आदि पर्व

अध्याय 81: पूरु को ययाति का उपदेश, इन्द्र को सुनाया

इति श्रीमन्महाभारते आदिपर्वणि संभवपर्वणि एकाशीतितमोऽध्यायः ॥

21 श्लोक · 81 में से 261

इस अध्याय में क्या होता है

पूरु को ययाति का उपदेश, इन्द्र को सुनाया

ययाति देवलोक और ब्रह्मलोक में दीर्घकाल रहते हैं। एक बार इन्द्र पूछते हैं कि राज्य सौंपते समय उन्होंने पूरु से क्या कहा था। ययाति अपना उपदेश दोहराते हैं। गंगा और यमुना के बीच का पूरा देश पूरु का है और भाई सीमाओं के स्वामी हैं। दीनता, शठता, क्रोध, कुटिलता, मत्सर और वैर न करो। समर्थ क्षमा करता है, असमर्थ क्रोध करता है; दुर्जन सज्जन से, निर्धन धनी से द्वेष करता है, यह कलि का लक्षण है। गाली के बदले गाली न दो, सहने वाले का क्रोध ही गाली देने वाले को जला देता है। चुभने वाली बात न कहो; वाणी के बाण मर्म में लगते हैं और रात दिन दुख देते हैं। दया, मैत्री, दान और मधुर वाणी जैसा वशीकरण तीनों लोकों में नहीं है।

वैशंपायन उवाच

81.1

स्वर्गतः स तु राजेन्द्रो निवसन्देववेश्मनि ।
पूजितस्त्रिदशैः साध्यैर्मरुद्भिर्वसुभिस्तथा

svargataḥ sa tu rājendro nivasandevaveśmani |
pūjitastridaśaiḥ sādhyairmarudbhirvasubhistathā

81.2

देवलोकं ब्रह्मलोकं संचरन्पुण्यकृद्वशी ।
अवसत्पृथिवीपालो दीर्घकालमिति श्रुतिः

devalokaṃ brahmalokaṃ saṃcaranpuṇyakṛdvaśī |
avasatpṛthivīpālo dīrghakālamiti śrutiḥ

81.3

स कदाचिन्नृपश्रेष्ठो ययातिः शक्रमागमत् ।
कथान्ते तत्र शक्रेण स पृष्टः पृथिवीपतिः

sa kadācinnṛpaśreṣṭho yayātiḥ śakramāgamat |
kathānte tatra śakreṇa sa pṛṣṭaḥ pṛthivīpatiḥ

शक्र उवाच

81.4

यदा स पूरुस्तव रूपेण राज-
ञ्जरां गृहीत्वा प्रचचार भूमौ ।
तदा च राज्यं संप्रदायैव तस्मै
त्वया किमुक्तः कथयेह सत्यम्

yadā sa pūrustava rūpeṇa rāja-
ñjarāṃ gṛhītvā pracacāra bhūmau |
tadā ca rājyaṃ saṃpradāyaiva tasmai
tvayā kimuktaḥ kathayeha satyam

ययातिरुवाच

81.5

गङ्गायमुनयोर्मध्ये कृत्स्नोयं विषयस्तव ।
मध्ये पृथिव्यास्त्वं राजा भ्रातरोऽन्त्याधिपास्तव

gaṅgāyamunayormadhye kṛtsnoyaṃ viṣayastava |
madhye pṛthivyāstvaṃ rājā bhrātaro'ntyādhipāstava

81.6

न च कुर्यान्नरो दैन्यं शाठ्यं क्रोधं तथैव च ।
जैहयं च मत्सरं वैरं सर्वत्रेदं न कारयेत्

na ca kuryānnaro dainyaṃ śāṭhyaṃ krodhaṃ tathaiva ca |
jaihayaṃ ca matsaraṃ vairaṃ sarvatredaṃ na kārayet

81.7

मातरं पितरं ज्येष्ठं विद्वांसं च तपोधनम् ।
क्षमावन्तं च राजेन्द्र नावमन्येत बुद्धिमान्

mātaraṃ pitaraṃ jyeṣṭhaṃ vidvāṃsaṃ ca tapodhanam |
kṣamāvantaṃ ca rājendra nāvamanyeta buddhimān

81.8

ळशक्तस्तु क्षमते नित्यमशक्तः क्रुध्यते नरः ।
दुर्जनः सुजनं द्वेष्टि दुर्बलो बलवत्तरम्

ḻaśaktastu kṣamate nityamaśaktaḥ krudhyate naraḥ |
durjanaḥ sujanaṃ dveṣṭi durbalo balavattaram

81.9

रूपवन्तमरूपी च धनवन्तं च निर्धनः ।
अकर्मी कर्मिणं द्वेष्टि धार्मिकं च नधार्मिकः

rūpavantamarūpī ca dhanavantaṃ ca nirdhanaḥ |
akarmī karmiṇaṃ dveṣṭi dhārmikaṃ ca nadhārmikaḥ

81.10

निर्गुणो गुणवन्तं च पुत्रैतत्कलिलक्षणम् ।
विपरीतं च राजेन्द्र एतेषु कृतलक्षणम्

nirguṇo guṇavantaṃ ca putraitatkalilakṣaṇam |
viparītaṃ ca rājendra eteṣu kṛtalakṣaṇam

