भुजङ्गमानां शापस्य मात्रा चैव सुतेन च ।
विनतायास्त्वया प्रोक्तं कारणं सूतनन्दन
bhujaṅgamānāṃ śāpasya mātrā caiva sutena ca |
vinatāyāstvayā proktaṃ kāraṇaṃ sūtanandana
इति श्रीमन्महाभारते आदिपर्वणि आस्तीकपर्वणि पञ्चत्रिंशोऽध्यायः ॥
19 श्लोक · 35 में से 261
शौनक सर्पों के शाप, कद्रू और विनता को मिले वरों और विनता के दोनों पुत्रों के नाम सुन चुके हैं। अब वे सर्पों के नाम पूछते हैं। सौति कहते हैं कि वे असंख्य हैं, इसलिए वे केवल प्रमुख नाग गिनाएँगे। यह अध्याय एक नामसूची है। सबसे पहले शेष जन्मे, फिर वासुकि, ऐरावत, तक्षक, कर्कोटक और धनञ्जय। उनके बाद कालिय, मणिनाग, आपूरण, पिञ्जरक, एलापत्र, वामन, नील और अनील, कल्माष, शबल, आर्यक, उग्रक, दधिमुख, शंख, नहुष, पिंगल, कम्बल और अश्वतर, कौरव्य, धृतराष्ट्र, सुमुख, कुमुद, कर्दम, कुण्डोदर और महोदर आदि अनेक नाग आते हैं। सौति कहते हैं कि इनकी सन्तान और उनकी परम्पराएँ हजारों, लाखों और करोड़ों में हैं, जिन्हें गिनना सम्भव नहीं।
शौनक उवाच
भुजङ्गमानां शापस्य मात्रा चैव सुतेन च ।
विनतायास्त्वया प्रोक्तं कारणं सूतनन्दन
bhujaṅgamānāṃ śāpasya mātrā caiva sutena ca |
vinatāyāstvayā proktaṃ kāraṇaṃ sūtanandana
वरप्रदानं भर्त्रा च कद्रूविनतयोस्तथा ।
नामनी चैव ते प्रोक्ते पक्षिणोर्वैनतेययोः
varapradānaṃ bhartrā ca kadrūvinatayostathā |
nāmanī caiva te prokte pakṣiṇorvainateyayoḥ
पन्नगानां तु नामानि न कीतर्यसि सूतज ।
प्राधान्येनापि नामानि श्रोतुमिच्छामहे वयम्
pannagānāṃ tu nāmāni na kītaryasi sūtaja |
prādhānyenāpi nāmāni śrotumicchāmahe vayam
सौतिरुवाच
बहुत्वान्नामधेयानि पन्नगानां तपोधन ।
न कीर्तयिष्ये सर्वेषां प्राधान्येन तु मे शृणु
bahutvānnāmadheyāni pannagānāṃ tapodhana |
na kīrtayiṣye sarveṣāṃ prādhānyena tu me śṛṇu
शेषः प्रथमतो जातो वासुकिस्तदनन्तरम् ।
ऐरावतस्तक्षकश्च कर्कोटकधनञ्जयौ
śeṣaḥ prathamato jāto vāsukistadanantaram |
airāvatastakṣakaśca karkoṭakadhanañjayau
कालियो मणिनागश्च नागश्चापूरणस्तथा ।
नागस्तथा पिञ्जरक एलापत्रोऽथ वामनः
kāliyo maṇināgaśca nāgaścāpūraṇastathā |
nāgastathā piñjaraka elāpatro'tha vāmanaḥ
नीलानीलौ तथा नागौ कल्माषशबलौ तथा ।
आर्यकश्चोग्रकश्चैव नागः कलशपोतकः
nīlānīlau tathā nāgau kalmāṣaśabalau tathā |
āryakaścograkaścaiva nāgaḥ kalaśapotakaḥ
सुमनाख्यो दधिमुखस्तथा विमलपिण्डकः ।
