आदि पर्व

अध्याय 201: धृष्टद्युम्न ने आए राजाओं के नाम बताए

इति श्रीमन्महाभारते आदिपर्वणि स्वयंवरपर्वणि एकाधिकद्विशततमोऽध्यायः ॥

24 श्लोक · 201 में से 261

इस अध्याय में क्या होता है

धृष्टद्युम्न ने आए राजाओं के नाम बताए

यह अध्याय नामों की सूची है। धृष्टद्युम्न बहन को उन राजाओं के नाम बताते हैं जो उसके लिए आए हैं। पहले धृतराष्ट्र के पुत्र, दुर्योधन, दुःशासन, विकर्ण, विविंशति, युयुत्सु आदि, कर्ण के साथ। फिर शकुनि और गान्धारराज के अन्य पुत्र, अश्वत्थामा और भोज, पुत्र शंख और उत्तर सहित विराट, भगदत्त, पौण्ड्रक वासुदेव, पुत्रों सहित शल्य, भूरि, भूरिश्रवा और शल के साथ सोमदत्त, काम्बोज के सुदक्षिण और शिबिराज। वृष्णियों में संकर्षण, वासुदेव, प्रद्युम्न, साम्ब, चारुदेष्ण, अक्रूर, सात्यकि, उद्धव, कृतवर्मा और अनिरुद्ध। जयद्रथ, बृहद्रथ, उलूक, वत्स और कोसल के राजा, शिशुपाल और जरासन्ध भी आए हैं। वे कहते हैं कि ये सब तुम्हारे लिए लक्ष्य भेदने का यत्न करेंगे, जो इसे भेदे, आज उसी का वरण करना।

धृष्टद्युम्न उवाच

201.1

दुर्योधनो दुर्विषहो दुर्मुखो दुष्प्रधर्षणः ।
विविंशतिर्विकर्णश्च सहो दुःशासनस्तथा

duryodhano durviṣaho durmukho duṣpradharṣaṇaḥ |
viviṃśatirvikarṇaśca saho duḥśāsanastathā

201.2

युयुत्सुर्वायुवेगश्च भीमवेगरवस्तथा ।
उग्रायुधो बलाकी च करकायुर्विरोचनः

yuyutsurvāyuvegaśca bhīmavegaravastathā |
ugrāyudho balākī ca karakāyurvirocanaḥ

201.3

कुण्डकश्चित्रसेनश्च सुवर्चाः कनकध्वजः ।
नन्दको बाहुशाली च तुहुण्डो विकटस्तथा

kuṇḍakaścitrasenaśca suvarcāḥ kanakadhvajaḥ |
nandako bāhuśālī ca tuhuṇḍo vikaṭastathā

201.4

एते चान्ये च बहवो धार्तराष्ट्रा महाबलाः ।
कर्णेन सहिता वीरास्त्वदर्थं समुपागताः

ete cānye ca bahavo dhārtarāṣṭrā mahābalāḥ |
karṇena sahitā vīrāstvadarthaṃ samupāgatāḥ

201.5

असङ्ख्याता महात्मानः पार्थिवाः क्षत्रियर्षभाः ।
शकुनिः सौबलश्चैव वृषकोऽथ बृहद्बलः

asaṅkhyātā mahātmānaḥ pārthivāḥ kṣatriyarṣabhāḥ |
śakuniḥ saubalaścaiva vṛṣako'tha bṛhadbalaḥ

201.6

एते गान्धारराजस्य सुताः सर्वे समागताः ।
अश्वत्थामा च भोजश्च सर्वशस्त्रभृतां वरौ

ete gāndhārarājasya sutāḥ sarve samāgatāḥ |
aśvatthāmā ca bhojaśca sarvaśastrabhṛtāṃ varau

201.7

समवेतौ महात्मानौ त्वदर्थे समलङ्कृतौ ।
बृहन्तो मणिमांश्चैव दण्डधारश्च पार्थिवः

samavetau mahātmānau tvadarthe samalaṅkṛtau |
bṛhanto maṇimāṃścaiva daṇḍadhāraśca pārthivaḥ

201.8

सहदेवजयत्सेनौ मेघसन्धिश्च पार्थिवः ।
विराटः सह पुत्राभ्यां शङ्खेनैवोत्तरेण च

sahadevajayatsenau meghasandhiśca pārthivaḥ |
virāṭaḥ saha putrābhyāṃ śaṅkhenaivottareṇa ca

201.9

वार्धक्षेमिः सुशर्मा च सेनाबिन्दुश्च पार्थिवः ।
सुकेतुः सह पुत्रेण सुनाम्ना च सुवर्चसा

vārdhakṣemiḥ suśarmā ca senābinduśca pārthivaḥ |
suketuḥ saha putreṇa sunāmnā ca suvarcasā

201.10

सुचित्रः सुकुमारश्च वृकः सत्यधृतिस्तथा ।
सूर्यध्वजो रोचमानो नीलश्चित्रायुधस्तथा

sucitraḥ sukumāraśca vṛkaḥ satyadhṛtistathā |
sūryadhvajo rocamāno nīlaścitrāyudhastathā

