उत्तर खण्ड — प्रेत काण्ड (धर्म काण्ड)

अध्याय 40: अकाल मृत्यु वालों के लिए नारायणबलि

इति श्रीगारुडे महापुराणे उत्तरखण्डे द्वितीयांशे धर्मकाण्डे प्रेतकल्पे श्रीकृष्णगरुडसंवादेऽपमृत्यौ सुखदुः खलाभालाभनिरूपणं नाम चत्वारिंशत्तमोऽध्यायः ॥

65 श्लोक · 40 में से 49

इस अध्याय में क्या होता है

अकाल मृत्यु वालों के लिए नारायणबलि

गरुड अकाल मृत्यु पाने वाले ब्राह्मणों की गति पूछते हैं। श्रीकृष्ण ऐसी मृत्युएँ गिनाते हैं: उपवास से, वन्य पशुओं, सर्प, विष, अग्नि, बिजली से, डूबकर, गिरकर, फाँसी से, विषूचिका से या आत्मघात से। ऐसे जीव प्रेत बनते हैं, और उनका साधारण दाह और और्ध्वदैहिक कर्म तुरन्त नहीं होता। उनके लिए नारायणबलि की जाती है, ब्राह्मण के लिए छह मास, क्षत्रिय के लिए तीन मास और वैश्य के लिए डेढ़ मास बाद। नदी, तीर्थ, गोशाला या देवालय में वैदिक मन्त्रों से ग्यारह श्राद्ध होते हैं। विष्णु, रुद्र, ब्रह्मा और यम की धातु-प्रतिमाओं की पूजा होती है, और कुश का एक पुतला बनाया जाता है, जिसमें पलाश की तीन सौ साठ डण्ठलें अस्थियों के रूप में रखी जाती हैं। उस पुतले का दाह होता है और तीन दिन का सूतक लगता है।

तार्क्ष्य उवाच

40.1

भगवन्ब्राह्मणाः केचिदपमृत्युवशं गताः ।
कथं तेषां भवेन्मार्गः किं स्थानं का गतिर्भवेत्

bhagavanbrāhmaṇāḥ kecidapamṛtyuvaśaṃ gatāḥ |
kathaṃ teṣāṃ bhavenmārgaḥ kiṃ sthānaṃ kā gatirbhavet

40.2

किञ्च युक्तं भवेत्तेषां विधानं वापि कीदृशम् ।
तदहं श्रोतुमिच्छामि ब्रूहि मे मधुसूदन

kiñca yuktaṃ bhavetteṣāṃ vidhānaṃ vāpi kīdṛśam |
tadahaṃ śrotumicchāmi brūhi me madhusūdana

श्रीकृष्ण उवाच

40.3

प्रेतीभूते द्विजातीनां सम्भूते मृत्युवैकृते ।
तेषां मार्गगतिस्थानं विधानं कथयाम्यहम्

pretībhūte dvijātīnāṃ sambhūte mṛtyuvaikṛte |
teṣāṃ mārgagatisthānaṃ vidhānaṃ kathayāmyaham

40.4

शृणु तार्क्ष्य परं गोप्यं जाते दुर्मरणे सति ।
लङ्घनैर्ये मृता विप्रा दंष्ट्रिभिश्चाभिघातिताः

śṛṇu tārkṣya paraṃ gopyaṃ jāte durmaraṇe sati |
laṅghanairye mṛtā viprā daṃṣṭribhiścābhighātitāḥ

40.5

कण्ठग्राह विमग्नानां क्षीणानां तुण्डघातिनाम् ।
विषाग्निवृषविप्रेभ्यो विषूच्या चात्मघातकाः

kaṇṭhagrāha vimagnānāṃ kṣīṇānāṃ tuṇḍaghātinām |
viṣāgnivṛṣaviprebhyo viṣūcyā cātmaghātakāḥ

40.6

पतनोद्वन्धनजलैर्मृतानां शृणु संस्थितिम् ।
यान्ति ते नरके घोरे ये च म्लेच्छादिभिर्हताः

patanodvandhanajalairmṛtānāṃ śṛṇu saṃsthitim |
yānti te narake ghore ye ca mlecchādibhirhatāḥ

40.7

श्वशृगालादिसंस्पृष्टा अदग्धाः कृमिसंङ्कुलाः ।
उल्लङ्घिता मृता ये च महारोगैश्च पीडिताः

