आदि पर्व

अध्याय 204: राजाओं का क्रोध, श्रीकृष्ण ने पाण्डवों को पहचाना

इति श्रीमन्महाभारते आदिपर्वणि स्वयंवरपर्वणि चतुरधिकद्विशततमोऽध्यायः ॥

26 श्लोक · 204 में से 261

इस अध्याय में क्या होता है

राजाओं का क्रोध, श्रीकृष्ण ने पाण्डवों को पहचाना

द्रुपद जब कन्या एक ब्राह्मण को देने लगते हैं, तो राजा कुपित हो जाते हैं। वे कहते हैं कि द्रुपद ने हमें भोजन कराकर तिनके के समान ठुकरा दिया। स्वयंवर क्षत्रियों का होता है, ब्राह्मणों का नहीं। कन्या किसी को न चुने तो इसे अग्नि में डाल दो। ब्राह्मण का वध नहीं होगा, पर द्रुपद और उसका पुत्र मारे जाएँ। वे शस्त्र लेकर दौड़ते हैं और द्रुपद ब्राह्मणों की शरण जाते हैं। भीम एक वृक्ष उखाड़कर, पत्ते झाड़कर दण्डधारी यम की भाँति अर्जुन के पास खड़े हो जाते हैं। यह देख श्रीकृष्ण बलराम से कहते हैं कि धनुर्धर अर्जुन है, वृक्षधारी भीम, गोरे लम्बे युधिष्ठिर और दोनों कुमार नकुल सहदेव हैं। बलराम कुन्ती के जीवित होने पर हर्षित होते हैं।

वैशंपायन उवाच

204.1

तस्मै दित्सति कन्यां तु ब्राह्मणाय तदा नृपे ।
कोप आसीन्महीपानामालोक्यान्योन्यमन्तिकात्

tasmai ditsati kanyāṃ tu brāhmaṇāya tadā nṛpe |
kopa āsīnmahīpānāmālokyānyonyamantikāt

204.2

ऊचुः सर्वे समागम्य परस्परहितैषिणः ।
वयं सर्वे समाहूता द्रुपदेन दुरात्मना ।
संहत्य चाभ्यगच्छाम स्वयंवरदिदृक्षया

ūcuḥ sarve samāgamya parasparahitaiṣiṇaḥ |
vayaṃ sarve samāhūtā drupadena durātmanā |
saṃhatya cābhyagacchāma svayaṃvaradidṛkṣayā

204.3

अस्मानयमतिक्रम्य तृणीकृत्य च संगतान् ।
दातुमिच्छति विप्राय द्रौपदीं योषितां वराम्

asmānayamatikramya tṛṇīkṛtya ca saṃgatān |
dātumicchati viprāya draupadīṃ yoṣitāṃ varām

204.4

अवरोप्येह वृक्षस्तु फलकाले निपात्यते ।
निहन्मैनं दुरात्मानं योयमस्मान्न मन्यते

avaropyeha vṛkṣastu phalakāle nipātyate |
nihanmainaṃ durātmānaṃ yoyamasmānna manyate

204.5

न ह्यर्हत्येष संमानं नापि वृद्धक्रमं गुणैः ।
हन्मैनं सह पुत्रेण दुराचारं नृपद्विषम्

na hyarhatyeṣa saṃmānaṃ nāpi vṛddhakramaṃ guṇaiḥ |
hanmainaṃ saha putreṇa durācāraṃ nṛpadviṣam

204.6

अयं हि सर्वानाहूय सत्कृत्य च नराधिपान् ।
गुणवद्भोजयित्वान्नं ततः पश्चान्न मन्यते

ayaṃ hi sarvānāhūya satkṛtya ca narādhipān |
guṇavadbhojayitvānnaṃ tataḥ paścānna manyate

204.7

अस्मिन्राजसमवाये देवानामिव सन्नये ।
किमयं सदृशं कंचिन्नृपतिं नैव दृष्टवान्

asminrājasamavāye devānāmiva sannaye |
kimayaṃ sadṛśaṃ kaṃcinnṛpatiṃ naiva dṛṣṭavān

