आदि पर्व

अध्याय 48: आस्तीक का जन्म

इति श्रीमन्महाभारते आदिपर्वणि आस्तीकपर्वणि अष्टचत्वारिंशोऽध्यायः ॥

22 श्लोक · 48 में से 261

इस अध्याय में क्या होता है

आस्तीक का जन्म

जरत्कारु वासुकि को बताती हैं कि पति चले गए। दुखी वासुकि ब्रह्मा के वचन की याद दिलाते हैं कि उनका पुत्र सर्पों को बचाएगा, और पूछते हैं कि क्या गर्भ है; शाप के भय से वे मुनि के पीछे नहीं जा सकते। बहन धीरज बँधाती हैं: पति ने 'अस्ति' कहा था, अर्थात है, और वे हँसी में भी झूठ नहीं बोलते। वासुकि प्रसन्न होकर उपहारों से बहन का सम्मान करते हैं। गर्भ शुक्ल पक्ष के चन्द्रमा की तरह बढ़ता है और देवपुत्र जैसा तेजस्वी बालक जन्मता है। पिता 'अस्ति' कहकर गए थे, इसलिए उसका नाम आस्तीक पड़ता है। नागराज के भवन में पलकर वह भृगुवंशी च्यवन से वेद पढ़ता है और सब नागों को आनन्दित करता है।

सौतिरुवाच

48.1

गतमात्रं तु भर्तारं जरत्कारुरवेदयत् ।
भ्रातुः सकाशमागत्य यथातथ्यं तपोधन

gatamātraṃ tu bhartāraṃ jaratkāruravedayat |
bhrātuḥ sakāśamāgatya yathātathyaṃ tapodhana

48.2

ततः स भुजगश्रेष्ठः श्रुत्वा सुमहदप्रियम् ।
उवाच भगिनीं दीनां तदा दीनतरः स्वयम्

tataḥ sa bhujagaśreṣṭhaḥ śrutvā sumahadapriyam |
uvāca bhaginīṃ dīnāṃ tadā dīnataraḥ svayam

वासुकिरुवाच

48.3

जानासि भद्रे यत्कार्यं प्रदाने कारणं च यत् ।
पन्नगानां हितार्थाय पुत्रस्ते स्यात्ततो यदि

jānāsi bhadre yatkāryaṃ pradāne kāraṇaṃ ca yat |
pannagānāṃ hitārthāya putraste syāttato yadi

48.4

स सर्पसत्रात्किल नो मोक्षयिष्यति वीर्यवान् ।
एवं पितामहः पूर्वमुक्तवांस्तु सुरैः सह

sa sarpasatrātkila no mokṣayiṣyati vīryavān |
evaṃ pitāmahaḥ pūrvamuktavāṃstu suraiḥ saha

48.5

अप्यस्ति गर्भः सुभगे तस्मात्ते मुनिसत्तमात् ।
न चेच्छाम्यफलं तस्य दारकर्म मनीषिणः

apyasti garbhaḥ subhage tasmātte munisattamāt |
na cecchāmyaphalaṃ tasya dārakarma manīṣiṇaḥ

48.6

कामं च मम न न्याय्यं प्रष्टुं त्वां कार्यमीदृशम् ।
किंतु कार्यगरीयस्त्वात्ततस्त्वाऽहमचूचुदम्

kāmaṃ ca mama na nyāyyaṃ praṣṭuṃ tvāṃ kāryamīdṛśam |
kiṃtu kāryagarīyastvāttatastvā'hamacūcudam

48.7

दुर्वार्यतां विदित्वा च भर्तुस्तेऽतितपस्विनः ।
नैनमन्वागमिष्यामि कदाचिद्धि शपेत्स माम्

durvāryatāṃ viditvā ca bhartuste'titapasvinaḥ |
nainamanvāgamiṣyāmi kadāciddhi śapetsa mām

48.8

आचक्ष्व भद्रे भर्तुः स्वं सर्वमेव विचेष्टितम् ।
उद्धरस्व च शल्यं मे घोरं हृदि चिरस्थितम्

ācakṣva bhadre bhartuḥ svaṃ sarvameva viceṣṭitam |
uddharasva ca śalyaṃ me ghoraṃ hṛdi cirasthitam

48.9

जरत्कारुस्ततो वाक्यमित्युक्ता प्रत्यभाषत ।
आश्वासयन्ती सन्तप्तं वासुकिं पन्नगेश्वरम्

jaratkārustato vākyamityuktā pratyabhāṣata |
āśvāsayantī santaptaṃ vāsukiṃ pannageśvaram

