आदि पर्व

अध्याय 231: विश्वकर्मा द्वारा तिलोत्तमा का निर्माण

इति श्रीमन्महाभारते आदिपर्वणि विदुरागमनराज्यलाभपर्वणि एकत्रिंशदधिकद्विशततमोऽध्यायः ॥

34 श्लोक · 231 में से 261

इस अध्याय में क्या होता है

विश्वकर्मा द्वारा तिलोत्तमा का निर्माण

इस संहार से दुखी देवर्षि और ऋषि भगवान ब्रह्मा के पास जाते हैं, जहाँ महादेव, अग्नि, इन्द्र और देवता बैठे हैं, और सब कुछ बताते हैं। ब्रह्मा विश्वकर्मा को बुलाकर कहते हैं: ऐसी एक स्त्री रचो जिसे सब चाहें। विश्वकर्मा त्रिलोकी की हर सुन्दर वस्तु एकत्र कर उसके अङ्गों में करोड़ों रत्न जड़ते हैं। तिल-तिल उत्तम अंश से बनी होने के कारण उसका नाम तिलोत्तमा पड़ता है, और ब्रह्मा उसे सबकी दृष्टि खींचने का वर देते हैं। वे उसे दोनों असुरों में फूट डालने भेजते हैं। वह सभा की प्रदक्षिणा करती है। ग्रन्थ के अनुसार उसके घूमते समय महादेव हर दिशा में मुख प्रकट कर चतुर्मुख होते हैं और इन्द्र के सहस्र नेत्र हो जाते हैं। केवल ब्रह्मा स्थिर रहते हैं और कहते हैं कि कार्य सिद्ध हुआ।

231.1

ततो देवर्षयः सर्वे सिद्धाश्च परमर्षयः ।
जग्मुस्तदा परमार्तिं दृष्ट्वा तत्कदनं महत्

tato devarṣayaḥ sarve siddhāśca paramarṣayaḥ |
jagmustadā paramārtiṃ dṛṣṭvā tatkadanaṃ mahat

231.2

तेऽभिजग्मुर्जितक्रोधा जितात्मानो जितेन्द्रियाः ।
पितामहस्य भनं जगतः कृपया तदा

te'bhijagmurjitakrodhā jitātmāno jitendriyāḥ |
pitāmahasya bhanaṃ jagataḥ kṛpayā tadā

231.3

ततो ददृशुरासीनं सह देवैः पितामहम् ।
सिद्धैर्ब्रह्मर्षिभिश्चैव समन्तात्परिवारितम्

tato dadṛśurāsīnaṃ saha devaiḥ pitāmaham |
siddhairbrahmarṣibhiścaiva samantātparivāritam

231.4

तत्र देवो महादेवस्तत्राग्निर्वायुना सह ।
चन्द्रादित्यौ च शक्रश्च पारमेष्ठ्यास्तथर्षयः

tatra devo mahādevastatrāgnirvāyunā saha |
candrādityau ca śakraśca pārameṣṭhyāstatharṣayaḥ

231.5

वैखानसा वालखिल्या वानप्रस्था मरीचिपाः ।
अजाश्चैवाविमूढाश्च तेजोगर्भास्तपस्विनः

vaikhānasā vālakhilyā vānaprasthā marīcipāḥ |
ajāścaivāvimūḍhāśca tejogarbhāstapasvinaḥ

231.6

ऋषयः सर्व एवैते पितामहमुपागमन् ।
ततोऽभिगम्य ते दीनाः सर्व एव महर्षयः

ṛṣayaḥ sarva evaite pitāmahamupāgaman |
tato'bhigamya te dīnāḥ sarva eva maharṣayaḥ

231.7

सुन्दोपसुन्दयौः कर्म सर्वमेव शशंसिरे ।
यथा हृतं यथा चैव कृतं येन क्रमेण च

sundopasundayauḥ karma sarvameva śaśaṃsire |
yathā hṛtaṃ yathā caiva kṛtaṃ yena krameṇa ca

231.8

न्यवेदयंस्ततः सर्वमखिलेन पितामहे ।
ततो देवगणाः सर्वे ते चैव परमर्षयः

nyavedayaṃstataḥ sarvamakhilena pitāmahe |
tato devagaṇāḥ sarve te caiva paramarṣayaḥ

231.9

तमेवार्थं पुरस्कृत्य पितामहमचोदयन् ।
ततः पितामहः श्रुत्वा सर्वेषां तद्वचस्तदा

tamevārthaṃ puraskṛtya pitāmahamacodayan |
tataḥ pitāmahaḥ śrutvā sarveṣāṃ tadvacastadā

