अस्माद्बिलान्निष्पतितमाखुं श्येनो जहार तम् ।
क्षुद्रं पद्भ्यां गृहीत्वा च यातो नात्र भयं हि वः
asmādbilānniṣpatitamākhuṃ śyeno jahāra tam |
kṣudraṃ padbhyāṃ gṛhītvā ca yāto nātra bhayaṃ hi vaḥ
इति श्रीमन्महाभारते आदिपर्वणि मयदर्शनपर्वणि सप्तपञ्चाशदधिकद्विशततमोऽध्यायः ॥
18 श्लोक · 257 में से 261
जरिता कहती है कि एक बाज़ चूहे को उठा ले गया; उसने स्वयं देखा और बाज़ को आशीर्वाद दिया। बच्चे विश्वास नहीं करते। वे कहते हैं, बिल में मृत्यु निश्चित है, आग में केवल सम्भव, क्योंकि हवा पलट सकती है। तुम भय से हमें बहला रही हो; हम तुम्हारे कौन हैं? तुम युवा और सुन्दर हो, पिता के पास जाओ, तुम्हें सुन्दर पुत्र मिलेंगे। हम अग्नि में प्रवेश कर उत्तम लोक पाएँगे, और आग ने छोड़ दिया तो लौट आना। तब जरिता उन्हें छोड़कर सुरक्षित स्थान पर उड़ जाती है। आग आ पहुँचती है और ज्येष्ठ जरितारि बोलना आरम्भ करता है।
जरितोवाच
अस्माद्बिलान्निष्पतितमाखुं श्येनो जहार तम् ।
क्षुद्रं पद्भ्यां गृहीत्वा च यातो नात्र भयं हि वः
asmādbilānniṣpatitamākhuṃ śyeno jahāra tam |
kṣudraṃ padbhyāṃ gṛhītvā ca yāto nātra bhayaṃ hi vaḥ
शार्ङ्गका ऊचुः
न हृतं तं वयं विद्मः श्येनेनाखुं कथंचन ।
अन्येऽपि भितारोऽत्र तेभ्योऽपि भमेव नः
na hṛtaṃ taṃ vayaṃ vidmaḥ śyenenākhuṃ kathaṃcana |
anye'pi bhitāro'tra tebhyo'pi bhameva naḥ
संशयो वह्निरागच्छेद्दृष्टं वायोर्निवर्तनम् ।
मृत्युर्नो बिलवासिभ्यो बिले स्यान्नात्र संशयः
saṃśayo vahnirāgaccheddṛṣṭaṃ vāyornivartanam |
mṛtyurno bilavāsibhyo bile syānnātra saṃśayaḥ
निःसंशयात्संशयितो मृत्युर्मातर्विशिष्यते ।
चर खे त्वं यथान्यायं पुत्रानाप्स्यसि शोभनान्
niḥsaṃśayātsaṃśayito mṛtyurmātarviśiṣyate |
cara khe tvaṃ yathānyāyaṃ putrānāpsyasi śobhanān
जरितोवाच
अहं वेगेन तं यान्तमद्राक्षं पततां वरम् ।
बिलादाखुं समादाय श्येनं पुत्रा महाबलम्
ahaṃ vegena taṃ yāntamadrākṣaṃ patatāṃ varam |
bilādākhuṃ samādāya śyenaṃ putrā mahābalam
तं पतन्तं महावेगा त्वरिता पृष्ठतोऽन्वगाम् ।
आशिषोऽस्य प्रयुञ्जाना हरतो मूषिकं बिलात्
taṃ patantaṃ mahāvegā tvaritā pṛṣṭhato'nvagām |
āśiṣo'sya prayuñjānā harato mūṣikaṃ bilāt
यो नो द्वेष्टारमादाय श्येनराज प्रधावसि ।
भव त्वं दिवमास्थाय निरमित्रो हिरण्मयः
yo no dveṣṭāramādāya śyenarāja pradhāvasi |
bhava tvaṃ divamāsthāya niramitro hiraṇmayaḥ
स यदा भक्षितस्तेन श्येनेनाखुः पतत्रिणा ।
