhaiḥ |
svārthaṃ brāhmaṇasātkṛtvā dakṣiṇāmamitāṃ dadat

95.15

देवतानां वचः श्रुत्वा कण्वाश्रमनिवासिनः ।
सभाजयन्तः कण्वस्य सुतां सर्वे महर्षयः

devatānāṃ vacaḥ śrutvā kaṇvāśramanivāsinaḥ |
sabhājayantaḥ kaṇvasya sutāṃ sarve maharṣayaḥ

95.16

शकुन्तला च तच्छ्रुत्वा परं हर्षमवाप सा ।
द्विजानाहूय मुनिभिः सत्कृत्य च महायशाः ।

śakuntalā ca tacchrutvā paraṃ harṣamavāpa sā |
dvijānāhūya munibhiḥ satkṛtya ca mahāyaśāḥ |

95.17

जातकर्मादिसंस्कारं कण्वः पुण्यवतां वरः ।
तस्याथ कारयामास वर्धमानस्य चासकृत्

jātakarmādisaṃskāraṃ kaṇvaḥ puṇyavatāṃ varaḥ |
tasyātha kārayāmāsa vardhamānasya cāsakṛt

95.18

यथाविधि यथान्यायं क्रियाः सर्वास्त्वकारयत् ।
दन्तैः शुक्लैः शिखरिभिःसिंहसंहननोऽभवत्

yathāvidhi yathānyāyaṃ kriyāḥ sarvāstvakārayat |
dantaiḥ śuklaiḥ śikharibhiḥsiṃhasaṃhanano'bhavat

95.19

चक्राङ्कितकरः श्रीमान्स्वयं विष्णुरिवापरः ।
चतुष्किष्कुर्महातेजा महामूर्धा महाबलः

cakrāṅkitakaraḥ śrīmānsvayaṃ viṣṇurivāparaḥ |
catuṣkiṣkurmahātejā mahāmūrdhā mahābalaḥ

95.20

कुमारो देवगर्भाभः स तत्राशु व्यवर्धत ।
ऋषेर्भयात्तु दुष्यन्तः स्मरन्नैवाह्वयत्तदा

kumāro devagarbhābhaḥ sa tatrāśu vyavardhata |
ṛṣerbhayāttu duṣyantaḥ smarannaivāhvayattadā

95.21

गते काले तु महति न सस्मार तपोधनाम् ।
षड्वर्षेषु ततो बालः कण्वाश्रमपदं प्रति

gate kāle tu mahati na sasmāra tapodhanām |
ṣaḍvarṣeṣu tato bālaḥ kaṇvāśramapadaṃ prati

95.22

व्याघ्रान्सिंहान्वराहांश्च वृकांश्च महिषांस्तथा ।
ऋक्षांश्चाभ्यहनद्व्यालान्पद्भ्यामाश्रमपीडकान्

vyāghrānsiṃhānvarāhāṃśca vṛkāṃśca mahiṣāṃstathā |
ṛkṣāṃścābhyahanadvyālānpadbhyāmāśramapīḍakān

95.23

बलाद्भुजाभ्यां संगृह्य बलवान्संनियम्य च ।
बद्ध्वा वृक्षेषु दौष्यन्तिराश्रमस्य समन्ततः

balādbhujābhyāṃ saṃgṛhya balavānsaṃniyamya ca |
baddhvā vṛkṣeṣu dauṣyantirāśramasya samantataḥ

95.24

आरुरोह द्रुमांश्चैव क्रीडन्स्म परिधावति ।
वनं च लोडयामास सिंहव्याघ्रगणैर्वृतम्

āruroha drumāṃścaiva krīḍansma paridhāvati |
vanaṃ ca loḍayāmāsa siṃhavyāghragaṇairvṛtam

95.25

ततश्च राक्षसान्सर्वान्पिशाचांश्च रिपून्रणे ।
मुष्टियुद्धेन तान्हत्वा ऋषीनाराधयत्तदा

tataśca rākṣasānsarvānpiśācāṃśca ripūnraṇe |
muṣṭiyuddhena tānhatvā ṛṣīnārādhayattadā