204.8

न च विप्रेष्वधीकारो विद्यते वरणं प्रति ।
स्वयंवरः क्षत्रियाणामितीयं प्रथिता श्रुतिः

na ca vipreṣvadhīkāro vidyate varaṇaṃ prati |
svayaṃvaraḥ kṣatriyāṇāmitīyaṃ prathitā śrutiḥ

204.9

अथवा यदि कन्येयं न च कंचिद्बुभूषति ।
अग्नावेनां परिक्षिप्य याम राष्ट्राणि पार्थिवाः

athavā yadi kanyeyaṃ na ca kaṃcidbubhūṣati |
agnāvenāṃ parikṣipya yāma rāṣṭrāṇi pārthivāḥ

204.10

ब्राह्मणो यदि चापल्याल्लोभाद्वा कृतवानिदम् ।
विप्रियं पार्थिवेन्द्राणां नैष वध्यः कथंचन

brāhmaṇo yadi cāpalyāllobhādvā kṛtavānidam |
vipriyaṃ pārthivendrāṇāṃ naiṣa vadhyaḥ kathaṃcana

204.11

ब्राह्मणार्थं हि नो राज्यं जीवितं हि वसूनि च ।
पुत्रपौत्रं च यच्चान्यदस्माकं विद्यते धनम्

brāhmaṇārthaṃ hi no rājyaṃ jīvitaṃ hi vasūni ca |
putrapautraṃ ca yaccānyadasmākaṃ vidyate dhanam

204.12

अवमानभयाच्चैव स्वधर्मस्य च रक्षणात् ।
स्वयंवराणामन्येषां मा भूदेवंविधा गतिः

avamānabhayāccaiva svadharmasya ca rakṣaṇāt |
svayaṃvarāṇāmanyeṣāṃ mā bhūdevaṃvidhā gatiḥ

204.13

इत्युक्त्वा राजशार्दूला रुष्टाः परिघबाहवः ।
द्रुपदं तु जिघांसन्तः सायुधाः समुपाद्रवन्

ityuktvā rājaśārdūlā ruṣṭāḥ parighabāhavaḥ |
drupadaṃ tu jighāṃsantaḥ sāyudhāḥ samupādravan

204.14

तान्गृहीतशरावापान्क्रुद्धानापततो बहून् ।
द्रुपदो वीक्ष्य संग्रासाद्ब्राह्मणाञ्छरणं गतः

tāngṛhītaśarāvāpānkruddhānāpatato bahūn |
drupado vīkṣya saṃgrāsādbrāhmaṇāñcharaṇaṃ gataḥ

204.15

न भयान्नापि कार्पण्यान्न प्राणपरिरक्षणात् ।
जगाम द्रुपदो विप्राञ्शमार्थी प्रत्यपद्यत

na bhayānnāpi kārpaṇyānna prāṇaparirakṣaṇāt |
jagāma drupado viprāñśamārthī pratyapadyata

204.16

वेगेनापततस्तांस्तु प्रभिन्नानिव वारणान् ।
पाण्डुपुत्रौ महेष्वासौ प्रतियातावरिन्दमौ

vegenāpatatastāṃstu prabhinnāniva vāraṇān |
pāṇḍuputrau maheṣvāsau pratiyātāvarindamau

204.17

ततः समुत्पेतुरुदायुधास्ते
महीक्षितो बद्धगोधाङ्गुलित्राः ।
जिघांसमानाः कुरुराजपुत्रा-
वमर्षयन्तोऽर्जुनभीमसेनौ

tataḥ samutpeturudāyudhāste
mahīkṣito baddhagodhāṅgulitrāḥ |
jighāṃsamānāḥ kururājaputrā-
vamarṣayanto'rjunabhīmasenau

204.18

ततस्तु भीमोऽद्भुतभीमकर्मा
महाबलो वज्रसमानसारः ।
उत्पाट्य दोर्भ्यां द्रुममेकवीरो
निष्पत्रयामास यथा गजेन्द्रः

tatastu bhīmo'dbhutabhīmakarmā
mahābalo vajrasamānasāraḥ |
utpāṭya dorbhyāṃ drumamekavīro
niṣpatrayāmāsa yathā gajendraḥ