201.11

अंशुमांश्चेकितानश्च श्रेणिमांश्च महाबलः ।
समुद्रसेनपुत्रश्च चन्द्रसेनः प्रतापवान्

aṃśumāṃścekitānaśca śreṇimāṃśca mahābalaḥ |
samudrasenaputraśca candrasenaḥ pratāpavān

201.12

जलसन्धः पितापुत्रौ विदण्डो दण्ड एव च ।
पौण्ड्रको वासुदेवश्च भगदत्तश्च वीर्यवान्

jalasandhaḥ pitāputrau vidaṇḍo daṇḍa eva ca |
pauṇḍrako vāsudevaśca bhagadattaśca vīryavān

201.13

कलिङ्गस्ताम्रलिप्तश्च पत्तनाधिपतिस्तथा ।
मद्रराजस्तथा शल्यः सहपुत्रो महारथः

kaliṅgastāmraliptaśca pattanādhipatistathā |
madrarājastathā śalyaḥ sahaputro mahārathaḥ

201.14

रुक्माङ्गदेन वीरेण तथा रुक्मरथेन च ।
कौरव्यः सोमदत्तश्च पुत्रश्चास्य महारथः

rukmāṅgadena vīreṇa tathā rukmarathena ca |
kauravyaḥ somadattaśca putraścāsya mahārathaḥ

201.15

समवेतास्त्रयः शूरा भूरिर्भूरिश्रवाः शलः ।
सुदक्षिणश्च काम्भोजो दृढधन्वा च पौरवः

samavetāstrayaḥ śūrā bhūrirbhūriśravāḥ śalaḥ |
sudakṣiṇaśca kāmbhojo dṛḍhadhanvā ca pauravaḥ

201.16

बृहद्बलः सुषेणश्च शिबिरौशीनस्तथा ।
पटच्चरनिहन्ता च कारूषाधिपतिस्तथा

bṛhadbalaḥ suṣeṇaśca śibirauśīnastathā |
paṭaccaranihantā ca kārūṣādhipatistathā

201.17

सङ्कर्षणो वासुदेवो रौक्मिणेयश्च वीर्यवान् ।
साम्बश्च चारुदेष्णश्च प्राद्युम्निः सगदस्तथा

saṅkarṣaṇo vāsudevo raukmiṇeyaśca vīryavān |
sāmbaśca cārudeṣṇaśca prādyumniḥ sagadastathā

201.18

अक्रूरः सात्यकिश्चैव उद्धवश्च महामतिः ।
कृतवर्मा च हार्दिक्यः पृथुर्विपृथुरेव च

akrūraḥ sātyakiścaiva uddhavaśca mahāmatiḥ |
kṛtavarmā ca hārdikyaḥ pṛthurvipṛthureva ca

201.19

विदूरथश्च कङ्कश्च शङ्कुश्च सगवेषणः ।
आशावहोऽनिरुद्धश्च समीकः सारिमेजयः

vidūrathaśca kaṅkaśca śaṅkuśca sagaveṣaṇaḥ |
āśāvaho'niruddhaśca samīkaḥ sārimejayaḥ

201.20

वीरो वातपतिश्चैव झिल्लीपिण्डारकस्तथा ।
उशीनरश्च विक्रान्तो वृष्णयस्ते प्रकीर्तिताः

vīro vātapatiścaiva jhillīpiṇḍārakastathā |
uśīnaraśca vikrānto vṛṣṇayaste prakīrtitāḥ

201.21

भगीरथो बृहत्क्षत्रः सैन्धवश्च जयद्रथः ।
बृहद्रथो बाह्लिकश्च श्रउतायुश्च महारथः

bhagīratho bṛhatkṣatraḥ saindhavaśca jayadrathaḥ |
bṛhadratho bāhlikaśca śrautāyuśca mahārathaḥ

201.22

उलूकः कैतवो राजा चित्राङ्गदशुभाङ्गदौ ।
वत्सराजश्च मतिमान्कोसलाधिपतिस्तथा

ulūkaḥ kaitavo rājā citrāṅgadaśubhāṅgadau |
vatsarājaśca matimānkosalādhipatistathā

201.23

शिशुपालख्च विक्रान्तो जरासन्धस्तथैव च ।
एते चान्ये च बहवो नानाजनपदेश्वराः

śiśupālakhca vikrānto jarāsandhastathaiva ca |
ete cānye ca bahavo nānājanapadeśvarāḥ

201.24

त्वदर्थमागता भद्रे क्षत्रियाः प्रथिता भुवि ।
एते भेत्स्यन्ति विक्रान्तास्त्वदर्थे लक्ष्यमुत्तमम् ।
विध्यते य इदं लक्ष्यं वरयेथाः शुभेऽद्य तम्

tvadarthamāgatā bhadre kṣatriyāḥ prathitā bhuvi |
ete bhetsyanti vikrāntāstvadarthe lakṣyamuttamam |
vidhyate ya idaṃ lakṣyaṃ varayethāḥ śubhe'dya tam

पाठ का स्रोत: Wikisource · CC BY-SA 4.0 (Wikisource transcription of a public-domain text)