95.26

कश्चिद्दितिसुतस्तं तु हन्तुकामो महाबलः ।
वध्यमानांस्तु दैतेयानमर्षी तं समभ्ययात्

kaścidditisutastaṃ tu hantukāmo mahābalaḥ |
vadhyamānāṃstu daiteyānamarṣī taṃ samabhyayāt

95.27

तमागतं प्रहस्यैव बाहुभ्यां परिगृह्य च ।
दृढं चाबध्य बाहुभ्यां पीडयामास तं तदा

tamāgataṃ prahasyaiva bāhubhyāṃ parigṛhya ca |
dṛḍhaṃ cābadhya bāhubhyāṃ pīḍayāmāsa taṃ tadā

95.28

मर्दितो न शशाकास्मान्मोचितुं बलवत्तया ।
प्राक्रोशद्भैरवं तत्र द्वारेभ्यो निःसृतं त्वसृक्

mardito na śaśākāsmānmocituṃ balavattayā |
prākrośadbhairavaṃ tatra dvārebhyo niḥsṛtaṃ tvasṛk

95.29

तेन शब्देन वित्रस्ता मृगाः सिंहादयो गणाः ।
सुस्रुवुश्च शकृन्मूत्रमाश्रमस्थाश्च सुस्रुवुः

tena śabdena vitrastā mṛgāḥ siṃhādayo gaṇāḥ |
susruvuśca śakṛnmūtramāśramasthāśca susruvuḥ

95.30

निरसुं जानुभिः कृत्वा विससर्ज च सोऽपतत् ।
तद्दृष्ट्वा विस्मयं जग्मुः कुमारस्य विचेष्टितम्

nirasuṃ jānubhiḥ kṛtvā visasarja ca so'patat |
taddṛṣṭvā vismayaṃ jagmuḥ kumārasya viceṣṭitam

95.31

नित्यकालं वध्यमाना दैतेया राक्षसैः सह ।
कुमारस्य भयादेव नैव जग्मुस्तदाश्रमम्

nityakālaṃ vadhyamānā daiteyā rākṣasaiḥ saha |
kumārasya bhayādeva naiva jagmustadāśramam

95.32

ततोऽस्य नाम चक्रुस्ते कण्वाश्रमनिवासिनः ।
कण्वेन सहिताः सर्वे दृष्ट्वा कर्मातिमानुषम्

tato'sya nāma cakruste kaṇvāśramanivāsinaḥ |
kaṇvena sahitāḥ sarve dṛṣṭvā karmātimānuṣam

95.33

अस्त्वयं सर्वदमनः सर्वं हि दमयत्यसौ ।
स सर्वदमनो नाम कुमारः समपद्यत

astvayaṃ sarvadamanaḥ sarvaṃ hi damayatyasau |
sa sarvadamano nāma kumāraḥ samapadyata

95.34

विक्रमेणौजसा चैव बलेन च समन्वितः ।
अप्रेषयति दुष्यन्ते महिष्यास्तनयस्य च

vikrameṇaujasā caiva balena ca samanvitaḥ |
apreṣayati duṣyante mahiṣyāstanayasya ca

95.35

पाण्डुभावपरीताङ्गीं चिन्तया समभिप्लुताम् ।
लम्बालकां कृशां दीनां तथा मलिनवाससम्

pāṇḍubhāvaparītāṅgīṃ cintayā samabhiplutām |
lambālakāṃ kṛśāṃ dīnāṃ tathā malinavāsasam

95.36

शकुन्तलां च संप्रेक्ष्य प्रदध्यौ स मुनिस्तदा ।
शास्त्राणि सर्ववेदाश्च द्वादशाब्दस्य चाभवन्

śakuntalāṃ ca saṃprekṣya pradadhyau sa munistadā |
śāstrāṇi sarvavedāśca dvādaśābdasya cābhavan

पाठ का स्रोत: Wikisource · CC BY-SA 4.0 (Wikisource transcription of a public-domain text)