न विषादस्त्वया कार्यो भयादस्मात्कथंचन ।
उपायः परिदृष्टोऽत्र तस्मान्मोक्षाय रक्षसः
na viṣādastvayā kāryo bhayādasmātkathaṃcana |
upāyaḥ paridṛṣṭo'tra tasmānmokṣāya rakṣasaḥ
इति श्रीमन्महाभारते आदिपर्वणि पञ्चसप्तत्यधिकशततमोऽध्यायः ॥
20 श्लोक · 175 में से 261
कुन्ती ब्राह्मण से कहती हैं, निराश मत हो। तुम्हारा एक ही छोटा पुत्र और एक पुत्री है; मेरे पाँच पुत्र हैं, उनमें से एक तुम्हारे स्थान पर राक्षस के पास भोजन ले जाएगा। ब्राह्मण मना करता है: अपने प्राण बचाने के लिए वह ब्राह्मण और अतिथि को कभी नहीं मरने देगा। ब्राह्मण वध सबसे बड़ा पाप है; इससे अच्छा है कि वह पत्नी सहित मरे। कुन्ती कहती हैं, मेरा भी यही मत है कि ब्राह्मण की रक्षा हो, और सौ पुत्र होने पर भी कोई अप्रिय नहीं। पर यह पुत्र बलवान और मन्त्रसिद्ध है, बहुत से राक्षसों को मार चुका है, भोजन पहुँचाकर सकुशल लौटेगा। यह बात किसी से मत कहना। प्रसन्न ब्राह्मण और कुन्ती भीम से कहते हैं, और वे मान लेते हैं।
कुन्त्युवाच
न विषादस्त्वया कार्यो भयादस्मात्कथंचन ।
उपायः परिदृष्टोऽत्र तस्मान्मोक्षाय रक्षसः
na viṣādastvayā kāryo bhayādasmātkathaṃcana |
upāyaḥ paridṛṣṭo'tra tasmānmokṣāya rakṣasaḥ
नैव स्वयं सपुत्रस्य गमनं तत्र रोचये ।
एकस्तव सुतो बालः कन्या चैका तपस्विनी ।
न चैतयोस्तथा पत्न्या गमनं तव रोचये
naiva svayaṃ saputrasya gamanaṃ tatra rocaye |
ekastava suto bālaḥ kanyā caikā tapasvinī |
na caitayostathā patnyā gamanaṃ tava rocaye
मम पञ्च सुता ब्रह्मंस्तेषामेको गमिष्यति ।
त्वदर्थं बलिमादाय तस्य पापस्य रक्षसः
mama pañca sutā brahmaṃsteṣāmeko gamiṣyati |
tvadarthaṃ balimādāya tasya pāpasya rakṣasaḥ
ब्राह्मण उवाच
नाहमेतत्करिष्यामि जीवितार्थी कथंचन ।
ब्राह्मणस्यातिथेश्चैव स्वार्थे प्राणान्वियोजयन्
nāhametatkariṣyāmi jīvitārthī kathaṃcana |
brāhmaṇasyātitheścaiva svārthe prāṇānviyojayan
न त्वेतदकुलीनासु नाधर्मिष्ठासु विद्यते ।
यद्ब्राह्ममार्थं विसृजेदात्मानमपि चात्मजम्
na tvetadakulīnāsu nādharmiṣṭhāsu vidyate |
yadbrāhmamārthaṃ visṛjedātmānamapi cātmajam
आत्मनस्तु वधः श्रेयो बोद्धव्यमिति रोचते ।
ब्रहम्वध्याऽऽत्मवध्या वा श्रेयानात्मवधो मम
ātmanastu vadhaḥ śreyo boddhavyamiti rocate |
brahamvadhyā''tmavadhyā vā śreyānātmavadho mama
ब्रह्मवध्या परं पापं निष्कृतिर्नात्र विद्यते ।
अबुद्धिपूर्वं कृत्वापि प्रत्यवायो हि विद्यते
brahmavadhyā paraṃ pāpaṃ niṣkṛtirnātra vidyate |
abuddhipūrvaṃ kṛtvāpi pratyavāyo hi vidyate
न त्वहं वधमाकाङ्क्षे स्वयमेवात्मनः शुभे ।
परैः कृते वधे पापं न किंचिन्मयि विद्यते