śvaśṛgālādisaṃspṛṣṭā adagdhāḥ kṛmisaṃṅkulāḥ |
ullaṅghitā mṛtā ye ca mahārogaiśca pīḍitāḥ

40.8

अभिसस्तास्तथाव्यङ्गा ये च पापान्नपोषिताः ।
चण्डालादुदकात्सर्पाद्ब्राह्मणाद्वैद्युताग्नितः

abhisastāstathāvyaṅgā ye ca pāpānnapoṣitāḥ |
caṇḍālādudakātsarpādbrāhmaṇādvaidyutāgnitaḥ

40.9

दष्ट्रिभ्यश्च पशुभ्यश्च वृक्षादिपतनान्मृताः ।
उदक्यामूतकीशूद्रारजकीसङ्गदूषिताः

daṣṭribhyaśca paśubhyaśca vṛkṣādipatanānmṛtāḥ |
udakyāmūtakīśūdrārajakīsaṅgadūṣitāḥ

40.10

तेन पापेन नरकान्मुक्ताः प्रेतत्वभागिनः ।
न तेषां कारयेद्दाहं सूतकं नोदकक्रियाम्

tena pāpena narakānmuktāḥ pretatvabhāginaḥ |
na teṣāṃ kārayeddāhaṃ sūtakaṃ nodakakriyām

40.11

न विधानं मृताद्यं च न कुर्यादौर्ध्वदैहिकम् ।
तेषां तार्क्ष्य प्रकुर्वीत नारायणबलिक्रियाम्

na vidhānaṃ mṛtādyaṃ ca na kuryādaurdhvadaihikam |
teṣāṃ tārkṣya prakurvīta nārāyaṇabalikriyām

40.12

सर्वलोकहितार्थाय शृणु पापभयापहाम् ।
षण्मासं ब्राह्मणे दाहस्त्रिमासं क्षत्त्रिये मतः

sarvalokahitārthāya śṛṇu pāpabhayāpahām |
ṣaṇmāsaṃ brāhmaṇe dāhastrimāsaṃ kṣattriye mataḥ

40.13

सार्ध मासं तु वैश्यस्य सद्यः शूद्रे विधीयते ।
गङ्गायां यमुनायाञ्च नैमिषे पुष्करेऽथ च

sārdha māsaṃ tu vaiśyasya sadyaḥ śūdre vidhīyate |
gaṅgāyāṃ yamunāyāñca naimiṣe puṣkare'tha ca

40.14

तडागे जलूपूर्णे वा ह्रदे वा विमलोदके ।
वाप्यां कूपे गवां गोष्ठे गृहे वा प्रतिमालये

taḍāge jalūpūrṇe vā hrade vā vimalodake |
vāpyāṃ kūpe gavāṃ goṣṭhe gṛhe vā pratimālaye

40.15

कृष्णाग्रे कारयेद्विप्र बलिं नारायणाह्वयम् ।
प्रेताय तर्पणं कार्यं मन्त्रैः पौराणवैदिकैः

kṛṣṇāgre kārayedvipra baliṃ nārāyaṇāhvayam |
pretāya tarpaṇaṃ kāryaṃ mantraiḥ paurāṇavaidikaiḥ

40.16

सर्वौषध्यक्षतैर्मिश्रैर्विष्णुमुद्दिश्य तर्पयेत् ।
कार्यं पुरुषसूक्तेन मन्त्रैर्वा वैष्णवैरपि

sarvauṣadhyakṣatairmiśrairviṣṇumuddiśya tarpayet |
kāryaṃ puruṣasūktena mantrairvā vaiṣṇavairapi

40.17

दक्षिणाभिमुखो भूत्वा प्रेतं विष्णुरिति स्मरेत् ।
अनादिनिधनो देवः शङ्खचक्रगदाधरः

dakṣiṇābhimukho bhūtvā pretaṃ viṣṇuriti smaret |
anādinidhano devaḥ śaṅkhacakragadādharaḥ

40.18

अव्ययः पुण्डरीकाक्षः प्रेतमोक्षप्रदो भवेत् ।
तर्पणस्यावसाने च वीतरागो विमत्सरः

avyayaḥ puṇḍarīkākṣaḥ pretamokṣaprado bhavet |
tarpaṇasyāvasāne ca vītarāgo vimatsaraḥ