जरत्कारुरुवाच

48.10

पृष्टो मयाऽपत्यहेतोः स महात्मा महातपाः ।
अस्तीत्युत्तरमुद्दिश्य ममेदं गतवांश्च सः

pṛṣṭo mayā'patyahetoḥ sa mahātmā mahātapāḥ |
astītyuttaramuddiśya mamedaṃ gatavāṃśca saḥ

48.11

स्वैरेष्वपि न तेनाहं स्मरामि वितथं वचः ।
उक्तपूर्वं कुतो राजन्सांपराये स वक्ष्यति

svaireṣvapi na tenāhaṃ smarāmi vitathaṃ vacaḥ |
uktapūrvaṃ kuto rājansāṃparāye sa vakṣyati

48.12

न संतापस्त्वया कार्यः कार्यं प्रति भुजंगमे ।
उत्पत्स्यति च ते पुत्रो ज्वलनार्कसमप्रभः

na saṃtāpastvayā kāryaḥ kāryaṃ prati bhujaṃgame |
utpatsyati ca te putro jvalanārkasamaprabhaḥ

48.13

इत्युक्त्वा स हि मां भ्रातर्गतो भर्ता तपोधनः ।
तस्माद्व्येतु परं दुःखं तवेदं मनसि स्थितम्

ityuktvā sa hi māṃ bhrātargato bhartā tapodhanaḥ |
tasmādvyetu paraṃ duḥkhaṃ tavedaṃ manasi sthitam

सौतिरुवाच

48.14

एतच्छ्रुत्वा स नागेन्द्रो वासुकिः परया मुदा ।
एवमस्त्विति तद्वाक्यं भगिन्याः प्रत्यगृह्णत

etacchrutvā sa nāgendro vāsukiḥ parayā mudā |
evamastviti tadvākyaṃ bhaginyāḥ pratyagṛhṇata

48.15

सान्त्वमानार्थदानैश्च पूजया चारुरूपया ।
सोदर्यां पूजयामास स्वसारं पन्नगोत्तमः

sāntvamānārthadānaiśca pūjayā cārurūpayā |
sodaryāṃ pūjayāmāsa svasāraṃ pannagottamaḥ

48.16

ततः प्रववृधे गर्भो महातेजा महाप्रभः ।
यथा मोमो द्विजश्रेष्ठ शुक्लपक्षोदितो दिवि

tataḥ pravavṛdhe garbho mahātejā mahāprabhaḥ |
yathā momo dvijaśreṣṭha śuklapakṣodito divi

48.17

अथ काले तु सा ब्रह्मन्प्रजज्ञे भुजगस्वसा ।
कुमारं देवगर्भाभं पितृमातृभयापहम्

atha kāle tu sā brahmanprajajñe bhujagasvasā |
kumāraṃ devagarbhābhaṃ pitṛmātṛbhayāpaham

48.18

ववृधे स तु तत्रैव नागराजनिवेशने ।
वेदांश्चाधिजगे साङ्गान्भार्गवच्यवनात्मजात्

vavṛdhe sa tu tatraiva nāgarājaniveśane |
vedāṃścādhijage sāṅgānbhārgavacyavanātmajāt

48.19

चीर्णव्रतो बाल एव बुद्धिसत्त्वगुणान्वितः ।
नाम चास्याभवत्ख्यातं लोकेष्वास्तीक इत्युत

cīrṇavrato bāla eva buddhisattvaguṇānvitaḥ |
nāma cāsyābhavatkhyātaṃ lokeṣvāstīka ityuta

48.20

अस्तीत्युक्त्वा गतो यस्मात्पिता गर्भस्थमेव तम् ।
वनं तस्मादिदं तस्य नामास्तीकेति विश्रुतम्

astītyuktvā gato yasmātpitā garbhasthameva tam |
vanaṃ tasmādidaṃ tasya nāmāstīketi viśrutam

48.21

स बाल एव तत्रस्थश्चरन्नमितबुद्धिमान् ।
गृहे पन्नगराजस्य प्रयत्नात्परिरक्षितः

sa bāla eva tatrasthaścarannamitabuddhimān |
gṛhe pannagarājasya prayatnātparirakṣitaḥ

48.22

भगवानिव देवेशः शूलपाणिर्हिरण्मयः ।
विवर्धमानः सर्वांस्तान्पन्नगानभ्यहर्षयत्

bhagavāniva deveśaḥ śūlapāṇirhiraṇmayaḥ |
vivardhamānaḥ sarvāṃstānpannagānabhyaharṣayat

पाठ का स्रोत: Wikisource · CC BY-SA 4.0 (Wikisource transcription of a public-domain text)