आदि पर्व

अध्याय 232: तिलोत्तमा का आना और पाण्डवों का नियम

इति श्रीमन्महाभारते आदिपर्वणि विदुरागमनराज्यलाभपर्वणि द्वात्रिंशदधिकद्विशततमोऽध्यायः ॥

33 श्लोक · 232 में से 261

इस अध्याय में क्या होता है

तिलोत्तमा का आना और पाण्डवों का नियम

त्रिलोकी के स्वामी बने सुन्द और उपसुन्द भोग में दिन बिताते हैं। विन्ध्य की शिला पर फूले साल वृक्षों के बीच वे मद्यपान कर रहे होते हैं कि लाल वस्त्र पहने, कर्णिकार के फूल चुनती तिलोत्तमा आती है। सुन्द उसका दाहिना हाथ पकड़ता है, उपसुन्द बायाँ। एक कहता है, यह मेरी पत्नी, तुम्हारी भाभी है; दूसरा कहता है, यह मेरी पत्नी, तुम्हारी बहू है। वे गदाएँ उठाकर एक-दूसरे को मार डालते हैं। ब्रह्मा तिलोत्तमा को सूर्य के लोकों में विचरने का वर देते हैं। नारद पाण्डवों को द्रौपदी के कारण भेद से सावधान करते हैं, और वे नियम बनाते हैं: जो भाई उसके साथ बैठे भाई को देख ले, वह बारह मास वन में ब्रह्मचारी रहे।

नारद उवाच

232.1

जित्वा तु पृथिवीं दैत्यौ निःसपत्नौ गतव्यथौ ।
कृत्वा त्रैलोक्यमव्यग्रं कृतकृत्यौ बभूवतुः

jitvā tu pṛthivīṃ daityau niḥsapatnau gatavyathau |
kṛtvā trailokyamavyagraṃ kṛtakṛtyau babhūvatuḥ

232.2

देवगन्धर्वयक्षाणां नागपार्थिवरक्षसाम् ।
आदाय सर्वरत्नानि परां तुष्टिमुपागतौ

devagandharvayakṣāṇāṃ nāgapārthivarakṣasām |
ādāya sarvaratnāni parāṃ tuṣṭimupāgatau

232.3

यदा न प्रतिषेद्धारस्तयोः सन्तीह केचन ॥
निरुद्योगौ तदा भूत्वा विजह्रातेऽमराविव

yadā na pratiṣeddhārastayoḥ santīha kecana ||
nirudyogau tadā bhūtvā vijahrāte'marāviva

232.4

स्त्रीभिर्माल्यैश्च गन्धैश्च भक्ष्यभोज्यैः सुपुष्कलैः ।
पानैश्च विविधैर्हृद्यैः परां प्रीतिमवापतुः

strībhirmālyaiśca gandhaiśca bhakṣyabhojyaiḥ supuṣkalaiḥ |
pānaiśca vividhairhṛdyaiḥ parāṃ prītimavāpatuḥ

232.5

अन्तःपुरवनोद्याने पर्वतेषु वनेषु च ।
यथेप्सितेषु देशेषु विजह्रातेऽमराविव

antaḥpuravanodyāne parvateṣu vaneṣu ca |
yathepsiteṣu deśeṣu vijahrāte'marāviva

232.6

ततः कदाचिद्विन्ध्यस्य प्रस्थे समशिलातले ।
पुष्पिताग्रेषु सालेषु विहारमभिजग्मतुः

tataḥ kadācidvindhyasya prasthe samaśilātale |
puṣpitāgreṣu sāleṣu vihāramabhijagmatuḥ

232.7

दिव्येषु सर्वकामेषु समानीतेषु तावुभौ ।
वरासनेषु संहृष्टौ सह स्त्रीभिर्निषीदतुः

divyeṣu sarvakāmeṣu samānīteṣu tāvubhau |
varāsaneṣu saṃhṛṣṭau saha strībhirniṣīdatuḥ

232.8

ततो वादित्रनृत्ताभ्यामुपातिष्ठन्त तौ स्त्रियः ।
गीतैश्च स्तुतिसंयुक्तैः प्रीत्या समुपजग्मिरे

tato vāditranṛttābhyāmupātiṣṭhanta tau striyaḥ |
gītaiśca stutisaṃyuktaiḥ prītyā samupajagmire