40.19

जितेन्द्रियमना भूत्वा शुचिप्मान्धर्मतत्परः ।
दानधर्मरतः शान्तः प्रणम्य वाग्यतः शुचिः

jitendriyamanā bhūtvā śucipmāndharmatatparaḥ |
dānadharmarataḥ śāntaḥ praṇamya vāgyataḥ śuciḥ

40.20

यजमानो भबेत्तत्र शुचिर्वन्धुसमन्वितः ।
भक्त्या तत्र प्रकुर्वीत श्राद्धत्येकादशैव तु

yajamāno bhabettatra śucirvandhusamanvitaḥ |
bhaktyā tatra prakurvīta śrāddhatyekādaśaiva tu

40.21

सर्वकर्मविपाकेन एकैकाग्रे समाहितः ।
तोयव्रीहियवान् षष्ट्या गोधूमांश्च प्रियङ्गुकान्

sarvakarmavipākena ekaikāgre samāhitaḥ |
toyavrīhiyavān ṣaṣṭyā godhūmāṃśca priyaṅgukān

40.22

हविष्यान्नं शुभं मुद्रां छत्रोष्णीषे च चलेकम् ।
दापयेत्सर्वसस्यानि क्षीरक्षौद्रयुतानि च

haviṣyānnaṃ śubhaṃ mudrāṃ chatroṣṇīṣe ca calekam |
dāpayetsarvasasyāni kṣīrakṣaudrayutāni ca

40.23

वस्त्रोपानहसंयुक्तं दद्यादष्टविधं पदम् ।
दापयेत्सर्वविप्रेभ्यो न कुर्यात्पङ्क्तिबन्धनम्

vastropānahasaṃyuktaṃ dadyādaṣṭavidhaṃ padam |
dāpayetsarvaviprebhyo na kuryātpaṅktibandhanam

40.24

भूमौ स्थितेषु पिण्डेषु गन्धपुष्पाक्षतान्वितम् ।
शङ्खपात्रे तथा ताम्रे तर्पणञ्च पृथक्पृथक्

bhūmau sthiteṣu piṇḍeṣu gandhapuṣpākṣatānvitam |
śaṅkhapātre tathā tāmre tarpaṇañca pṛthakpṛthak

40.25

ध्यानधारणसंयुक्तो जानुभ्यामवनिं गतः ।
दातव्यं सर्वविप्रेभ्यो वेदशास्त्रविधानतः

dhyānadhāraṇasaṃyukto jānubhyāmavaniṃ gataḥ |
dātavyaṃ sarvaviprebhyo vedaśāstravidhānataḥ

40.26

ऋचा वै दापयेदर्घ्यमेकोद्दिष्टे पृथक्पृथक् ।
आपोदेवीर्मधुमतीरादिपीठे प्रकल्पितम्

ṛcā vai dāpayedarghyamekoddiṣṭe pṛthakpṛthak |
āpodevīrmadhumatīrādipīṭhe prakalpitam

40.27

उपयामगृहीतोऽसि द्वितीयेऽर्घं निवेदयेत् ।
येनापावकचक्षुषा तृतीये च सकल्पितम्

upayāmagṛhīto'si dvitīye'rghaṃ nivedayet |
yenāpāvakacakṣuṣā tṛtīye ca sakalpitam

40.28

ये देवासश्चतुर्थे तु समुद्रं गच्छ पञ्चमे ।
अग्निर्ज्योति स्तथा षष्ठे हिरण्यगर्भः सप्तमे

ye devāsaścaturthe tu samudraṃ gaccha pañcame |
agnirjyoti stathā ṣaṣṭhe hiraṇyagarbhaḥ saptame

40.29

यमाय त्वाष्टमे ज्ञेयं यज्जग्रन्नवमे तथा ।
दशमे याः फलिनीति पिण्डे चैकादशे ततः

yamāya tvāṣṭame jñeyaṃ yajjagrannavame tathā |
daśame yāḥ phalinīti piṇḍe caikādaśe tataḥ

40.30

भद्रं कर्णेभिरिति च कुर्यात्पिण्डविसर्जनम् ।
कृत्वैकादशदेवत्यं श्राद्धं कुर्यात्परेऽहनि

bhadraṃ karṇebhiriti ca kuryātpiṇḍavisarjanam |
kṛtvaikādaśadevatyaṃ śrāddhaṃ kuryātpare'hani

