आदि पर्व

अध्याय 51: सर्पयज्ञ की तैयारी

इति श्रीमन्महाभारते आदिपर्वणि आस्तीकपर्वणि एकपञ्चाशत्तमोऽध्यायः ॥

17 श्लोक · 51 में से 261

इस अध्याय में क्या होता है

सर्पयज्ञ की तैयारी

मन्त्रियों की सहमति से जनमेजय सर्पयज्ञ का संकल्प करते हैं। वे ऋत्विजों से पूछते हैं कि तक्षक को बन्धुओं सहित धधकती अग्नि में कैसे डालें। ऋत्विज बताते हैं कि देवताओं ने उनके लिए ही एक महायज्ञ रचा है, जिसे सर्पसत्र कहते हैं और जो पुराण में वर्णित है, जिसे केवल वही कर सकते हैं। तक्षक को जला हुआ मानकर राजा सामग्री जुटाने का आदेश देते हैं। ऋत्विज शास्त्र के अनुसार भूमि नापकर समृद्ध यज्ञशाला बनाते हैं और राजा को दीक्षा देते हैं। भूमि नापते समय वास्तुविद्या में निपुण, पुराण जानने वाला एक सूत सूत्रधार कहता है कि एक ब्राह्मण के कारण यह यज्ञ पूरा नहीं होगा। यह सुनकर राजा द्वारपाल को आदेश देते हैं कि कोई अपरिचित भीतर न आए।

सौतिरुवाच

51.1

एवमुक्त्वा ततः श्रीमान्मन्त्रिभिश्चानुमीदितः ।
आरुरोह प्रतिज्ञां स सर्पसत्राय पार्थिवः

evamuktvā tataḥ śrīmānmantribhiścānumīditaḥ |
āruroha pratijñāṃ sa sarpasatrāya pārthivaḥ

51.2

ब्रह्मन्भरतशार्दूलो राजा पारिक्षितस्तदा ।
पुरोहितमथाहूय ऋत्विजो वसुधाधिपः

brahmanbharataśārdūlo rājā pārikṣitastadā |
purohitamathāhūya ṛtvijo vasudhādhipaḥ

51.3

अब्रवीद्वाक्यसंपन्नः कार्यसंपत्करं वचः ।
यो मे हिंसितवांस्तातं तक्षकः स दुरात्मवान्

abravīdvākyasaṃpannaḥ kāryasaṃpatkaraṃ vacaḥ |
yo me hiṃsitavāṃstātaṃ takṣakaḥ sa durātmavān

51.4

प्रतिकुर्यां यथा तस्य तद्भवन्तो ब्रुवन्तु मे ।
अपि तत्कर्म विदितं भवतां येन पन्नगम्

pratikuryāṃ yathā tasya tadbhavanto bruvantu me |
api tatkarma viditaṃ bhavatāṃ yena pannagam

51.5

तक्षकं संप्रदीप्तेऽग्नौ प्रक्षिपेयं सबान्धवम् ।
यथा तेन पिता मह्यं पूर्वं दग्धो विषाग्निना ॥
तथाऽहमपि तं पापं दग्धुमिच्छामि पन्नगम्

takṣakaṃ saṃpradīpte'gnau prakṣipeyaṃ sabāndhavam |
yathā tena pitā mahyaṃ pūrvaṃ dagdho viṣāgninā ||
tathā'hamapi taṃ pāpaṃ dagdhumicchāmi pannagam

ऋत्विज ऊचुः

51.6

अस्ति राजन्महात्सत्रं त्वदर्थं देवनिर्मितम् ।
सर्वसत्रमिति ख्यातं पुराणे परिपठ्यते

asti rājanmahātsatraṃ tvadarthaṃ devanirmitam |
sarvasatramiti khyātaṃ purāṇe paripaṭhyate

51.7

आहर्ता तस्य सत्रस्य त्वन्नान्योऽस्ति नराधिप ।
इति पौराणिकाः प्राहुरस्माकं चास्ति स क्रतुः

