आदि पर्व

अध्याय 256: आग के समीप आने पर जरिता की दुविधा

इति श्रीमन्महाभारते आदिपर्वणि मयदर्शनपर्वणि षट्पञ्चाशदधिकद्विशततमोऽध्यायः ॥

23 श्लोक · 256 में से 261

इस अध्याय में क्या होता है

आग के समीप आने पर जरिता की दुविधा

आग फैलती देख जरिता अपने चार बिना पंख के बच्चों के लिए विलाप करती है; वह न उन्हें उठा सकती है, न छोड़ सकती है। जाते समय पिता ने कहा था: जरितारि कुल चलाए, सारिसृक्व सन्तान उत्पन्न करे, स्तम्बमित्र तप करे, द्रोण ब्रह्मवेत्ता बने। वह उन्हें शरीर से ढककर साथ मरने का निश्चय करती है। बच्चे कहते हैं, माँ, सुरक्षित स्थान पर उड़ जाओ; हम मरें तो और पुत्र होंगे, पर तुम मरीं तो कुल मिट जाएगा। वह उन्हें चूहे के बिल में बन्द करने की बात कहती है। बच्चे चूहे के भय से मना करते हैं। आग से मरना श्रेष्ठ है, सज्जन उसे मानते हैं और उससे ब्रह्मलोक मिलता है।

वैशंपायन उवाच

256.1

ततः प्रज्वलिते वह्नौ शार्ङ्गकास्ते सुदुःखिताः ।
व्यथिताः परमोद्विग्ना नाधिजग्मुः परायणम्

tataḥ prajvalite vahnau śārṅgakāste suduḥkhitāḥ |
vyathitāḥ paramodvignā nādhijagmuḥ parāyaṇam

256.2

निशाम्य पुत्रकान्बालान्माता तेषां तपस्विनी ।
जरिता शोकदुःखार्ता विललाप सुदुःखिता

niśāmya putrakānbālānmātā teṣāṃ tapasvinī |
jaritā śokaduḥkhārtā vilalāpa suduḥkhitā

जरितोवाच

256.3

अयमग्निर्दहन्कक्षमित आयाति भीषणः ।
जगत्संदीपयन्भीमो मम दुःखविवर्धनः

ayamagnirdahankakṣamita āyāti bhīṣaṇaḥ |
jagatsaṃdīpayanbhīmo mama duḥkhavivardhanaḥ

256.4

इमे च मां कर्षयन्ति शिशवो मन्दचेतसः ।
अबर्हाश्चरणैर्हीनाः पूर्वेषां नः परायणाः

ime ca māṃ karṣayanti śiśavo mandacetasaḥ |
abarhāścaraṇairhīnāḥ pūrveṣāṃ naḥ parāyaṇāḥ

256.5

त्रासयंश्चायमायाति लेलिहानो महीरुहान् ।
अजातपक्षाश्च सुता न शक्ताः सरणे मम

trāsayaṃścāyamāyāti lelihāno mahīruhān |
ajātapakṣāśca sutā na śaktāḥ saraṇe mama

256.6

आदाय च न शक्नोमि पुत्रांस्तरितुमात्मना ।
न च त्यक्तुमहं शक्ता हृदयं दूयतीव मे

ādāya ca na śaknomi putrāṃstaritumātmanā |
na ca tyaktumahaṃ śaktā hṛdayaṃ dūyatīva me

256.7

कं तु जह्यामहं पुत्रं कमादाय व्रजाम्यहम् ।
किंनु मे स्यात्कृतं कृत्वा मन्यध्वं पुत्रकाः कथम्

kaṃ tu jahyāmahaṃ putraṃ kamādāya vrajāmyaham |
kiṃnu me syātkṛtaṃ kṛtvā manyadhvaṃ putrakāḥ katham

256.8

चिन्तयाना विमोक्षं वो नाधिगच्छामि किंचन ।
छादयिष्यामि वो गात्रैः करिष्ये मरणं सह

cintayānā vimokṣaṃ vo nādhigacchāmi kiṃcana |
chādayiṣyāmi vo gātraiḥ kariṣye maraṇaṃ saha

256.9

जरितारौ कुलं ह्येतज्ज्येष्ठत्वेन प्रतिष्ठितम् ।
सारिसृक्कः प्रजायेत पितॄणां कुलवर्धनः

jaritārau kulaṃ hyetajjyeṣṭhatvena pratiṣṭhitam |
sārisṛkkaḥ prajāyeta pitṝṇāṃ kulavardhanaḥ

256.10

स्तम्बमित्रस्तपः कुर्याद्द्रोणो ब्रह्मविदां वरः ।
इत्येवमुक्त्वा प्रययौ पिता वो निर्घृणः पुरा

stambamitrastapaḥ kuryāddroṇo brahmavidāṃ varaḥ |
ityevamuktvā prayayau pitā vo nirghṛṇaḥ purā

256.11

कमुपादाय शक्येयं गन्तुं कष्टाऽऽपदुत्तमा ।
किं नु कृत्वा कृतं कार्यं भवेदिति च विह्वला ।
नापश्यत्स्वधिया मोक्षं स्वसुतानां तदानलात्

kamupādāya śakyeyaṃ gantuṃ kaṣṭā''paduttamā |
kiṃ nu kṛtvā kṛtaṃ kāryaṃ bhavediti ca vihvalā |
nāpaśyatsvadhiyā mokṣaṃ svasutānāṃ tadānalāt

वैशंपायन उवाच

256.12

एवं ब्रुवाणां शार्ङ्गास्ते प्रत्यूचुरथ मातरम् ।
स्नेहमुत्सृज्य मातस्त्वं पत यत्र न हव्यवाट्

evaṃ bruvāṇāṃ śārṅgāste pratyūcuratha mātaram |
snehamutsṛjya mātastvaṃ pata yatra na havyavāṭ

256.13

अस्मास्विह विनष्टेषु भवितारः सुतास्तव ।
त्वयि मातर्विनष्टायां न नः स्यात्कुलसन्ततिः

asmāsviha vinaṣṭeṣu bhavitāraḥ sutāstava |
tvayi mātarvinaṣṭāyāṃ na naḥ syātkulasantatiḥ

256.14

अन्ववेक्ष्यैतदुभयं क्षेमं स्याद्यत्कुलस्य नः ।
तद्वै कर्तुं परः कालो मातरेष भवेत्तव

anvavekṣyaitadubhayaṃ kṣemaṃ syādyatkulasya naḥ |
tadvai kartuṃ paraḥ kālo mātareṣa bhavettava

256.15

मा त्वं सर्वविनाशाय स्नेहं कार्षीः सुतेषु नः ।
न हीदं कर्म मोघं स्याल्लोककामस्य नः पितुः

mā tvaṃ sarvavināśāya snehaṃ kārṣīḥ suteṣu naḥ |
na hīdaṃ karma moghaṃ syāllokakāmasya naḥ pituḥ

जरितोवाच

256.16

इदमाखोर्बिलं भूमौ वृक्षस्यास्य समीपतः ।
तदाविशध्वं त्वरिता वह्नेरत्र न वो भयम्

idamākhorbilaṃ bhūmau vṛkṣasyāsya samīpataḥ |
tadāviśadhvaṃ tvaritā vahneratra na vo bhayam

256.17

ततोऽहं पांसुना छिद्रमपिधास्यामि पुत्रकाः ।
एवं प्रतिकृतं मन्ये ज्वलतः कृष्णवर्त्मनः

tato'haṃ pāṃsunā chidramapidhāsyāmi putrakāḥ |
evaṃ pratikṛtaṃ manye jvalataḥ kṛṣṇavartmanaḥ

256.18

तत एष्याम्यतीतेऽग्नौ विहन्तुं पांसुशंचयम् ।
रोचतामेष वो वादो मोक्षार्थं च हुताशनात्

tata eṣyāmyatīte'gnau vihantuṃ pāṃsuśaṃcayam |
rocatāmeṣa vo vādo mokṣārthaṃ ca hutāśanāt

शार्ङ्गका ऊचुः

256.19

अबर्हान्मांसभूतान्नः क्रव्यादाखुर्विनाशयेत् ।
पश्यमाना भयमिदं प्रवेष्टुं नात्र शक्नुमः

abarhānmāṃsabhūtānnaḥ kravyādākhurvināśayet |
paśyamānā bhayamidaṃ praveṣṭuṃ nātra śaknumaḥ

256.20

कथमग्निर्न नो धक्ष्येत्कथमाखुर्न नाशयेत् ।
कथं न स्यात्पिता मोघः कथं माता ध्रियेत नः

kathamagnirna no dhakṣyetkathamākhurna nāśayet |
kathaṃ na syātpitā moghaḥ kathaṃ mātā dhriyeta naḥ

256.21

बिल आखोर्विनाशः स्यादग्नेराकाशचारिणाम् ।
अन्ववेक्ष्यैतदुभयं श्रेयान्दाहो न भक्षणम्

bila ākhorvināśaḥ syādagnerākāśacāriṇām |
anvavekṣyaitadubhayaṃ śreyāndāho na bhakṣaṇam

256.22

गर्हितं मरणं नः स्यादाखुना भक्षिते बिले ।
शिष्टादिष्टः परित्यागः शरीरस्य हुताशनात्

garhitaṃ maraṇaṃ naḥ syādākhunā bhakṣite bile |
śiṣṭādiṣṭaḥ parityāgaḥ śarīrasya hutāśanāt

256.23

अग्निदाहे तु नियतं ब्रह्मलोके ध्रुवा गतिः

agnidāhe tu niyataṃ brahmaloke dhruvā gatiḥ

पाठ का स्रोत: Wikisource · CC BY-SA 4.0 (Wikisource transcription of a public-domain text)