40.31

विप्रानावाहयेत्पञ्च चतुर्वेदविशारदान् ।
विद्याशीलगुणोपेतान्स्व कीयाञ्छीलसत्तमान् ।
अब्यङ्गान्सप्रशस्तांश्च न त्वर्ज्यान्कदाचन

viprānāvāhayetpañca caturvedaviśāradān |
vidyāśīlaguṇopetānsva kīyāñchīlasattamān |
abyaṅgānsapraśastāṃśca na tvarjyānkadācana

40.32

विष्णुः स्वर्णमयः कार्यो रुदस्ताम्रमयस्तथा ।
ब्रह्मा रूप्यमयस्तद्वद्यमो लोहमयो भवेत्

viṣṇuḥ svarṇamayaḥ kāryo rudastāmramayastathā |
brahmā rūpyamayastadvadyamo lohamayo bhavet

40.33

सीसकं तु भवेत्प्रेतं त्वथ वा दर्भकं तथा ।
शन्नोदेवीति मन्त्रेण गोविन्दं पश्चिमे न्यसेत्

sīsakaṃ tu bhavetpretaṃ tvatha vā darbhakaṃ tathā |
śannodevīti mantreṇa govindaṃ paścime nyaset

40.34

अग्न आयाहीति रुद्रमुत्तरत्रैव विन्यसेत् ।
अग्निमीळेति मन्त्रेण पूर्वेणैव प्रजापतिम्

agna āyāhīti rudramuttaratraiva vinyaset |
agnimīḻeti mantreṇa pūrveṇaiva prajāpatim

40.35

इषेत्वोर्जोति मन्त्रेण दक्षिणे स्थापयेद्यमम् ।
मध्ये मण्डलकं कृत्वा स्थाप्यो दर्भमयो नरः

iṣetvorjoti mantreṇa dakṣiṇe sthāpayedyamam |
madhye maṇḍalakaṃ kṛtvā sthāpyo darbhamayo naraḥ

40.36

ब्रह्मा विष्णुस्तथा रुद्रो यमः प्रेतश्च पञ्चमः ।
पृथक्कुम्भे ततः स्थाप्याः पञ्चरत्नसमन्विताः

brahmā viṣṇustathā rudro yamaḥ pretaśca pañcamaḥ |
pṛthakkumbhe tataḥ sthāpyāḥ pañcaratnasamanvitāḥ

40.37

वस्त्रयज्ञोपवीतानि पृथङ्मुद्रापराणि च ।
जपं कर्यात्पृथक्तत्र ब्रह्मादौ देवतासु च

vastrayajñopavītāni pṛthaṅmudrāparāṇi ca |
japaṃ karyātpṛthaktatra brahmādau devatāsu ca

40.38

पञ्च श्राद्धानि कुर्वीत देवतानां यथाविधि ।
जलधारां ततो दद्यत्पीठेपीठे पृथक्पृथक्

pañca śrāddhāni kurvīta devatānāṃ yathāvidhi |
jaladhārāṃ tato dadyatpīṭhepīṭhe pṛthakpṛthak

40.39

शङ्खे वा ताम्रपात्रे वा अलाभे मृन्मयेऽपि वा ।
तिलोदकं समादाय सर्वौषधिसमन्वितम्

śaṅkhe vā tāmrapātre vā alābhe mṛnmaye'pi vā |
tilodakaṃ samādāya sarvauṣadhisamanvitam

40.40

आसनोपानहौ च्छत्रं मुद्रिका च कमण्डलुः ।
भाजनं भाजनाधारं वस्त्राण्यष्टविधं पदम्

āsanopānahau cchatraṃ mudrikā ca kamaṇḍaluḥ |
bhājanaṃ bhājanādhāraṃ vastrāṇyaṣṭavidhaṃ padam

40.41

ताम्रपात्रं तिलैः पूर्णं सहिरण्यं सदक्षिणम् ।
दद्याद्ब्राह्मणमुख्याय विधियुक्तं खगेश्वर

tāmrapātraṃ tilaiḥ pūrṇaṃ sahiraṇyaṃ sadakṣiṇam |
dadyādbrāhmaṇamukhyāya vidhiyuktaṃ khageśvara

40.42

ऋग्वेदपारगे दद्याज्जातसस्यां वसुन्धराम् ।
यजुर्वेदमये विप्रे गाञ्च दद्यात्पयस्विनीम्

ṛgvedapārage dadyājjātasasyāṃ vasundharām |
yajurvedamaye vipre gāñca dadyātpayasvinīm