na tvahaṃ vadhamākāṅkṣe svayamevātmanaḥ śubhe |
paraiḥ kṛte vadhe pāpaṃ na kiṃcinmayi vidyate
अभिसंधौ कृते तस्मिन्ब्राह्मणस्य वधे मया ।
निष्कृतिं न प्रपश्यामि नृशंसं क्षुद्रमेव च
abhisaṃdhau kṛte tasminbrāhmaṇasya vadhe mayā |
niṣkṛtiṃ na prapaśyāmi nṛśaṃsaṃ kṣudrameva ca
आगतस्य गृहं त्यागस्तथैव शरणार्थिनः ।
याचमानस्य च वधो नृशंसो गर्हितो बुधैः
āgatasya gṛhaṃ tyāgastathaiva śaraṇārthinaḥ |
yācamānasya ca vadho nṛśaṃso garhito budhaiḥ
कुर्यान्न निन्दितं कर्म न नृशंसं कथंचन ।
इति पूर्वे महात्मान आपद्धर्मविदो विदुः
kuryānna ninditaṃ karma na nṛśaṃsaṃ kathaṃcana |
iti pūrve mahātmāna āpaddharmavido viduḥ
श्रेयांस्तु सहदारस्य विनाशोऽद्य मम स्वयम् ।
ब्राह्मणस्य वधं नाहमनुमंस्ये कदाचन
śreyāṃstu sahadārasya vināśo'dya mama svayam |
brāhmaṇasya vadhaṃ nāhamanumaṃsye kadācana
कुन्त्युवाच
ममाप्येषा मतिर्ब्रह्मन्विप्रा रक्ष्या इति स्थिरा ।
न चाप्यनिष्टः पुत्रो मे यदि पुत्रशतं भवेत्
mamāpyeṣā matirbrahmanviprā rakṣyā iti sthirā |
na cāpyaniṣṭaḥ putro me yadi putraśataṃ bhavet
न चासौ राक्षसः शक्तो मम पुत्रविनाशने ।
वीर्यमन्मन्त्रसिद्धश्च तेजस्वी च सुतो मम
na cāsau rākṣasaḥ śakto mama putravināśane |
vīryamanmantrasiddhaśca tejasvī ca suto mama
राक्षसाय च तत्सर्वं प्रापयिष्यति भोजनम् ।
मोक्षयिष्यति चात्मानमिति मे निश्चिता मतिः
rākṣasāya ca tatsarvaṃ prāpayiṣyati bhojanam |
mokṣayiṣyati cātmānamiti me niścitā matiḥ
समागताश्च वीरेण दृष्टपूर्वाश्च राक्षसाः ।
बलवन्तो महाकाया निहताश्चाप्यनेकशः
samāgatāśca vīreṇa dṛṣṭapūrvāśca rākṣasāḥ |
balavanto mahākāyā nihatāścāpyanekaśaḥ
न त्विदं केषुचिद्ब्रह्मान्व्याहर्तव्यं कथंचन ।
विद्यार्थिनो हि मे पुत्रान्विप्रकुर्युः कुतूहलात्
na tvidaṃ keṣucidbrahmānvyāhartavyaṃ kathaṃcana |
vidyārthino hi me putrānviprakuryuḥ kutūhalāt
गुरुणा चाननुज्ञातो ग्राहयेद्यः सुतो मम ।
न स कुर्यात्तथा कार्यं विद्ययेति सतां मतम्
guruṇā cānanujñāto grāhayedyaḥ suto mama |
na sa kuryāttathā kāryaṃ vidyayeti satāṃ matam
वैशंपायन उवाच
एवमुक्तस्तु पृथया स विप्रो भार्यया सह ।
हृष्टः संपूजयामास तद्वाक्यममृतोपमम्
evamuktastu pṛthayā sa vipro bhāryayā saha |
hṛṣṭaḥ saṃpūjayāmāsa tadvākyamamṛtopamam
ततः कुन्ती च विप्रश्च सहितावनिलात्मजम् ।
तमब्रूतां कुरुष्वेति स तथेत्यब्रवीच्च तौ
tataḥ kuntī ca vipraśca sahitāvanilātmajam |
tamabrūtāṃ kuruṣveti sa tathetyabravīcca tau
पाठ का स्रोत: Wikisource · CC BY-SA 4.0 (Wikisource transcription of a public-domain text)