आदि पर्व

अध्याय 230: दोनों असुरों द्वारा त्रिलोकी का विनाश

इति श्रीमन्महाभारते आदिपर्वणि विदुरागमनराज्यलाभपर्वणि त्रिंशदधिकद्विशततमोऽध्यायः ॥

27 श्लोक · 230 में से 261

इस अध्याय में क्या होता है

दोनों असुरों द्वारा त्रिलोकी का विनाश

उत्सव समाप्त होने पर सुन्द और उपसुन्द मघा नक्षत्र में विशाल सेना लेकर निकलते हैं। देवता ब्रह्मलोक भाग जाते हैं। दोनों भाई इन्द्रलोक, यक्षों, पाताल के नागों और समुद्रवासी जातियों को जीत लेते हैं। फिर आज्ञा देते हैं कि यज्ञ करने वाले हर राजा और ब्राह्मण को मारो, क्योंकि यज्ञ से देवताओं का बल बढ़ता है। उनके सैनिक आश्रमों की अग्नियाँ जल में फेंक देते हैं। ऋषियों के शाप उन पर पत्थर पर लगे बाणों की तरह निष्फल होते हैं। हाथी, सिंह और बाघ बनकर, या अदृश्य होकर, वे छिपे मुनियों को मारते हैं। यज्ञ, स्वाध्याय, खेती, विवाह और पितृकर्म रुक जाते हैं और धरती हड्डियों से भर जाती है। निष्कण्टक होकर दोनों कुरुक्षेत्र में डेरा डालते हैं।

नारद उवाच

230.1

उत्सवे वृत्तमात्रे तु त्रैलोक्याकाङ्क्षिणावुभौ ।
मन्त्रयित्वा ततः सेनां तावज्ञापयतां तदा

utsave vṛttamātre tu trailokyākāṅkṣiṇāvubhau |
mantrayitvā tataḥ senāṃ tāvajñāpayatāṃ tadā

230.2

सुहृद्भिरप्यनुज्ञातौ दैत्यैर्वृद्धैश्च मन्त्रिभिः ।
कृत्वा प्रास्थानिकं रात्रौ मघासु ययतुस्तदा

suhṛdbhirapyanujñātau daityairvṛddhaiśca mantribhiḥ |
kṛtvā prāsthānikaṃ rātrau maghāsu yayatustadā

230.3

गदापिट्टशधारिण्या शूलमुद्गरहस्तया ।
प्रस्थितौ सह वर्मिण्या महत्या दैत्यसेनया

gadāpiṭṭaśadhāriṇyā śūlamudgarahastayā |
prasthitau saha varmiṇyā mahatyā daityasenayā

230.4

मङ्गलैः स्तुतिभिश्चापि विजयप्रतिसंहितैः ।
चारणैः स्तूयमानौ तौ जग्मतुः परया मुदा

maṅgalaiḥ stutibhiścāpi vijayapratisaṃhitaiḥ |
cāraṇaiḥ stūyamānau tau jagmatuḥ parayā mudā

230.5

तावन्तरिक्षमुत्प्लुत्य दैत्यौ कामगमावुभौ ।
देवानामेव भवनं जग्मतुर्युद्दुर्मदौ

tāvantarikṣamutplutya daityau kāmagamāvubhau |
devānāmeva bhavanaṃ jagmaturyuddurmadau

230.6

तयोरागमनं ज्ञात्वा वरदानं च तत्प्रभोः ।
हित्वा त्रिविष्टपं जग्मुर्ब्रह्मलोकं ततः सुराः

tayorāgamanaṃ jñātvā varadānaṃ ca tatprabhoḥ |
hitvā triviṣṭapaṃ jagmurbrahmalokaṃ tataḥ surāḥ

230.7

ताविन्द्रलोकं निर्जित्य यक्षरक्षोगणांस्तदा ।
खेचराण्यपि भूतानि जघ्नतुस्तीव्रविक्रमौ

tāvindralokaṃ nirjitya yakṣarakṣogaṇāṃstadā |
khecarāṇyapi bhūtāni jaghnatustīvravikramau

230.8

अन्तर्भूमिगतान्नागाञ्जित्वा तौ च महारथौ ।
समुद्रवासिनीः सर्वा म्लेच्छजातीर्विजिग्यतुः

antarbhūmigatānnāgāñjitvā tau ca mahārathau |
samudravāsinīḥ sarvā mlecchajātīrvijigyatuḥ

230.9

ततः सर्वां महीं जेतुमारब्धावुग्रशासनौ ।
सैनिकांश्च समाहूय सुतीक्ष्णं वाक्यमूचतुः

tataḥ sarvāṃ mahīṃ jetumārabdhāvugraśāsanau |
sainikāṃśca samāhūya sutīkṣṇaṃ vākyamūcatuḥ

230.10

राजर्षयो महायज्ञैर्हव्यकव्यैर्द्विजातयः ।
तेजो बलं च देवानां वर्धन्ति श्रियं तथा

rājarṣayo mahāyajñairhavyakavyairdvijātayaḥ |
tejo balaṃ ca devānāṃ vardhanti śriyaṃ tathā

230.11

तेषामेवं प्रवृत्तानां सर्वेषामसुरद्विषाम् ।
संभूय सर्वैरस्माभिः कार्यः सर्वात्मना वधः

teṣāmevaṃ pravṛttānāṃ sarveṣāmasuradviṣām |
saṃbhūya sarvairasmābhiḥ kāryaḥ sarvātmanā vadhaḥ

230.12

एवं सर्वान्समादिश्य पूर्वतीरे महोदधेः ।
क्रूरां मतिं समास्थाय जग्मतुः सर्वतोमुखौ

evaṃ sarvānsamādiśya pūrvatīre mahodadheḥ |
krūrāṃ matiṃ samāsthāya jagmatuḥ sarvatomukhau