āhartā tasya satrasya tvannānyo'sti narādhipa |
iti paurāṇikāḥ prāhurasmākaṃ cāsti sa kratuḥ

51.8

एवमुक्तः स राजर्षिर्मेने दग्धं हि तक्षकम् ।
हुताशनमुखे दीप्ते प्रविष्टमिति सत्तम

evamuktaḥ sa rājarṣirmene dagdhaṃ hi takṣakam |
hutāśanamukhe dīpte praviṣṭamiti sattama

51.9

ततोऽब्रवीन्मन्त्रविदस्तान्राजा ब्राह्मणांस्तदा ।
आहरिष्यामि तत्सत्रं संभाराः संभ्रियन्तु मे

tato'bravīnmantravidastānrājā brāhmaṇāṃstadā |
āhariṣyāmi tatsatraṃ saṃbhārāḥ saṃbhriyantu me

सौतिरुवाच

51.10

ततस्त ऋत्विजस्तस्य शास्त्रतो द्विजसत्तम ।
तं देशं मापयामासुर्यज्ञायतनकारणात्

tatasta ṛtvijastasya śāstrato dvijasattama |
taṃ deśaṃ māpayāmāsuryajñāyatanakāraṇāt

51.11

यथावद्वेदविद्वांसः सर्वे बुद्धेः परंगताः ।
ऋद्ध्या परमया युक्तमिष्टं द्विजगणैर्युतम्

yathāvadvedavidvāṃsaḥ sarve buddheḥ paraṃgatāḥ |
ṛddhyā paramayā yuktamiṣṭaṃ dvijagaṇairyutam

51.12

प्रभूतधनधान्याढ्यमृत्विग्भिः सुनिषेवितम् ।
निर्माय चापि विधिवद्यज्ञायतनमीप्सितम्

prabhūtadhanadhānyāḍhyamṛtvigbhiḥ suniṣevitam |
nirmāya cāpi vidhivadyajñāyatanamīpsitam

51.13

राजानं दीक्षयामासुः सर्पसत्राप्तये तदा ।
इदं चासीत्तत्र पूर्वं सर्पसत्रे भविष्यति

rājānaṃ dīkṣayāmāsuḥ sarpasatrāptaye tadā |
idaṃ cāsīttatra pūrvaṃ sarpasatre bhaviṣyati

51.14

निमित्तं महदुत्पन्नं यज्ञविघ्नकरं तदा ।
यज्ञस्यायतने तस्मिन्क्रियमाणे वचोऽब्रवीत्

nimittaṃ mahadutpannaṃ yajñavighnakaraṃ tadā |
yajñasyāyatane tasminkriyamāṇe vaco'bravīt

51.15

स्थपतिर्बुद्धिसंपन्नो वास्तुविद्याविशारदः ।
इत्यब्रवीत्सूत्रधारः सूतः पौराणिकस्तदा

sthapatirbuddhisaṃpanno vāstuvidyāviśāradaḥ |
ityabravītsūtradhāraḥ sūtaḥ paurāṇikastadā

51.16

यस्मिन्देशे च काले च मापनेयं प्रवर्तिता ।
ब्राह्मणं कारणं कृत्वा नायं संस्थास्यते क्रतुः

yasmindeśe ca kāle ca māpaneyaṃ pravartitā |
brāhmaṇaṃ kāraṇaṃ kṛtvā nāyaṃ saṃsthāsyate kratuḥ

51.17

एतच्छ्रुत्वा तु राजासौ प्राग्दीक्षाकालमब्रवीत् ।
क्षत्तारं न हि मे कश्चिदज्ञातः प्रविशेदिति

etacchrutvā tu rājāsau prāgdīkṣākālamabravīt |
kṣattāraṃ na hi me kaścidajñātaḥ praviśediti

पाठ का स्रोत: Wikisource · CC BY-SA 4.0 (Wikisource transcription of a public-domain text)