231.10

मुहूर्तमिव संचिन्त्य कर्तव्यस्य च निश्चयम् ।
तयोर्वधं समुद्दिश्य विश्वकर्माणमाह्वयत्

muhūrtamiva saṃcintya kartavyasya ca niścayam |
tayorvadhaṃ samuddiśya viśvakarmāṇamāhvayat

231.11

दृष्ट्वा च विश्वकर्माणं व्यादिदेश पितामहः ।
सृज्यतां प्रार्थनीयैका प्रमदेति महातपाः

dṛṣṭvā ca viśvakarmāṇaṃ vyādideśa pitāmahaḥ |
sṛjyatāṃ prārthanīyaikā pramadeti mahātapāḥ

231.12

पितामहं नमस्कृत्य तद्वाक्यमभिनन्द्य च ।
निर्ममे योषितं दिव्यां चिन्तयित्वा पुनःपुनः

pitāmahaṃ namaskṛtya tadvākyamabhinandya ca |
nirmame yoṣitaṃ divyāṃ cintayitvā punaḥpunaḥ

231.13

त्रिषु लोकेषु यत्किंचिद्भूतं स्थावरजङ्गमम् ।
समानयद्दर्शनीयं तत्तदत्र स विश्ववित्

triṣu lokeṣu yatkiṃcidbhūtaṃ sthāvarajaṅgamam |
samānayaddarśanīyaṃ tattadatra sa viśvavit

231.14

कोटिशश्चैव रत्नानि तस्या गात्रे न्यवेशत् ।
तां रत्नसङ्घातमयीमसृजद्देवरूपिणीम्

koṭiśaścaiva ratnāni tasyā gātre nyaveśat |
tāṃ ratnasaṅghātamayīmasṛjaddevarūpiṇīm

231.15

सा प्रयत्नेन महता निर्मिता विश्वकर्मणा ।
त्रिषु लोकेषु नारीणां रूपेणाप्रतिमाभवत्

sā prayatnena mahatā nirmitā viśvakarmaṇā |
triṣu lokeṣu nārīṇāṃ rūpeṇāpratimābhavat

231.16

न तस्याः सूक्ष्ममप्यस्ति यद्गात्रे रूपसंपदा ।
नियुक्ता यत्र वा दृष्टिर्न सज्जति निरीक्षताम्

na tasyāḥ sūkṣmamapyasti yadgātre rūpasaṃpadā |
niyuktā yatra vā dṛṣṭirna sajjati nirīkṣatām

231.17

सा विग्रहवतीव श्रीः कामरूपा वपुष्मती ।
पितामहमुपातिष्ठत्किं करोमीति चाब्रवीत्

sā vigrahavatīva śrīḥ kāmarūpā vapuṣmatī |
pitāmahamupātiṣṭhatkiṃ karomīti cābravīt

231.18

प्रीतो भूत्वा स दृष्ट्वैव प्रीत्या चास्यै वरं ददौ ।
कान्तत्वं सर्वभूतानां साश्रियानुत्तमं वपुः

prīto bhūtvā sa dṛṣṭvaiva prītyā cāsyai varaṃ dadau |
kāntatvaṃ sarvabhūtānāṃ sāśriyānuttamaṃ vapuḥ

231.19

सा तेन वरदानेन कर्तुश्च क्रियया तदा ।
जहार सर्वभूतानां चक्षूंषि च मनांसि च

sā tena varadānena kartuśca kriyayā tadā |
jahāra sarvabhūtānāṃ cakṣūṃṣi ca manāṃsi ca

231.20

तिलंतिलं समानीय रत्नानां यद्विनिर्मिता ।
तिलोत्तमेति तत्तस्या नाम चक्रे पितामहः

tilaṃtilaṃ samānīya ratnānāṃ yadvinirmitā |
tilottameti tattasyā nāma cakre pitāmahaḥ

231.21

ब्रह्माणं सा नमस्कृत्य प्राञ्जलिर्वाक्यमब्रवीत् ।
किं कार्यं मयि भूतेश येनास्म्यद्येह निर्मिता

brahmāṇaṃ sā namaskṛtya prāñjalirvākyamabravīt |
kiṃ kāryaṃ mayi bhūteśa yenāsmyadyeha nirmitā

पितामह उवाच

231.22

गच्छ सुन्दोपसुन्दाभ्यामसुराभ्यां तिलोत्तमे ।
प्रार्थनीयेन रूपेण कुरु भद्रे प्रलोभनम्

gaccha sundopasundābhyāmasurābhyāṃ tilottame |
prārthanīyena rūpeṇa kuru bhadre pralobhanam

