एतच्छ्रुत्वा वचो राज्ञः सस्मितं मृदु वल्गु च ।
यशस्विनी च साऽगच्छच्छान्तनोर्भूतये तदा
etacchrutvā vaco rājñaḥ sasmitaṃ mṛdu valgu ca |
yaśasvinī ca sā'gacchacchāntanorbhūtaye tadā
17 श्लोक · 104 में से 261
राजा के वचन सुनकर गंगा मुस्कुराती है। वसुओं को दिया वचन और प्रतीप का आदेश स्मरण करके वह समझती है कि समय आ गया है। वह मधुर वाणी में कहती है कि वह उनकी रानी बनेगी और आज्ञा मानेगी, पर वे कभी न पूछें कि वह कौन है। वह शुभ या अशुभ जो भी करे, वे उसे न रोकें और न कोई अप्रिय बात कहें। जिस दिन वे रोकेंगे या कठोर बोलेंगे, वह निश्चय ही चली जाएगी। शन्तनु हर शर्त मान लेते हैं। प्रसन्न होकर वे उसे रथ पर बिठाकर घर ले जाते हैं और वचन के अनुसार कुछ नहीं पूछते। तीनों लोकों में बहने वाली गंगा ने मनुष्य रूप लिया है, और अपने शील और सेवा से वह राजा का पूरा मन जीत लेती है।
वैशंपायन उवाच
एतच्छ्रुत्वा वचो राज्ञः सस्मितं मृदु वल्गु च ।
यशस्विनी च साऽगच्छच्छान्तनोर्भूतये तदा
etacchrutvā vaco rājñaḥ sasmitaṃ mṛdu valgu ca |
yaśasvinī ca sā'gacchacchāntanorbhūtaye tadā
सा तु दृष्ट्वा नृपश्रेष्ठं चरन्तं तीरमाश्रितम् ।
वसूनां समयं स्मृत्वाऽथाभ्यगच्छदनिन्दिता
sā tu dṛṣṭvā nṛpaśreṣṭhaṃ carantaṃ tīramāśritam |
vasūnāṃ samayaṃ smṛtvā'thābhyagacchadaninditā
प्रजार्थिनी राजपुत्रं शान्तनुं पृथिवीपतिम् ।
प्रतीपवचनं चापि संस्मृत्यैव स्वयं नृपम्
prajārthinī rājaputraṃ śāntanuṃ pṛthivīpatim |
pratīpavacanaṃ cāpi saṃsmṛtyaiva svayaṃ nṛpam
कालोऽयमिति मत्वा सा वसूनां शापचोदिता ।
उवाच चैव राज्ञः सा ह्लादयन्ती मनो गिरा
kālo'yamiti matvā sā vasūnāṃ śāpacoditā |
uvāca caiva rājñaḥ sā hlādayantī mano girā
गङ्गोवाच
भविष्यामि महीपाल महिषी ते वशानुगा ।
न तु त्वं वा द्वितीयो वा ज्ञातुमिच्छेत्कथंचन
bhaviṣyāmi mahīpāla mahiṣī te vaśānugā |
na tu tvaṃ vā dvitīyo vā jñātumicchetkathaṃcana
यत्तु कुर्यामहं राजञ्शुभं वा यदि वाऽशुभम् ।
न तद्वारयितव्याऽस्मि न वक्तव्या तथाऽप्रियम्
yattu kuryāmahaṃ rājañśubhaṃ vā yadi vā'śubham |
na tadvārayitavyā'smi na vaktavyā tathā'priyam
एवं हि वर्तमानेऽहं त्वयि वत्स्यामि पार्थिव ।
वारिता विप्रियं चोक्ता त्यजेयं त्वामसंशयम्
evaṃ hi vartamāne'haṃ tvayi vatsyāmi pārthiva |
vāritā vipriyaṃ coktā tyajeyaṃ tvāmasaṃśayam
एष मे समयो राजन्भज मां त्वं यथेप्सितम् ।
अनुनीताऽस्मि ते पित्रा भर्ता मे त्वं भव प्रभो
eṣa me samayo rājanbhaja māṃ tvaṃ yathepsitam |
anunītā'smi te pitrā bhartā me tvaṃ bhava prabho
वैशंपायन उवाच
तथेति सा यदा तूक्ता तदा भरतसत्तम ।
प्रहर्षमतुलं लेभे प्राप्य तं पार्थिवोत्तमम्
tatheti sā yadā tūktā tadā bharatasattama |
praharṣamatulaṃ lebhe prāpya taṃ pārthivottamam
प्रतिज्ञाय तु तत्तस्यास्तथेति मनुजाधिपः ।
रथमारोप्य तां देवीं जगाम स तया सह
pratijñāya tu tattasyāstatheti manujādhipaḥ |
rathamāropya tāṃ devīṃ jagāma sa tayā saha
सा च शान्तनुमभ्यागात्साक्षाल्लक्ष्मीरिवापरा ।
आसाद्य शान्तनुस्तां च बुभुजे कामतो वशी
sā ca śāntanumabhyāgātsākṣāllakṣmīrivāparā |
āsādya śāntanustāṃ ca bubhuje kāmato vaśī
न प्रष्टव्येति मन्वानो न स तां किंचिदूचिवान् ।
स तस्याः शीलवृत्तेन रूपौदार्यगुणेन च
na praṣṭavyeti manvāno na sa tāṃ kiṃcidūcivān |
sa tasyāḥ śīlavṛttena rūpaudāryaguṇena ca
उपचारेण च रहस्तुतोष जगतीपतिः ।
स राजा परमप्रीतः परमस्त्रीप्रलालितः
upacāreṇa ca rahastutoṣa jagatīpatiḥ |
sa rājā paramaprītaḥ paramastrīpralālitaḥ
दिव्यरूपा हि सा देवी गङ्गा त्रिपथगामिनी ।
मानुषं विग्रहं कृत्वा श्रीमन्तं वरवर्णिनी
divyarūpā hi sā devī gaṅgā tripathagāminī |
mānuṣaṃ vigrahaṃ kṛtvā śrīmantaṃ varavarṇinī
भाग्योपनतकामस्य भार्या चोपनताऽभवत् ।
शन्तनोर्नृपसिंहस्य देवराजसमद्युतेः
bhāgyopanatakāmasya bhāryā copanatā'bhavat |
śantanornṛpasiṃhasya devarājasamadyuteḥ
संभोगस्नेहचातुर्यैर्हावलास्यैर्मनोहरैः ।
राजानं रमयामास यथा रज्येत स प्रभुः
saṃbhogasnehacāturyairhāvalāsyairmanoharaiḥ |
rājānaṃ ramayāmāsa yathā rajyeta sa prabhuḥ
स राजा रतिसक्तोऽभूदुत्तमस्त्रीगुणैर्हृतः ॥ ॥ इति श्रीमन्महाभारते आदिपर्वणि संभवपर्वणि चतुरधिकशततमोऽध्यायः ॥ 104
sa rājā ratisakto'bhūduttamastrīguṇairhṛtaḥ || || iti śrīmanmahābhārate ādiparvaṇi saṃbhavaparvaṇi caturadhikaśatatamo'dhyāyaḥ || 104
पाठ का स्रोत: Wikisource · CC BY-SA 4.0 (Wikisource transcription of a public-domain text)