तदाहं तमनुज्ञाप्य प्रत्युपायां पुनर्गृहम्
sa yadā bhakṣitastena śyenenākhuḥ patatriṇā |
tadāhaṃ tamanujñāpya pratyupāyāṃ punargṛham
प्रविशध्वं बिलं पुत्रा विश्रब्धा नास्ति वो भयम् ।
श्येनेन मम पश्यन्त्या हृत आखुर्महात्मना
praviśadhvaṃ bilaṃ putrā viśrabdhā nāsti vo bhayam |
śyenena mama paśyantyā hṛta ākhurmahātmanā
शार्ङ्गका ऊचुः
न विद्महे हृतं मातः श्येनैनाखुं कथंचन ।
अविज्ञाय न शक्यामः प्रवेष्टं विवरं भुवः
na vidmahe hṛtaṃ mātaḥ śyenainākhuṃ kathaṃcana |
avijñāya na śakyāmaḥ praveṣṭaṃ vivaraṃ bhuvaḥ
जरितोवाच
अहं तमभिजानामि हृतं श्येनेन मूषिकम् ।
नास्ति वोऽत्र भयं पुत्राः क्रियतां वचनं मम
ahaṃ tamabhijānāmi hṛtaṃ śyenena mūṣikam |
nāsti vo'tra bhayaṃ putrāḥ kriyatāṃ vacanaṃ mama
शार्ङ्गका ऊचुः
न त्वं मिथ्योपचारेण मोक्षयेथा भयाद्धि नः ।
समाकुलेषु ज्ञानेषु न बुद्धिकृतमेव तत्
na tvaṃ mithyopacāreṇa mokṣayethā bhayāddhi naḥ |
samākuleṣu jñāneṣu na buddhikṛtameva tat
न चोपकृतमस्माभिर्न चास्मान्वेत्थ ये वयम् ।
पीड्यमाना बिभर्ष्यस्मान्का सती के वयं तव
na copakṛtamasmābhirna cāsmānvettha ye vayam |
pīḍyamānā bibharṣyasmānkā satī ke vayaṃ tava
तरुणी दर्शीयाऽसि समर्था भर्तुरेषणे ।
अनुगच्छ पतिं मातुः पुत्रानाप्स्यसि शोमनान्
taruṇī darśīyā'si samarthā bhartureṣaṇe |
anugaccha patiṃ mātuḥ putrānāpsyasi śomanān
वयमस्निं समाविश्य लोकानाप्स्याम शोभनान् ।
अथास्मान्न दहेदग्निरायास्त्वं पुनरेव नः
vayamasniṃ samāviśya lokānāpsyāma śobhanān |
athāsmānna dahedagnirāyāstvaṃ punareva naḥ
वैशंपायन उवाच
एवमुक्ता ततः शार्ङ्गी पुत्रानुत्सृज्य खाण्डवे ।
जगाम त्वरिता देशं क्षेममग्नेरनामयम्
evamuktā tataḥ śārṅgī putrānutsṛjya khāṇḍave |
jagāma tvaritā deśaṃ kṣemamagneranāmayam
ततस्तीक्ष्णार्चिरभ्यागात्त्वरितो हव्यवाहनः ।
यत्र शार्ङ्गा वभूवुस्ते मन्दपालस्य पुत्रकाः
tatastīkṣṇārcirabhyāgāttvarito havyavāhanaḥ |
yatra śārṅgā vabhūvuste mandapālasya putrakāḥ
ततस्तं ज्वलितं दृष्ट्वा ज्वलनं ते विहङ्गमाः ।
व्यथिताः करुणा वाचः श्रावयामासुरन्तिकात् ।
जरितारिस्ततो वाक्यं श्रावयामास पावकम्
tatastaṃ jvalitaṃ dṛṣṭvā jvalanaṃ te vihaṅgamāḥ |
vyathitāḥ karuṇā vācaḥ śrāvayāmāsurantikāt |
jaritāristato vākyaṃ śrāvayāmāsa pāvakam
पाठ का स्रोत: Wikisource · CC BY-SA 4.0 (Wikisource transcription of a public-domain text)