अस्माकमनुरूपो वै यः स्याद्गन्धर्व वेदवित् ।
पुरोहितस्तमाचक्ष्व सर्वं हि विदितं तव
asmākamanurūpo vai yaḥ syādgandharva vedavit |
purohitastamācakṣva sarvaṃ hi viditaṃ tava
इति श्रीमन्महाभारते आदिपर्वणि चैत्ररथपर्वणि एकोनद्विशततमोऽध्यायः ॥
16 श्लोक · 199 में से 261
अर्जुन गन्धर्व से अपने योग्य पुरोहित पूछते हैं। गन्धर्व देवल के छोटे भाई धौम्य का नाम लेता है, जो उत्कोचक तीर्थ पर तप करते हैं। अर्जुन विधिपूर्वक गन्धर्व को आग्नेय अस्त्र देते हैं। प्रसन्न गन्धर्व अपने श्रेष्ठ घोड़े और चाक्षुषी विद्या देना चाहता है, क्योंकि उपकारी मित्र का प्रत्युपकार होना चाहिए। अर्जुन कहते हैं कि घोड़े अभी तुम्हारे पास रहें, समय आने पर ले लेंगे। भागीरथी के तट से वे सम्मान सहित विदा होते हैं। उत्कोचक पहुँचकर पाण्डव धौम्य को पुरोहित चुनते हैं और वे वन के फल मूल से उनका सत्कार करते हैं। वेदार्थ के ज्ञाता, बृहस्पति के समान तेजस्वी धौम्य को पाकर पाण्डव स्वयं को सनाथ मानते हैं और पांचाली के स्वयंवर में जाने का निश्चय करते हैं।
अर्जुन उवाच
अस्माकमनुरूपो वै यः स्याद्गन्धर्व वेदवित् ।
पुरोहितस्तमाचक्ष्व सर्वं हि विदितं तव
asmākamanurūpo vai yaḥ syādgandharva vedavit |
purohitastamācakṣva sarvaṃ hi viditaṃ tava
गन्धर्व उवाच
यवीयान्देवलस्यैष वने भ्राता तपस्यति ।
धौम्य उत्कोचके तीर्थे तं वृणुध्वं यीच्छथ
yavīyāndevalasyaiṣa vane bhrātā tapasyati |
dhaumya utkocake tīrthe taṃ vṛṇudhvaṃ yīcchatha
वैशंपायन उवाच
ततोऽर्जुनोऽस्त्रमाग्नेयं प्रददौ तद्यथाविधि ।
गन्धर्वाय स च प्रीतो वचनं चेदमब्रवीत्
tato'rjuno'stramāgneyaṃ pradadau tadyathāvidhi |
gandharvāya sa ca prīto vacanaṃ cedamabravīt
मयि सन्ति हयश्रेष्ठास्तव दास्यामि वै सखे ।
उपकारकृतं मित्रं प्रतिकारेण योजये
mayi santi hayaśreṣṭhāstava dāsyāmi vai sakhe |
upakārakṛtaṃ mitraṃ pratikāreṇa yojaye
गृह्णीष्व चाक्षुषीं विद्यामिमां भरतसत्तम ।
एवमुक्तोऽर्जुनः प्रीतो वचनं चेदमब्रवीत्
gṛhṇīṣva cākṣuṣīṃ vidyāmimāṃ bharatasattama |
evamukto'rjunaḥ prīto vacanaṃ cedamabravīt
त्वय्येव तावत्तिष्ठन्तु हया गन्धर्वसत्तम ।
कार्यकाले ग्रहीष्यामः स्वस्ति तेऽस्त्विति चाब्रवीत्
tvayyeva tāvattiṣṭhantu hayā gandharvasattama |
kāryakāle grahīṣyāmaḥ svasti te'stviti cābravīt
तेऽन्योन्यमभिसंपूज्य गन्धर्वः पाण्डवाश्च ह ।
रम्याद्भागीरथीतीराद्यथाकामं प्रतस्थिरे
te'nyonyamabhisaṃpūjya gandharvaḥ pāṇḍavāśca ha |
ramyādbhāgīrathītīrādyathākāmaṃ pratasthire
तत उत्कोचकं तीर्थं गत्वा धौम्याश्रमं तु ते ।
तं वव्रुः पाण्डवा धौम्यं पौरोहित्याय भारत
tata utkocakaṃ tīrthaṃ gatvā dhaumyāśramaṃ tu te |
taṃ vavruḥ pāṇḍavā dhaumyaṃ paurohityāya bhārata
तान्धौम्यः प्रतिजग्राह सर्ववेदविदां वरः ।
वन्येन फलमूलेन पौरोहित्येन चैव ह
tāndhaumyaḥ pratijagrāha sarvavedavidāṃ varaḥ |
vanyena phalamūlena paurohityena caiva ha
ते समाशंसिरे लब्धां श्रियं राज्यं च पाण्डवाः ।
ब्राह्मणं तं पुरस्कृत्य पाञ्चालीं च स्वयंवरे
te samāśaṃsire labdhāṃ śriyaṃ rājyaṃ ca pāṇḍavāḥ |
brāhmaṇaṃ taṃ puraskṛtya pāñcālīṃ ca svayaṃvare
पुरोहितेन तेनाथ गुरुणा संगतास्तदा ।
नाथवन्तमिवात्मानं मेनिरे भरतर्षभाः
purohitena tenātha guruṇā saṃgatāstadā |
nāthavantamivātmānaṃ menire bharatarṣabhāḥ
स हि वेदार्थतत्त्वज्ञस्तेषां गुरुरुदारधीः ।
वेदविच्चैव वाग्मी च धौम्यः श्रीमान्द्विजोत्तमः
sa hi vedārthatattvajñasteṣāṃ gururudāradhīḥ |
vedaviccaiva vāgmī ca dhaumyaḥ śrīmāndvijottamaḥ
तेजसा चैव बुद्ध्या च रूपेण यशसा श्रिया ।
मन्त्रैश्च विविधैर्धौम्यस्तुल्य आसीद्बृहस्पतेः
tejasā caiva buddhyā ca rūpeṇa yaśasā śriyā |
mantraiśca vividhairdhaumyastulya āsīdbṛhaspateḥ
स चापि विप्रस्तान्मेने स्वभावाभ्यधिकान्भुवि ।
तेन धर्मविदा पार्था योज्या सर्वविदा वृताः
sa cāpi viprastānmene svabhāvābhyadhikānbhuvi |
tena dharmavidā pārthā yojyā sarvavidā vṛtāḥ
मेनिरे सहिता वीराः प्राप्तं राज्यं च पाण्डवाः ।
बुद्धिवीर्यबलोत्साहैर्युक्ता देवा इवापरे
menire sahitā vīrāḥ prāptaṃ rājyaṃ ca pāṇḍavāḥ |
buddhivīryabalotsāhairyuktā devā ivāpare
कृतस्वस्त्ययनास्तेन ततस्ते मनुजाधिपाः ।
मेनिरे सहिता गन्तुं पाञ्चाल्यास्तं स्वयंवरम्
kṛtasvastyayanāstena tataste manujādhipāḥ |
menire sahitā gantuṃ pāñcālyāstaṃ svayaṃvaram
पाठ का स्रोत: Wikisource · CC BY-SA 4.0 (Wikisource transcription of a public-domain text)