204.19

तं वृक्षमादाय रिपुप्रमाथी
दण्डीव दण्डं पितृराज उग्रम् ।
तस्थौ समीपे पुरुषर्षभस्य
पार्थस्य पार्थः पृथुदीर्घबाहुः

taṃ vṛkṣamādāya ripupramāthī
daṇḍīva daṇḍaṃ pitṛrāja ugram |
tasthau samīpe puruṣarṣabhasya
pārthasya pārthaḥ pṛthudīrghabāhuḥ

204.20

तत्प्रेक्ष्य कर्मातिमनुष्यबुद्धि-
र्जिष्णुः स हि भ्रातुरचिन्त्यकर्मा ।
विसिष्मिये चापि भयं विहाय
तस्थौ धनुर्गृह्य महेन्द्रकर्मा

tatprekṣya karmātimanuṣyabuddhi-
rjiṣṇuḥ sa hi bhrāturacintyakarmā |
visiṣmiye cāpi bhayaṃ vihāya
tasthau dhanurgṛhya mahendrakarmā

204.21

तत्प्रेक्ष्य कर्मातिमनुष्यबुद्धि-
र्जिष्णोः सहभ्रातुरचिन्त्यकर्मा ।
दामोदरो भ्रातरमुग्रवीर्यं
हलायुधं वाक्यमिदं बभाषे

tatprekṣya karmātimanuṣyabuddhi-
rjiṣṇoḥ sahabhrāturacintyakarmā |
dāmodaro bhrātaramugravīryaṃ
halāyudhaṃ vākyamidaṃ babhāṣe

204.22

य एष सिंहर्षभखेलगामी
मदद्धनुः कर्षति तालमात्रम् ।
एषोऽर्जुनो नात्र विचार्यमस्ति
यद्यस्मि संकर्षण वासुदेवः

ya eṣa siṃharṣabhakhelagāmī
madaddhanuḥ karṣati tālamātram |
eṣo'rjuno nātra vicāryamasti
yadyasmi saṃkarṣaṇa vāsudevaḥ

204.23

यस्त्वेष वृक्षं तरसाऽवभज्य
राज्ञां निकारे सहसा प्रवृत्तः ।
वृकोदरान्नान्य इहैतदद्य
कर्तुं समर्थः समरे पृथिव्याम्

yastveṣa vṛkṣaṃ tarasā'vabhajya
rājñāṃ nikāre sahasā pravṛttaḥ |
vṛkodarānnānya ihaitadadya
kartuṃ samarthaḥ samare pṛthivyām

204.24

योऽसौ पुरस्तात्कमलायताक्षो
महातनुः सिंहगतिर्विनीतः ।
गौरः प्रलम्बोज्ज्वलचारुघोणो
विनिःसृतः सोऽप्युत धर्मपुत्रः

yo'sau purastātkamalāyatākṣo
mahātanuḥ siṃhagatirvinītaḥ |
gauraḥ pralambojjvalacārughoṇo
viniḥsṛtaḥ so'pyuta dharmaputraḥ

204.25

यौ तौ कुमाराविव कार्तिकेयौ
द्वावाश्विनेयाविति मे वितर्कः ।
मुक्ता हि तस्माज्जतुवेश्मदाहा-
न्मया श्रुताः पाण्डुसुताः पृथा च

yau tau kumārāviva kārtikeyau
dvāvāśvineyāviti me vitarkaḥ |
muktā hi tasmājjatuveśmadāhā-
nmayā śrutāḥ pāṇḍusutāḥ pṛthā ca

204.26

तमब्रवीन्निर्जलतोयदाभो
हलायुधोऽनन्तरजं प्रतीतः ।
प्रीतोऽस्मि दृष्ट्वा हि पितृष्वसारं
पृथां विमुक्तां सह कौरवाग्र्यैः

tamabravīnnirjalatoyadābho
halāyudho'nantarajaṃ pratītaḥ |
prīto'smi dṛṣṭvā hi pitṛṣvasāraṃ
pṛthāṃ vimuktāṃ saha kauravāgryaiḥ

पाठ का स्रोत: Wikisource · CC BY-SA 4.0 (Wikisource transcription of a public-domain text)