आप्तः कोटरकश्चैव शङ्खो वालिशिखस्तथा
sumanākhyo dadhimukhastathā vimalapiṇḍakaḥ |
āptaḥ koṭarakaścaiva śaṅkho vāliśikhastathā
निष्टानको हेमगुहो नहुषः पिङ्गलस्तथा ।
बाह्यकर्णो हस्तिपदस्तथा मुद्गरपिण्डकः
niṣṭānako hemaguho nahuṣaḥ piṅgalastathā |
bāhyakarṇo hastipadastathā mudgarapiṇḍakaḥ
कम्बलाश्वतरौ चापि नागः कालीयकस्तथा ।
वृत्तसंवर्तकौ नागौ द्वौ च पद्माविति श्रुतौ
kambalāśvatarau cāpi nāgaḥ kālīyakastathā |
vṛttasaṃvartakau nāgau dvau ca padmāviti śrutau
नागः शङ्खमुखश्चैव तथा कूष्माण्डकोऽपरः ।
क्षेमकश्च तथा नागो नागः पिण्डारकस्तथा
nāgaḥ śaṅkhamukhaścaiva tathā kūṣmāṇḍako'paraḥ |
kṣemakaśca tathā nāgo nāgaḥ piṇḍārakastathā
करवीरः पुष्पदंष्ट्रो बिल्वको बिल्वपाण्डुरः ।
मूषकादः शङ्खशिराः पूर्णभद्रो हरिद्रकः
karavīraḥ puṣpadaṃṣṭro bilvako bilvapāṇḍuraḥ |
mūṣakādaḥ śaṅkhaśirāḥ pūrṇabhadro haridrakaḥ
अपराजितो ज्योतिकश्च पन्नगः श्रीवहस्तथा ।
कौरव्यो धृतराष्ट्रश्च शङ्खपिण्डश्च वीर्यवान्
aparājito jyotikaśca pannagaḥ śrīvahastathā |
kauravyo dhṛtarāṣṭraśca śaṅkhapiṇḍaśca vīryavān
विरजाश्च सुबाहुश्च शालिपिण्डश्च वीर्यवान् ।
हस्तिपिण्डः पिठरकः सुमुखः कौणपाशनः
virajāśca subāhuśca śālipiṇḍaśca vīryavān |
hastipiṇḍaḥ piṭharakaḥ sumukhaḥ kauṇapāśanaḥ
कुठऱः कुञ्जरश्चैव तथा नागः प्रभाकरः ।
कुमुदः कुमुदाक्षश्च तित्तिरिर्हलिकस्तथा
kuṭhaṟaḥ kuñjaraścaiva tathā nāgaḥ prabhākaraḥ |
kumudaḥ kumudākṣaśca tittirirhalikastathā
कर्दमश्च महानागो नागश्च बहुमूलकः ।
कर्कराकर्करौ नागौ कुण्डोदरमहोदरौ
kardamaśca mahānāgo nāgaśca bahumūlakaḥ |
karkarākarkarau nāgau kuṇḍodaramahodarau
एते प्राधान्यतो नागाः कीर्तिता द्विजसत्तम ।
बहुत्वान्नामधेयानामितरे नानुकीर्तिताः
ete prādhānyato nāgāḥ kīrtitā dvijasattama |
bahutvānnāmadheyānāmitare nānukīrtitāḥ
एतेषां प्रसवो यश्च प्रसवस्य च संततिः ।
असङ्ख्येयेति मत्त्वा तान्न ब्रवीमि तपोधन
eteṣāṃ prasavo yaśca prasavasya ca saṃtatiḥ |
asaṅkhyeyeti mattvā tānna bravīmi tapodhana
बहूनीह सहस्राणि प्रयुतान्यर्बुदानि च ।
अशक्यान्येव सङ्ख्यातुं पन्नगानां तपोधन
bahūnīha sahasrāṇi prayutānyarbudāni ca |
aśakyānyeva saṅkhyātuṃ pannagānāṃ tapodhana
पाठ का स्रोत: Wikisource · CC BY-SA 4.0 (Wikisource transcription of a public-domain text)