230.13

यज्ञैर्यजन्ति ये केचिद्याजयन्ति च ये द्विजाः ।
तान्सर्वान्प्रसभं हत्वा बलिनौ जग्मतुस्ततः

yajñairyajanti ye kecidyājayanti ca ye dvijāḥ |
tānsarvānprasabhaṃ hatvā balinau jagmatustataḥ

230.14

आश्रमेष्वग्निहोत्राणि मुनीनां भावितात्मनाम् ।
गृहीत्वा प्रक्षिपन्त्यप्सु विश्रब्धं सैनिकास्तयोः

āśrameṣvagnihotrāṇi munīnāṃ bhāvitātmanām |
gṛhītvā prakṣipantyapsu viśrabdhaṃ sainikāstayoḥ

230.15

तपोधनैश्च ये क्रुद्धैः शापा उक्ता महात्मभिः ।
नाक्रामन्त तयोस्तेऽपि वरदाननिराकृताः

tapodhanaiśca ye kruddhaiḥ śāpā uktā mahātmabhiḥ |
nākrāmanta tayoste'pi varadānanirākṛtāḥ

230.16

नाक्रामन्त यदा शापा बाणा मुक्ताः शिलास्विव ।
नियमान्संपरित्यज्य व्यद्रवन्त द्विजातयः

nākrāmanta yadā śāpā bāṇā muktāḥ śilāsviva |
niyamānsaṃparityajya vyadravanta dvijātayaḥ

230.17

पृथिव्यां ये तपःसिद्धा दान्ताः शमपरायणाः ।
तयोर्भयाद्दुद्रुवुस्ते वैनतेयादिवोरगाः

pṛthivyāṃ ye tapaḥsiddhā dāntāḥ śamaparāyaṇāḥ |
tayorbhayāddudruvuste vainateyādivoragāḥ

230.18

मथितैराश्रमैर्भग्नैर्विकीर्णकलशस्रुवैः ।
शून्यमासीज्जगत्सर्वं कालेनेव हतं तदा

mathitairāśramairbhagnairvikīrṇakalaśasruvaiḥ |
śūnyamāsījjagatsarvaṃ kāleneva hataṃ tadā

230.19

ततो राजन्नदृश्यद्भिर्ऋषिभिश्च महासुरौ ।
उभौ विनिश्चयं कृत्वा विकुर्वाते वधैषिणौ

tato rājannadṛśyadbhirṛṣibhiśca mahāsurau |
ubhau viniścayaṃ kṛtvā vikurvāte vadhaiṣiṇau

230.20

प्रभिन्नकरटौ मत्तौ भूत्वा कुञ्जररूपिणौ ।
संलीनमपि दुर्गेषु निन्यतुर्यमसादनम्

prabhinnakaraṭau mattau bhūtvā kuñjararūpiṇau |
saṃlīnamapi durgeṣu ninyaturyamasādanam

230.21

सिंहौ भूत्वा पुनर्व्याघ्रौ पुनश्चान्तर्हितावुभौ ।
तैस्तैरुपायैस्तौ क्रूरावृषीन्दृष्ट्वा निजघ्नतुः

siṃhau bhūtvā punarvyāghrau punaścāntarhitāvubhau |
taistairupāyaistau krūrāvṛṣīndṛṣṭvā nijaghnatuḥ

230.22

निवृत्तयज्ञस्वाध्याया प्रनष्टनृपतिद्विजा ।
उत्सन्नोत्सवयज्ञा च बभूव वसुधा तदा

nivṛttayajñasvādhyāyā pranaṣṭanṛpatidvijā |
utsannotsavayajñā ca babhūva vasudhā tadā

230.23

हाहाभूता भयार्ता च निवृत्तविपणापणा ।
निवृत्तदेवकार्या च पुण्योद्वाहविवर्जिता

hāhābhūtā bhayārtā ca nivṛttavipaṇāpaṇā |
nivṛttadevakāryā ca puṇyodvāhavivarjitā

230.24

निवृत्तकृषिगोरक्षा विध्वस्तनगराश्रमा ।
अस्थिकङ्कालसंकीर्णा भूर्बभूवोग्रदर्शना

nivṛttakṛṣigorakṣā vidhvastanagarāśramā |
asthikaṅkālasaṃkīrṇā bhūrbabhūvogradarśanā

230.25

निवृत्तपितृकार्यं च निर्वषट्कारमङ्गलम् ।
जगत्प्रतिभयाकारं दुष्प्रेक्ष्यमभवत्तदा

nivṛttapitṛkāryaṃ ca nirvaṣaṭkāramaṅgalam |
jagatpratibhayākāraṃ duṣprekṣyamabhavattadā

230.26

चन्द्रादित्यौ ग्रहास्तारा नक्षत्राणि दिवौकसः ।
जग्मुर्विषादं तत्कर्म दृष्ट्वा सुन्दोपसुन्दयोः

candrādityau grahāstārā nakṣatrāṇi divaukasaḥ |
jagmurviṣādaṃ tatkarma dṛṣṭvā sundopasundayoḥ

230.27

एवं सर्वा दिशो दैत्यौ जित्वा क्रूरेण कर्मणा ।
निःसपत्नौ कुरुक्षेत्रे निवेशमभिचक्रतुः

evaṃ sarvā diśo daityau jitvā krūreṇa karmaṇā |
niḥsapatnau kurukṣetre niveśamabhicakratuḥ

पाठ का स्रोत: Wikisource · CC BY-SA 4.0 (Wikisource transcription of a public-domain text)