40.43

सामगाय शिवोद्देशात्प्रदद्यात्कलधौतकम् ।
यमोद्देशात्तिलांल्लोहं ततो दद्याच्च दक्षिणाम्

sāmagāya śivoddeśātpradadyātkaladhautakam |
yamoddeśāttilāṃllohaṃ tato dadyācca dakṣiṇām

40.44

पश्चात्पुत्तलकं कार्यं सर्वौषधिसमन्वितम् ।
पलाशस्य च वृन्तानां विभागं शृणु काश्यप

paścātputtalakaṃ kāryaṃ sarvauṣadhisamanvitam |
palāśasya ca vṛntānāṃ vibhāgaṃ śṛṇu kāśyapa

40.45

कृष्णाजिनं समास्तीर्य कुशैश्च पुरुषाकृतिम् ।
शतत्रयेण षष्ट्या च वृन्तैः प्रोक्तोऽस्थिसञ्चयः

kṛṣṇājinaṃ samāstīrya kuśaiśca puruṣākṛtim |
śatatrayeṇa ṣaṣṭyā ca vṛntaiḥ prokto'sthisañcayaḥ

40.46

विन्यस्य तानि वृन्तानि अङ्गेष्वेषु पृथक्पृथक् ।
चत्वारिंशच्छिरोदेशे ग्रीवायां दश विन्यसेत्

vinyasya tāni vṛntāni aṅgeṣveṣu pṛthakpṛthak |
catvāriṃśacchirodeśe grīvāyāṃ daśa vinyaset

40.47

विंशत्युरः स्थले दद्याद्विंशतिं जठरेऽपि च ।
बाहुयुग्मे शतं दद्यात्कटि देशे च विंशतिम्

viṃśatyuraḥ sthale dadyādviṃśatiṃ jaṭhare'pi ca |
bāhuyugme śataṃ dadyātkaṭi deśe ca viṃśatim

40.48

ऊरुद्वये शतञ्चापि त्रिंशज्जङ्घाद्वये न्यसेत् ।
दद्याच्चतुष्टयं शिश्ने षड्दद्याद्वृषणद्वये ।
दश पादाङ्गुलीभागे एवमस्थीनि विन्यसेत्

ūrudvaye śatañcāpi triṃśajjaṅghādvaye nyaset |
dadyāccatuṣṭayaṃ śiśne ṣaḍdadyādvṛṣaṇadvaye |
daśa pādāṅgulībhāge evamasthīni vinyaset

40.49

नारिकेलं शिरः स्थाने तुम्बं दद्याच्च तालुके ।
पञ्चरत्नं मुखे दद्याज्जिह्वायां कदलीफलम्

nārikelaṃ śiraḥ sthāne tumbaṃ dadyācca tāluke |
pañcaratnaṃ mukhe dadyājjihvāyāṃ kadalīphalam

40.50

अन्त्रेषु नालकं दद्याद्बालकं प्राण एव च ।
वसायीं मेदकं दद्याद्गोमूत्रेण तु मूत्रकम्

antreṣu nālakaṃ dadyādbālakaṃ prāṇa eva ca |
vasāyīṃ medakaṃ dadyādgomūtreṇa tu mūtrakam

40.51

गन्धकं धातवो देयो हरितालं मनः शिला ।
रेतः स्थाने पारदञ्च पुरीषे पित्तलं तथा

gandhakaṃ dhātavo deyo haritālaṃ manaḥ śilā |
retaḥ sthāne pāradañca purīṣe pittalaṃ tathā

40.52

मनः शिलां तथा गात्रे तिलकल्कञ्च सन्धिषु ।
यवपिष्टं तथा मांसे मधु वै क्षौद्रमेव च

manaḥ śilāṃ tathā gātre tilakalkañca sandhiṣu |
yavapiṣṭaṃ tathā māṃse madhu vai kṣaudrameva ca

40.53

केशेषु वै वटजटा त्वचि दद्यान्मृगत्वचम् ।
कर्णयोस्तालपत्त्रञ्च स्तनयोश्चैव गुञ्जिकाः

keśeṣu vai vaṭajaṭā tvaci dadyānmṛgatvacam |
karṇayostālapattrañca stanayoścaiva guñjikāḥ

40.54

नासायां शतपत्त्रं च कमलं नाभिमण्डले ।
वृन्ताकं वृषणद्वन्द्वे लिङ्गे स्याद्गृञ्जनं शुभम्

nāsāyāṃ śatapattraṃ ca kamalaṃ nābhimaṇḍale |
vṛntākaṃ vṛṣaṇadvandve liṅge syādgṛñjanaṃ śubham

