सत्वरूपगुणोपेता धर्मारामा महाव्रता ।
दुहिता कुन्तिभोजस्य पृथा पृथुललोचना
satvarūpaguṇopetā dharmārāmā mahāvratā |
duhitā kuntibhojasya pṛthā pṛthulalocanā
इति श्रीमन्महाभारते आदिपर्वणि संभवपर्वणि एकविंशत्यधिकशततमोऽध्यायः ॥
13 श्लोक · 121 में से 261
कुन्तिभोज की पुत्री पृथा रूप, गुण और धर्म में श्रेष्ठ और व्रतों में दृढ़ है, और अनेक राजा उसे चाहते हैं। कुन्तिभोज राजाओं को बुलाकर उसका स्वयंवर करते हैं। रंगभूमि में वह भरतश्रेष्ठ पाण्डु को देखती है: सिंह जैसा तेज, चौड़ी छाती, वृषभ जैसे नेत्र, महाबली, सब राजाओं की प्रभा को सूर्य की तरह ढकते हुए, मानो दूसरे इन्द्र खड़े हों। उसका मन व्याकुल हो उठता है। लजाते हुए वह पाण्डु के कन्धे पर माला डाल देती है। पाण्डु के वरे जाने पर बाकी राजा हाथी, घोड़ों और रथों पर अपने देश लौट जाते हैं। कुन्तिभोज उपहारों सहित विवाह करते हैं। फिर ध्वज पताकाओं वाली बड़ी सेना के साथ, ब्राह्मणों और महर्षियों के आशीर्वाद लेते हुए, वे हस्तिनापुर लौटकर कुन्ती को अपने भवन में बसाते हैं।
वैशंपायन उवाच
सत्वरूपगुणोपेता धर्मारामा महाव्रता ।
दुहिता कुन्तिभोजस्य पृथा पृथुललोचना
satvarūpaguṇopetā dharmārāmā mahāvratā |
duhitā kuntibhojasya pṛthā pṛthulalocanā
तां तु तेजस्विनीं कन्यां रूपयौवनशालिनीम् ।
व्यावृण्वन्पार्थिवाः केचिदतीव स्त्रीगुणैर्युताम्
tāṃ tu tejasvinīṃ kanyāṃ rūpayauvanaśālinīm |
vyāvṛṇvanpārthivāḥ kecidatīva strīguṇairyutām
ततः सा कुन्तिभोजेन राज्ञाहूय नराधिपान् ।
पित्रा स्वयंवरे दत्ता दुहिता राजसत्तम
tataḥ sā kuntibhojena rājñāhūya narādhipān |
pitrā svayaṃvare dattā duhitā rājasattama
ततः सा रङ्गमध्यस्थं तेषां राज्ञां मनस्विनी ।
ददर्श राजशार्दूलं पाण्डुं भरतसत्तमम्
tataḥ sā raṅgamadhyasthaṃ teṣāṃ rājñāṃ manasvinī |
dadarśa rājaśārdūlaṃ pāṇḍuṃ bharatasattamam
सिंहदर्पं महोरस्कं वृषभाक्षं महाबलम् ।
आदित्यमिव सर्वेषां राज्ञां प्रच्छाद्य वै प्रभाः
siṃhadarpaṃ mahoraskaṃ vṛṣabhākṣaṃ mahābalam |
ādityamiva sarveṣāṃ rājñāṃ pracchādya vai prabhāḥ
तिष्ठन्तं राजसमितौ पुरन्दरमिवापरम् ।
तं दृष्ट्वा साऽनवद्याङ्गी कुन्तिभोजसुता शुभा
tiṣṭhantaṃ rājasamitau purandaramivāparam |
taṃ dṛṣṭvā sā'navadyāṅgī kuntibhojasutā śubhā
पाण्डुं नरवरं रङ्गे हृदयेनाकुलाऽभवत् ।
ततः कामपरीताङ्गी सकृत्प्रचलमानसा
pāṇḍuṃ naravaraṃ raṅge hṛdayenākulā'bhavat |
tataḥ kāmaparītāṅgī sakṛtpracalamānasā
व्रीडमान स्रजं कुन्ती राज्ञः स्कन्धे समासजत् ।
तं निशम्य वृतं पाण्डुं कुन्त्या सर्वे नराधिपाः
vrīḍamāna srajaṃ kuntī rājñaḥ skandhe samāsajat |
taṃ niśamya vṛtaṃ pāṇḍuṃ kuntyā sarve narādhipāḥ
यथागतं समाजग्मुर्गजैरश्वै रथैस्तथा ।
ततस्तस्याः पिता राजन्विवाहमकरोत्प्रभुः
yathāgataṃ samājagmurgajairaśvai rathaistathā |
tatastasyāḥ pitā rājanvivāhamakarotprabhuḥ
स तया कुन्तिभोजस्य दुहित्रा कुरुनन्दनः ।
युयुजेऽमितसौभाग्यः पौलोम्या मघवानिव
sa tayā kuntibhojasya duhitrā kurunandanaḥ |
yuyuje'mitasaubhāgyaḥ paulomyā maghavāniva
कुन्त्याः पाण्डोश्च राजेन्द्र कुन्तिभोजो महीपतिः ।
कृत्वोद्वाहं तदा तं तु नानावसुभिरर्चितम् ।
स्वपुरं प्रेषयामास स राजा कुरुसत्तम
kuntyāḥ pāṇḍośca rājendra kuntibhojo mahīpatiḥ |
kṛtvodvāhaṃ tadā taṃ tu nānāvasubhirarcitam |
svapuraṃ preṣayāmāsa sa rājā kurusattama
ततो बलेन महता नानाध्वजपताकिना ।
स्तूयमानः स चाशीर्भिर्ब्राह्मणैश्च महर्षिभिः
tato balena mahatā nānādhvajapatākinā |
stūyamānaḥ sa cāśīrbhirbrāhmaṇaiśca maharṣibhiḥ
संप्राप्य नगरं राजा पाण्डुः कौरवनन्दनः ।
न्यवेशत तां भार्यां कुन्तीं स्वभवने प्रभुः
saṃprāpya nagaraṃ rājā pāṇḍuḥ kauravanandanaḥ |
nyaveśata tāṃ bhāryāṃ kuntīṃ svabhavane prabhuḥ
पाठ का स्रोत: Wikisource · CC BY-SA 4.0 (Wikisource transcription of a public-domain text)