231.23

त्वत्कृते दर्शादेव रूपसंपत्कृतेन वै ।
विरोधः स्याद्यथा ताभ्यामन्योन्येन तथा कुरु

tvatkṛte darśādeva rūpasaṃpatkṛtena vai |
virodhaḥ syādyathā tābhyāmanyonyena tathā kuru

नारद उवाच

231.24

सा तथेति प्रतिज्ञाय नमस्कृत्य पितामहम् ।
चकार मण्डलं तत्र विबुधानां प्रदक्षिणम्

sā tatheti pratijñāya namaskṛtya pitāmaham |
cakāra maṇḍalaṃ tatra vibudhānāṃ pradakṣiṇam

231.25

प्राङ्मुखो भगवानास्ते दक्षिणेन महेश्वरः ।
देवाश्चैवोत्तरेणासन्सर्वतस्त्वृषयोऽभवन्

prāṅmukho bhagavānāste dakṣiṇena maheśvaraḥ |
devāścaivottareṇāsansarvatastvṛṣayo'bhavan

231.26

कुर्वन्त्यां तु तदा तत्र मण्डलं तत्प्रदक्षिणम् ।
इन्द्रः स्थाणुश्च भगवान्धैर्येण तु परिच्युतौ

kurvantyāṃ tu tadā tatra maṇḍalaṃ tatpradakṣiṇam |
indraḥ sthāṇuśca bhagavāndhairyeṇa tu paricyutau

231.27

द्रष्टुकामस्य चात्यर्थं गतायां पार्श्वतस्तथा ।
अन्यदञ्चितपद्माक्षं दक्षिणं निःसृतं मुखम्

draṣṭukāmasya cātyarthaṃ gatāyāṃ pārśvatastathā |
anyadañcitapadmākṣaṃ dakṣiṇaṃ niḥsṛtaṃ mukham

231.28

पृष्ठतः परिवर्तन्त्यां पश्चिमं निःसृतं मुखम् ।
गतायां चोत्तरं पार्श्वमुत्तरं निःसृतं मुखम्

pṛṣṭhataḥ parivartantyāṃ paścimaṃ niḥsṛtaṃ mukham |
gatāyāṃ cottaraṃ pārśvamuttaraṃ niḥsṛtaṃ mukham

231.29

महेन्द्रस्यापि नेत्राणां पृष्ठतः पार्श्वतोग्रतः ।
रक्तान्तानां विशालानां सहस्रं सर्वतोऽभवत्

mahendrasyāpi netrāṇāṃ pṛṣṭhataḥ pārśvatogrataḥ |
raktāntānāṃ viśālānāṃ sahasraṃ sarvato'bhavat

231.30

एवं चतुर्मुखः स्थाणुर्महादेवोऽभवत्पुरा ।
तथा सहस्रनेत्रश्च बभूव बलसूदनः

evaṃ caturmukhaḥ sthāṇurmahādevo'bhavatpurā |
tathā sahasranetraśca babhūva balasūdanaḥ

231.31

तथा देवनिकायानां महर्षीणां च सर्वशः ।
मुखानि चाभ्यवर्तन्त येन याति तिलोत्तमा

tathā devanikāyānāṃ maharṣīṇāṃ ca sarvaśaḥ |
mukhāni cābhyavartanta yena yāti tilottamā

231.32

तस्या गात्रे निपतिता दृष्टिस्तेषां महात्मनाम् ।
सर्वेषामेव भूयिष्ठमृते देवं पितामहम्

tasyā gātre nipatitā dṛṣṭisteṣāṃ mahātmanām |
sarveṣāmeva bhūyiṣṭhamṛte devaṃ pitāmaham

231.33

गच्छन्त्यां तु तया सर्वे देवाश्च परमर्षयः ।
कृतमित्येव तत्कार्यं मेनिरे रूपसंपदा

gacchantyāṃ tu tayā sarve devāśca paramarṣayaḥ |
kṛtamityeva tatkāryaṃ menire rūpasaṃpadā

231.34

तिलोत्तमायां तस्यां तु गतायां लोकभावनः ।
कृतं कार्यमिति श्रीमानब्रवीच्च पितामहः ।
सर्वान्विसर्जयामास देवानृषिगणांश्च तान्

tilottamāyāṃ tasyāṃ tu gatāyāṃ lokabhāvanaḥ |
kṛtaṃ kāryamiti śrīmānabravīcca pitāmahaḥ |
sarvānvisarjayāmāsa devānṛṣigaṇāṃśca tān

पाठ का स्रोत: Wikisource · CC BY-SA 4.0 (Wikisource transcription of a public-domain text)