40.55

घृतं नाभ्यां प्रदेयं स्यात्कौपीने च त्रपु स्मृतम् ।
मौक्तिकं स्तनयोर्मूर्ध्नि कुङ्कुमेन विलेपनम्

ghṛtaṃ nābhyāṃ pradeyaṃ syātkaupīne ca trapu smṛtam |
mauktikaṃ stanayormūrdhni kuṅkumena vilepanam

40.56

कर्पूरागुरुधूपैश्च शुभैर्माल्यैः सुगन्धिभिः ।
परिधानं पट्टसूत्रं हृदये रुक्मकं न्यसेत्

karpūrāgurudhūpaiśca śubhairmālyaiḥ sugandhibhiḥ |
paridhānaṃ paṭṭasūtraṃ hṛdaye rukmakaṃ nyaset

40.57

ऋद्धिवृद्धी भुजौ द्वौ च चक्षुषोश्च कपर्दकौ ।
सिन्दूरं नेत्रकोणे च ताम्बूलाद्युपहारकैः

ṛddhivṛddhī bhujau dvau ca cakṣuṣośca kapardakau |
sindūraṃ netrakoṇe ca tāmbūlādyupahārakaiḥ

40.58

सर्वौषधियुतं प्रेतं कृत्वा पूजा यथोदिता ।
साग्निके
चापि विधिना यज्ञपात्रं न्यसेत्क्रमात्

sarvauṣadhiyutaṃ pretaṃ kṛtvā pūjā yathoditā |
sāgnike
cāpi vidhinā yajñapātraṃ nyasetkramāt

40.59

शिरोमे श्रीरिति ऋचा पुनन्तु वरुणेति च ।
प्रेतस्य पावनं कृत्वा शालिशालशिलोदकैः

śirome śrīriti ṛcā punantu varuṇeti ca |
pretasya pāvanaṃ kṛtvā śāliśālaśilodakaiḥ

40.60

विष्णुमुद्दिश्य दातव्या सुशीलागौः पयस्विनी

viṣṇumuddiśya dātavyā suśīlāgauḥ payasvinī

40.61.1

(तिला लोहं हिरण्यं च कार्पासं लवणं तथा ।
सप्तधान्यं क्षितिर्गाव एकैकं पानं समृतम् ।
तिलपात्रं ततो दत्त्वा पददानं तथैव च

(tilā lohaṃ hiraṇyaṃ ca kārpāsaṃ lavaṇaṃ tathā |
saptadhānyaṃ kṣitirgāva ekaikaṃ pānaṃ samṛtam |
tilapātraṃ tato dattvā padadānaṃ tathaiva ca

40.62

महादानानि देयानि तिलपात्रं तथेति च ।
ततो वैतरणी देया सर्वाभरणभूषिता

mahādānāni deyāni tilapātraṃ tatheti ca |
tato vaitaraṇī deyā sarvābharaṇabhūṣitā

40.63

कर्तव्यं वैष्णवं श्राद्धं प्रेतमुक्त्यर्थ मात्मवान् ।
प्रेतंमोक्षं ततः कुर्याद्धृदि विष्णुं प्रकल्प्य च

kartavyaṃ vaiṣṇavaṃ śrāddhaṃ pretamuktyartha mātmavān |
pretaṃmokṣaṃ tataḥ kuryāddhṛdi viṣṇuṃ prakalpya ca

40.64

ओं विष्णुरिति संस्मृत्य प्रेतं तन्मृत्युमेव च ।
अग्निदाहं ततः कुर्यात्सूतकन्तु दिनत्रयम्

oṃ viṣṇuriti saṃsmṛtya pretaṃ tanmṛtyumeva ca |
agnidāhaṃ tataḥ kuryātsūtakantu dinatrayam

40.65

दशाहकर्त्रा पिण्डाश्च कर्तव्याः प्रेतभुक्तये ।
सर्वं वर्षविधिं कुर्यादेवं प्रेतश्च मुक्तिभाक्

daśāhakartrā piṇḍāśca kartavyāḥ pretabhuktaye |
sarvaṃ varṣavidhiṃ kuryādevaṃ pretaśca muktibhāk

पाठ का स्रोत: Wikisource · CC BY-SA 4.0 (Wikisource transcription of a public-domain text)