81.11

ब्राह्मणो वाथ वा राजा वैश्यो वा शूद्र एव वा ।
प्रशस्तेषु प्रसक्ताश्चेत्प्रशस्यन्ते यशस्विनः

brāhmaṇo vātha vā rājā vaiśyo vā śūdra eva vā |
praśasteṣu prasaktāścetpraśasyante yaśasvinaḥ

81.12

तस्मात्प्रशस्ते राजेन्द्र नरः सक्तमना भवेत् ।
अलोकज्ञा ह्यप्रशस्ता भ्रातरस्ते ह्यबुद्धयः

tasmātpraśaste rājendra naraḥ saktamanā bhavet |
alokajñā hyapraśastā bhrātaraste hyabuddhayaḥ

81.13

अन्त्याधिपतयः सर्वे ह्यभवन्गुरुशासनात् ।
(इन्द्र उवाच)
त्वं हि धर्मविदो राजन्कत्थसे धर्मसुत्तमम् ।
कथयस्व पुनर्मेऽद्य लोकवृत्तान्तमुत्तमम्

antyādhipatayaḥ sarve hyabhavanguruśāsanāt |
(indra uvāca)
tvaṃ hi dharmavido rājankatthase dharmasuttamam |
kathayasva punarme'dya lokavṛttāntamuttamam

81.14

अक्रोधनः क्रोधनेभ्यो विशिष्ट-
स्तथा तितिक्षुरतितिक्षोर्विशिष्टः ।
अमानुषेभ्यो मानुषाश्च प्रधाना
विद्वांस्तथैवाविदुषः प्रधानः

akrodhanaḥ krodhanebhyo viśiṣṭa-
stathā titikṣuratitikṣorviśiṣṭaḥ |
amānuṣebhyo mānuṣāśca pradhānā
vidvāṃstathaivāviduṣaḥ pradhānaḥ

81.15

आक्रुश्यमानो नाकोशेन्मन्युरेव तितिक्षतः ।
आक्रोष्टारं निर्दहति सुकृतं चास्य विन्दति

ākruśyamāno nākośenmanyureva titikṣataḥ |
ākroṣṭāraṃ nirdahati sukṛtaṃ cāsya vindati

81.16

नारुन्तुदः स्यान्न नृशंसवादी
न हीनतः परमभ्याददीत ।
ययाऽस्य वाचा पर उद्विजेत
न तां वदेद्रुशतीं पापलोक्याम्

nāruntudaḥ syānna nṛśaṃsavādī
na hīnataḥ paramabhyādadīta |
yayā'sya vācā para udvijeta
na tāṃ vadedruśatīṃ pāpalokyām

81.17

अरुन्तुदं पुरुषं तीक्ष्णवाचं
वाक्कण्टकैर्वितुदन्तं मनुष्यन् ।
विद्यादलक्ष्मीकतमं जनानां
मुखे निबद्धां निर्ऋतिं वहन्तम्

aruntudaṃ puruṣaṃ tīkṣṇavācaṃ
vākkaṇṭakairvitudantaṃ manuṣyan |
vidyādalakṣmīkatamaṃ janānāṃ
mukhe nibaddhāṃ nirṛtiṃ vahantam

81.18

सद्भिः पुरस्तादभिपूजितः स्या-
त्सद्भिस्तथा पृष्ठतो रक्षितः स्यात् ।
सदाऽसतामतिवादांस्तितिक्षे-
त्सतां वृत्तं चाददीतार्यवृत्तः

sadbhiḥ purastādabhipūjitaḥ syā-
tsadbhistathā pṛṣṭhato rakṣitaḥ syāt |
sadā'satāmativādāṃstitikṣe-
tsatāṃ vṛttaṃ cādadītāryavṛttaḥ

81.19

वाक्सायका वदनान्निष्पतन्ति
यैराहतः शोचति रात्र्यहानि ।
परस्य ये मर्मसु संपतन्ति
तान्पण्डितो नावसृजेत्परेषु

vāksāyakā vadanānniṣpatanti
yairāhataḥ śocati rātryahāni |
parasya ye marmasu saṃpatanti
tānpaṇḍito nāvasṛjetpareṣu

81.20

नहीदृशं संवननं त्रिषु लोकेषु विद्यते ।
दया मैत्री च भूतेषु दानं च मधुरा च वाक्

nahīdṛśaṃ saṃvananaṃ triṣu lokeṣu vidyate |
dayā maitrī ca bhūteṣu dānaṃ ca madhurā ca vāk

81.21

तस्मात्सान्त्वं सदा वाच्यं न वाच्यं परुषं क्वचित् ।
पूज्यान्संपूजयेद्दद्यान्न च याचेत्कदाचन

tasmātsāntvaṃ sadā vācyaṃ na vācyaṃ paruṣaṃ kvacit |
pūjyānsaṃpūjayeddadyānna ca yācetkadācana

पाठ का स्रोत: Wikisource · CC BY-SA 4.0 (Wikisource transcription of a public-domain text)