सूतकानां विधिं ब्रूहि दयां कृत्वा मयिप्रभो ।
विवेकाय हि चित्तस्य मानवानां हिताय च
sūtakānāṃ vidhiṃ brūhi dayāṃ kṛtvā mayiprabho |
vivekāya hi cittasya mānavānāṃ hitāya ca
इति श्रीगारुडे महापुराणे उत्तरखण्डे द्वितीदृ धदृप्रेतकल्पे श्रीकृष्णगरुडसंवादे सूतककालादिनिरूपणं नामै कोनचत्वारिंशोऽध्यायः ॥
21 श्लोक · 39 में से 49
गरुड सूतक के नियम पूछते हैं, जो जन्म या मृत्यु के बाद लगता है। श्रीकृष्ण कहते हैं कि दस दिन कुल का अन्न वर्जित रहता है, और दान, प्रतिग्रह, होम तथा स्वाध्याय रुक जाते हैं। गर्भ में या जन्म के समय मरे शिशु का न दाह होता है, न सूतक, न जलक्रिया। शिल्पी, वैद्य, सेवक, राजा, यज्ञ में दीक्षित और आहिताग्नि तुरन्त शुद्ध हैं। जन्म के बाद माता दस दिन में और पिता स्नान से शुद्ध होता है। ब्राह्मण, स्त्री, गौ के लिए या युद्ध में मरे का सूतक एक रात का है, और अनाथ शव का संस्कार करने वाले को कोई दोष नहीं।
तार्क्ष्य उवाच
सूतकानां विधिं ब्रूहि दयां कृत्वा मयिप्रभो ।
विवेकाय हि चित्तस्य मानवानां हिताय च
sūtakānāṃ vidhiṃ brūhi dayāṃ kṛtvā mayiprabho |
vivekāya hi cittasya mānavānāṃ hitāya ca
श्रीकृष्ण उवाच
मृते जन्मनी पक्षीन्द्र सूतकं स्याच्चतुर्विधम् ।
चतुर्णामपि वर्णानां सामान्यते विवर्जितम्
mṛte janmanī pakṣīndra sūtakaṃ syāccaturvidham |
caturṇāmapi varṇānāṃ sāmānyate vivarjitam
उभयत्र दशाहानि कुलस्यान्नं विवर्जियेत् ।
दानं प्रतिग्रहो होमः स्वाध्यायश्च निवर्तते
ubhayatra daśāhāni kulasyānnaṃ vivarjiyet |
dānaṃ pratigraho homaḥ svādhyāyaśca nivartate
देशं कालं तथात्मानं द्रव्यं द्रव्यप्रयाजनम् ।
उपपत्तिंव्मवस्थाञ्च ज्ञात्वां कर्म समाचरेत्
deśaṃ kālaṃ tathātmānaṃ dravyaṃ dravyaprayājanam |
upapattiṃvmavasthāñca jñātvāṃ karma samācaret
गुहावह्निप्रवेसे च देशान्तरमृतेषु च ।
स्नानं सचेलं कर्तव्यं सद्यः शौचं विधीयते
guhāvahnipravese ca deśāntaramṛteṣu ca |
snānaṃ sacelaṃ kartavyaṃ sadyaḥ śaucaṃ vidhīyate
आमगर्भाश्च ये जीवा ये च गर्भाद्विनिः सृताः ।
न तेषामग्निसंस्कारो नाशौचं नोदकक्रिया
āmagarbhāśca ye jīvā ye ca garbhādviniḥ sṛtāḥ |
na teṣāmagnisaṃskāro nāśaucaṃ nodakakriyā
शिल्पिनः कारवो वैद्या दासीदासास्तथैव च ।
राजानः श्रोतियाश्चैव सद्यः शौचाः प्रकीर्तिताः
śilpinaḥ kāravo vaidyā dāsīdāsāstathaiva ca |
rājānaḥ śrotiyāścaiva sadyaḥ śaucāḥ prakīrtitāḥ
सत्री च
मन्त्रपूतश्च आहिताग्निर्नृपस्तथा ।
एतेषां सूतकं नास्ति यस्य चेच्छन्ति पार्थिवाः
satrī ca
mantrapūtaśca āhitāgnirnṛpastathā |
eteṣāṃ sūtakaṃ nāsti yasya cecchanti pārthivāḥ
प्रसवे च सपिण्डानां न कुर्यात्सङ्करं द्विजः ।
दशाहाच्छ्रुध्यते माता अवगाह्य पिता शुचिः
prasave ca sapiṇḍānāṃ na kuryātsaṅkaraṃ dvijaḥ |
daśāhācchrudhyate mātā avagāhya pitā śuciḥ
विवाहोत्सवयज्ञेषु अन्तरा मृतसूतके ।
पूर्वसङ्कल्पितं वित्तं भोज्यं तन्मनुरब्रवीत्
vivāhotsavayajñeṣu antarā mṛtasūtake |
pūrvasaṅkalpitaṃ vittaṃ bhojyaṃ tanmanurabravīt
सर्वेषामेवमाशौचं मातापित्रोस्तु सूतकम् ।
सूकतं मातुरेवस्यादुपस्पृश्य पिता शुचिः
sarveṣāmevamāśaucaṃ mātāpitrostu sūtakam |
sūkataṃ māturevasyādupaspṛśya pitā śuciḥ
अन्तर्दशाहे स्याताञ्चेत्पुनर्मरणजन्मनी ।
तावत्स्यादशुचिर्विप्रो यावत्तत्स्यादनिर्दशम्
antardaśāhe syātāñcetpunarmaraṇajanmanī |
tāvatsyādaśucirvipro yāvattatsyādanirdaśam
उदिते नियमे दाने आर्ते विप्रे निवेदयेत् ।
तथैव ऋषिभिः प्रोक्तं यथाकालं न दुष्यति
udite niyame dāne ārte vipre nivedayet |
tathaiva ṛṣibhiḥ proktaṃ yathākālaṃ na duṣyati
मृन्मयेन तु पात्रेण तिलैर्मिश्रजलैः सह ।
मृत्तिकया तथान्ते च नरः स्नात्वा शुचिर्भवेत्
mṛnmayena tu pātreṇa tilairmiśrajalaiḥ saha |
mṛttikayā tathānte ca naraḥ snātvā śucirbhavet
दानं परिषदे दद्यात्सुवर्णं गोवृषं द्विजे ।
क्षत्त्रियो द्विगुणं चैव वैश्यस्तु त्रिगुणं तथा
dānaṃ pariṣade dadyātsuvarṇaṃ govṛṣaṃ dvije |
kṣattriyo dviguṇaṃ caiva vaiśyastu triguṇaṃ tathā
चतुर्गुणन्तु शूद्रेण दातव्यं ब्राह्मणे धनम् ।
एव मनुक्रमेणैव चातुर्वर्ण्यं विशुध्यति
caturguṇantu śūdreