स श्रुत्वाऽथात्मनो देहं सुपर्णः प्रेक्ष्य च स्वयम् ।
शरीरप्रतिसंहारमात्मनः संप्रचक्रमे
sa śrutvā'thātmano dehaṃ suparṇaḥ prekṣya ca svayam |
śarīrapratisaṃhāramātmanaḥ saṃpracakrame
इति श्रीमन्महाभारते आदिपर्वणि आस्तीकपर्वणि चतुर्विंशोऽध्यायः ॥
20 श्लोक · 24 में से 261
अपना भयानक शरीर देखकर गरुड़ अपना आकार और तेज समेट लेते हैं, ताकि कोई प्राणी न डरे। अरुण को पीठ पर बिठाकर वे पिता के घर से समुद्र के पार माता के पास जाते हैं। यहाँ रुरु पूछते हैं कि सूर्य लोकों को क्यों जलाना चाहते थे, और प्रमति बताते हैं। राहु के पकड़े जाने पर उसका वैर सूर्य पर आया, और सूर्य को क्षोभ हुआ कि जिन देवताओं की उन्होंने सहायता की, वे संकट में साथ नहीं देते। जब वे लोकों को तपाने लगे, देवता भगवान ब्रह्मा के पास दौड़े। ब्रह्मा ने कहा कि उपाय पहले से रखा है: महातेजस्वी अरुण सूर्य के आगे सारथी बनकर खड़े होंगे और उनका ताप रोकेंगे। इसी से अरुण उदित सूर्य को ढककर उनका रथ चलाते हैं।
सौतिरुवाच
स श्रुत्वाऽथात्मनो देहं सुपर्णः प्रेक्ष्य च स्वयम् ।
शरीरप्रतिसंहारमात्मनः संप्रचक्रमे
sa śrutvā'thātmano dehaṃ suparṇaḥ prekṣya ca svayam |
śarīrapratisaṃhāramātmanaḥ saṃpracakrame
सुपर्ण उवाच
न मे सर्वाणि भूतानि विभियुर्देहदर्शनात् ।
भीमरूपात्समुद्विग्रास्तस्मात्तेजस्तु संहरे
na me sarvāṇi bhūtāni vibhiyurdehadarśanāt |
bhīmarūpātsamudvigrāstasmāttejastu saṃhare
सौतिरुवाच
ततः कामगमः पक्षी कामवीर्यो विहंगमः ।
अरुणं चात्मनः पृष्ठमारोप्य स पितुर्गृहात्
tataḥ kāmagamaḥ pakṣī kāmavīryo vihaṃgamaḥ |
aruṇaṃ cātmanaḥ pṛṣṭhamāropya sa piturgṛhāt
मातुरन्तिकमागच्छत्परं तीरं महोदधेः ।
तत्रारुणश्च निक्षिप्तो पुरोदेशे महाद्युतेः
māturantikamāgacchatparaṃ tīraṃ mahodadheḥ |
tatrāruṇaśca nikṣipto purodeśe mahādyuteḥ
सूर्यस्तेजोभिरत्युग्रैर्लोकान्दग्धुमना यदा ।
(रुरुरुवाच)
किमर्थं भगवान्सूर्यो लोकान्दग्धुमनास्तदा
sūryastejobhiratyugrairlokāndagdhumanā yadā |
(rururuvāca)
kimarthaṃ bhagavānsūryo lokāndagdhumanāstadā
किमस्तापहृतं देवैर्येनमं मन्युराविशत् ।
(प्रमतिरुवाच)
चन्द्रार्काभ्यां यदा राहुराख्यातो ह्यमृतं पिबन्
kimastāpahṛtaṃ devairyenamaṃ manyurāviśat |
(pramatiruvāca)
candrārkābhyāṃ yadā rāhurākhyāto hyamṛtaṃ piban
वैरानुबन्धं कृतवांश्चन्द्रादित्यौ तदाऽनघ ।
बाध्यमानं ग्रहेणाथ ह्यादित्यं मन्युराविशत्
vairānubandhaṃ kṛtavāṃścandrādityau tadā'nagha |
bādhyamānaṃ graheṇātha hyādityaṃ manyurāviśat
सुरार्थाय समुत्पन्नो रोषो राहोस्तु मां प्रति ।
बह्वनर्थकरं पापमेकोऽहं समवाप्नुयाम्
surārthāya samutpanno roṣo rāhostu māṃ prati |
bahvanarthakaraṃ pāpameko'haṃ samavāpnuyām
सहाय एव कार्येषु न च कृच्छ्रेषु दृश्यते ।
पश्यन्ति ग्रस्यमानं मां सहन्ते वै दिवौकसः
sahāya eva kāryeṣu na ca kṛcchreṣu dṛśyate |
paśyanti grasyamānaṃ māṃ sahante vai divaukasaḥ
तस्माल्लोकविनाशार्थं ह्यवतिष्ठे न संशयः ।
एवं कृतमतिः सूर्यो ह्यस्तमभ्यगमद्गिरिम्
tasmāllokavināśārthaṃ hyavatiṣṭhe na saṃśayaḥ |
evaṃ kṛtamatiḥ sūryo hyastamabhyagamadgirim
तस्माल्लोकविनाशाय संतापयत भास्करः ।
ततो देवानुपागम्य प्रोचुरेवं महर्षयः
tasmāllokavināśāya saṃtāpayata bhāskaraḥ |
tato devānupāgamya procurevaṃ maharṣayaḥ
आद्यार्धरात्रसमये सर्वलोकभयावहः ।
उत्पत्स्यते महान्दाहस्त्रैलोक्यस्य विनाशनः
ādyārdharātrasamaye sarvalokabhayāvahaḥ |
utpatsyate mahāndāhastrailokyasya vināśanaḥ
ततो देवाः सर्षिगणा उपगम्य पितामहम् ।
अब्रुवन्किमिवेहाद्य महद्दाहकृतं भयम्
tato devāḥ sarṣigaṇā upagamya pitāmaham |
abruvankimivehādya mahaddāhakṛtaṃ bhayam
न तावद्दृश्यते सूर्यः क्षयोऽयं प्रतिभाति च ।
उदिते भगवन्भानौ कथनेतद्भविष्यति
na tāvaddṛśyate sūryaḥ kṣayo'yaṃ pratibhāti ca |
udite bhagavanbhānau kathanetadbhaviṣyati
पितामह उवाच
एष लोकविनाशाय रविरुद्यन्तुमुद्यतः ।
दृश्यन्नेव हि लोकान्स भस्मराशीकरिष्यति
eṣa lokavināśāya ravirudyantumudyataḥ |
dṛśyanneva hi lokānsa bhasmarāśīkariṣyati
तस्य प्रतिविधानं च विहितं पूर्वमेव हि ।
कश्यपस्य सुतो धीमानरुणेत्यभिविश्रुतः
tasya pratividhānaṃ ca vihitaṃ pūrvameva hi |
kaśyapasya suto dhīmānaruṇetyabhiviśrutaḥ
महाकायो महातेजाः स स्थास्यति पुरो रवेः ।
करिष्यति च सारथ्यं तेजश्चास्य हरिष्यति
mahākāyo mahātejāḥ sa sthāsyati puro raveḥ |
kariṣyati ca sārathyaṃ tejaścāsya hariṣyati
लोकानां स्वस्ति चैवं स्यादृषीणां च दिवौकसाम् ।
(प्रमतिरुवाच)
ततः पितामहाज्ञातः सर्वं चक्रे तदाऽरुणः
lokānāṃ svasti caivaṃ syādṛṣīṇāṃ ca divaukasām |
(pramatiruvāca)
tataḥ pitāmahājñātaḥ sarvaṃ cakre tadā'ruṇaḥ
उदितश्चैव सविता ह्यरुणेन समावृतः ।
एतत्ते सर्वमाख्यातं यत्सूर्यं मन्युराविशत्
uditaścaiva savitā hyaruṇena samāvṛtaḥ |
etatte sarvamākhyātaṃ yatsūryaṃ manyurāviśat
अरुणश्च यथैवास्य सारथ्यमकरोत्प्रभुः ।
भूय एवापरं प्रश्नं शृणु पूर्वमुदाहृतम्
aruṇaśca yathaivāsya sārathyamakarotprabhuḥ |
bhūya evāparaṃ praśnaṃ śṛṇu pūrvamudāhṛtam
पाठ का स्रोत: Wikisource · CC BY-SA 4.0 (Wikisource transcription of a public-domain text)