आदि पर्व

अध्याय 170: व्यास पाण्डवों को एकचक्रा ले जाते हैं

इति श्रीमन्महाभारते आदिपर्वणि हिडिम्बवधपर्वणि सप्तत्यधिकशततमोऽध्यायः ॥

15 श्लोक · 170 में से 261

इस अध्याय में क्या होता है

व्यास पाण्डवों को एकचक्रा ले जाते हैं

शालिहोत्र से वन्य भोजन द्वारा सत्कार पाकर पाण्डव मुनि से विदा लेते हैं। वे जटाएँ बाँधकर वल्कल और मृगचर्म पहनते हैं, कुन्ती सहित तपस्वियों का वेश धरते हैं। वे मत्स्य, त्रिगर्त, पांचाल और कीचक देशों से होकर जाते हैं। मार्ग में उन्हें पितामह व्यास मिलते हैं। व्यास घटोत्कच के जन्म से प्रसन्न हैं। वे उन्हें पास के एकचक्रा नगर में लाकर कुन्ती को समझाते हैं कि हर कर्ता पुण्य और पाप का फल पाता है, यह कष्ट भी उसी का फल है, इसलिए शोक मत करो। उन्हें एक ब्राह्मण के घर ठहराकर व्यास चले जाते हैं।

वैशंपायन उवाच

170.1

ततस्ते पाण्डवाः सर्वे शालिहोत्राश्रमे तदा ।
पूजितास्तेन वन्येन तमामन्त्र्य महामुनिम्

tataste pāṇḍavāḥ sarve śālihotrāśrame tadā |
pūjitāstena vanyena tamāmantrya mahāmunim

170.2

जटाः कृत्वाऽऽत्मनः सर्वे वल्कलाजिनवाससः ।
कुन्त्या सह महात्मानो बिभ्रतस्तापसं वपुः

jaṭāḥ kṛtvā''tmanaḥ sarve valkalājinavāsasaḥ |
kuntyā saha mahātmāno bibhratastāpasaṃ vapuḥ

170.3

ब्राह्मं वेदमधीयाना वेदाङ्गानि च सर्वशः ।
नीतिशास्त्रं च धर्मज्ञा न्यायज्ञानं च पाण्डवाः

brāhmaṃ vedamadhīyānā vedāṅgāni ca sarvaśaḥ |
nītiśāstraṃ ca dharmajñā nyāyajñānaṃ ca pāṇḍavāḥ

170.4

शालिहोत्रप्रसादेन लब्ध्वा प्रीतिमवाप्य च ।
ते वनेन वनं गत्वा घ्नन्तो मृगगणान्बहून् ।
अपक्रम्य ययू राजंस्त्वरमाणा महारथाः

śālihotraprasādena labdhvā prītimavāpya ca |
te vanena vanaṃ gatvā ghnanto mṛgagaṇānbahūn |
apakramya yayū rājaṃstvaramāṇā mahārathāḥ

170.5

मत्स्यांस्त्रिगर्तान्पाञ्चालान्कीचकानन्तरेण च ।
रमणीयान्वनोद्देशान्प्रेक्षमाणाः सरांसि च

matsyāṃstrigartānpāñcālānkīcakānantareṇa ca |
ramaṇīyānvanoddeśānprekṣamāṇāḥ sarāṃsi ca

170.6

क्वचिद्वहन्तो जननीं त्वरमाणा महारथाः ।
क्वचिच्छ्रान्ताश्च कान्तारे क्वचित्तिष्ठन्ति हर्षिताः

kvacidvahanto jananīṃ tvaramāṇā mahārathāḥ |
kvacicchrāntāśca kāntāre kvacittiṣṭhanti harṣitāḥ

170.7

क्वचिच्छन्देन गच्छन्तस्ते जग्मुः प्रसभं पुनः ।
पथि द्वैपायन सर्वे ददृशुः स्वपितामहम्

kvacicchandena gacchantaste jagmuḥ prasabhaṃ punaḥ |
pathi dvaipāyana sarve dadṛśuḥ svapitāmaham

170.8

तेऽभिवाद्य महात्मानं कृष्णद्वैपायनं तदा ।
तस्थुः प्राञ्जलयः सर्वे सह मात्रा परन्तपाः

te'bhivādya mahātmānaṃ kṛṣṇadvaipāyanaṃ tadā |
tasthuḥ prāñjalayaḥ sarve saha mātrā parantapāḥ

व्यास उवाच

170.9

तदाश्रमान्निर्गमनं मया ज्ञातं नरर्षभाः ।
घटोत्कचस्य चोत्पत्तिं ज्ञात्वा प्रीतिरवर्धत

tadāśramānnirgamanaṃ mayā jñātaṃ nararṣabhāḥ |
ghaṭotkacasya cotpattiṃ jñātvā prītiravardhata

170.10

इदं नगरमभ्याशे रमणीयं निरामयम् ।
वसतेह प्रतिच्छन्ना ममागमनकाङ्क्षिणः

idaṃ nagaramabhyāśe ramaṇīyaṃ nirāmayam |
vasateha praticchannā mamāgamanakāṅkṣiṇaḥ

वैशंपायन उवाच

170.11

एवं स तान्समाश्वास्य व्यासः पार्तानरिन्दमान् ।
एकचक्रामभिगतां कुन्तीमाश्वासयत्प्रभुः

evaṃ sa tānsamāśvāsya vyāsaḥ pārtānarindamān |
ekacakrāmabhigatāṃ kuntīmāśvāsayatprabhuḥ

श्रीव्यास उवाच

170.12

कुर्यान्न केवलं धर्मं दुष्कृतं च तथान नरः ।
सुकृतं दुष्कृतं लोके न कर्ता नास्ति कश्चन

kuryānna kevalaṃ dharmaṃ duṣkṛtaṃ ca tathāna naraḥ |
sukṛtaṃ duṣkṛtaṃ loke na kartā nāsti kaścana

170.13

अवश्यं लभते कर्ता फलं वै पुण्यपापयोः ।
दुष्कृतस्य फलेनैव प्राप्तं व्यसनमुत्तमम्

avaśyaṃ labhate kartā phalaṃ vai puṇyapāpayoḥ |
duṣkṛtasya phalenaiva prāptaṃ vyasanamuttamam

170.14

तस्मान्माधवि मानार्हे मा च शोके मनः कृथाः ।
(वैशंपायन उवाच)
एवमुक्त्वा निवेश्यैनान्ब्राह्मणस्य निवेशने

tasmānmādhavi mānārhe mā ca śoke manaḥ kṛthāḥ |
(vaiśaṃpāyana uvāca)
evamuktvā niveśyainānbrāhmaṇasya niveśane

170.15

जगाम भगवान्व्यासो यताकाममृषिः प्रभुः

jagāma bhagavānvyāso yatākāmamṛṣiḥ prabhuḥ

पाठ का स्रोत: Wikisource · CC BY-SA 4.0 (Wikisource transcription of a public-domain text)