232.9

ततस्तिलोत्तमा तत्र वने पुष्पाणि चिन्वती ।
वेषं सा क्षिप्तमाधाय रक्तेनैकेन वाससा

tatastilottamā tatra vane puṣpāṇi cinvatī |
veṣaṃ sā kṣiptamādhāya raktenaikena vāsasā

232.10

नदीतीरेषु जातान्सा कर्णिकारान्प्रचिन्वती ।
शनैर्जगाम तं देशं यत्रास्तां तौ महासुरौ

nadītīreṣu jātānsā karṇikārānpracinvatī |
śanairjagāma taṃ deśaṃ yatrāstāṃ tau mahāsurau

232.11

तौ तु पीत्वा वरं पानं मदरक्तान्तलोचनौ ।
दृष्ट्वैव तां वरारोहां व्यथितौ संबभूवतुः

tau tu pītvā varaṃ pānaṃ madaraktāntalocanau |
dṛṣṭvaiva tāṃ varārohāṃ vyathitau saṃbabhūvatuḥ

232.12

तावुत्थायासनं हित्वा जग्मतुर्यत्र सा स्थिता ।
उभौ च कामसंमत्तावुभौ प्रार्थयतश्च ताम्

tāvutthāyāsanaṃ hitvā jagmaturyatra sā sthitā |
ubhau ca kāmasaṃmattāvubhau prārthayataśca tām

232.13

दक्षिणे तां करे सुभ्रूं सुन्दो जग्राह पाणिना ।
उपसुन्दोपि जग्राह वामे पाणौ तिलोत्तमाम्

dakṣiṇe tāṃ kare subhrūṃ sundo jagrāha pāṇinā |
upasundopi jagrāha vāme pāṇau tilottamām

232.14

वरप्रदानमत्तौ तावौरसेन बलेन च ।
धनरत्नमदाभ्यां च सुरापानमदेन च

varapradānamattau tāvaurasena balena ca |
dhanaratnamadābhyāṃ ca surāpānamadena ca

232.15

सर्वैरेतैर्मदैर्मत्तावन्योन्यं भ्रुकुटीकृतौ ।
मदकामसमाविष्टौ परस्परमथोचतुः

sarvairetairmadairmattāvanyonyaṃ bhrukuṭīkṛtau |
madakāmasamāviṣṭau parasparamathocatuḥ

232.16

मम भार्या तव गुरुरिति सुन्दोऽभ्यभाषत ।
मम भार्या तव वधूरुपसुन्दोऽभ्यभाषत

mama bhāryā tava gururiti sundo'bhyabhāṣata |
mama bhāryā tava vadhūrupasundo'bhyabhāṣata

232.17

नैषा तव ममैषेति ततस्तौ मन्युराविशत् ।
तस्या रूपेण संमत्तौ विगतस्नेहसौहृदौ

naiṣā tava mamaiṣeti tatastau manyurāviśat |
tasyā rūpeṇa saṃmattau vigatasnehasauhṛdau

232.18

तस्या हेतोर्गदे भीमे संगृह्णीतामुभौ तदा ।
प्रगृह्य च गदे भीमे तस्यां तौ काममोहितौ

tasyā hetorgade bhīme saṃgṛhṇītāmubhau tadā |
pragṛhya ca gade bhīme tasyāṃ tau kāmamohitau

232.19

अहंपूर्वमहंपूर्वमित्यन्योन्यं निजघ्नतुः ।
तौ गदाभिहतौ भीमौ पेततुर्धरणीतले

ahaṃpūrvamahaṃpūrvamityanyonyaṃ nijaghnatuḥ |
tau gadābhihatau bhīmau petaturdharaṇītale

232.20

रुधिरेणावसिक्ताङ्गौ द्वाविवार्कौ नभश्च्युतौ ।
ततस्ता विद्रुता नार्यः स च दैत्यगणस्तथा

rudhireṇāvasiktāṅgau dvāvivārkau nabhaścyutau |
tatastā vidrutā nāryaḥ sa ca daityagaṇastathā

232.21

पातालमगमत्सर्वो विषादभयकम्पितः ।
ततः पितामहस्तत्र सहदेवैर्महर्षिभिः

pātālamagamatsarvo viṣādabhayakampitaḥ |
tataḥ pitāmahastatra sahadevairmaharṣibhiḥ

232.22

आजगाम विशुद्धात्मा पूजयंश्च तिलोत्तमाम् ।
वरेण च्छन्दयामास भगवान्प्रपितामहः

ājagāma viśuddhātmā pūjayaṃśca tilottamām |
vareṇa cchandayāmāsa bhagavānprapitāmahaḥ

232.23

वरं दित्सुः स तत्रैनां प्रीतः प्राह पितामहः ।
आदित्यचरिताँल्लोकान्विचरिष्यसि भामिनि

varaṃ ditsuḥ sa tatraināṃ prītaḥ prāha pitāmahaḥ |
ādityacaritām̐llokānvicariṣyasi bhāmini

232.24

तेजसा च सुदृष्टां त्वां न करिष्यति कश्चन ।
एवं तस्यै वरं दत्वा सर्वलोकपितामहः

tejasā ca sudṛṣṭāṃ tvāṃ na kariṣyati kaścana |
evaṃ tasyai varaṃ datvā sarvalokapitāmahaḥ

232.25

इन्द्रे त्रैलोक्यमाधाय ब्रह्मलोकं गतः प्रभुः ।
एवं तौ सहितौ भऊत्वा सर्वार्थेष्वेकनिश्चयौ

indre trailokyamādhāya brahmalokaṃ gataḥ prabhuḥ |
evaṃ tau sahitau bhaūtvā sarvārtheṣvekaniścayau

232.26

तिलोत्तमार्थं संक्रुद्धावन्योन्यमभिजघ्नतुः ।
तस्माद्ब्रवीमि वः स्नेहात्सर्वाभरतसत्तमाः

tilottamārthaṃ saṃkruddhāvanyonyamabhijaghnatuḥ |
tasmādbravīmi vaḥ snehātsarvābharatasattamāḥ

232.27

यथा वो नात्र भेदः स्यात्सर्वेषां द्रौपदीकृते ।
तथा कुरुत भद्रं वो मम चेत्प्रियमिच्छथ

yathā vo nātra bhedaḥ syātsarveṣāṃ draupadīkṛte |
tathā kuruta bhadraṃ vo mama cetpriyamicchatha

वैशंपायन उवाच

232.28

एवमुक्ता महात्मानो नारदेन महर्षिणा ।
समयं चक्रिरे राजंस्तेऽन्योन्यवशमागताः ।
समक्षं तस्य देवर्षेर्नारदस्यामितौजसः

evamuktā mahātmāno nāradena maharṣiṇā |
samayaṃ cakrire rājaṃste'nyonyavaśamāgatāḥ |
samakṣaṃ tasya devarṣernāradasyāmitaujasaḥ

232.29

एकैकस्य गृहे कृष्णा वसेद्वर्षमकल्मषा
द्रौपद्या नः सहासीनानन्योन्यं योऽभिदर्शयेत् ।
स नो द्वादश मासानि ब्रह्मचारी वने वसेत्

ekaikasya gṛhe kṛṣṇā vasedvarṣamakalmaṣā
draupadyā naḥ sahāsīnānanyonyaṃ yo'bhidarśayet |
sa no dvādaśa māsāni brahmacārī vane vaset

232.30

कृते तु समये तस्मिन्पाण्डवैर्धर्मचारिभिः ।
नारदोऽप्यगमत्प्रीत इष्टं देशं महामुनिः

kṛte tu samaye tasminpāṇḍavairdharmacāribhiḥ |
nārado'pyagamatprīta iṣṭaṃ deśaṃ mahāmuniḥ

232.31

एवं तैः समयः पूर्वं कृतो नारदचोदितैः ।
न चाभिद्यन्त ते सर्वे तदान्योन्येन भारत

evaṃ taiḥ samayaḥ pūrvaṃ kṛto nāradacoditaiḥ |
na cābhidyanta te sarve tadānyonyena bhārata

232.32

अभ्यनन्दन्त ते सर्वे तदान्योन्यं च पाण्डवाः ।
एतद्विस्तरशः सर्वमाख्यातं ते नराधिप

abhyanandanta te sarve tadānyonyaṃ ca pāṇḍavāḥ |
etadvistaraśaḥ sarvamākhyātaṃ te narādhipa

232.33

काले च तस्मिन्संपन्ने यथावज्जनमेजय

kāle ca tasminsaṃpanne yathāvajjanamejaya

पाठ का स्रोत: Wikisource · CC BY-SA 4.0 (Wikisource transcription of a public-domain text)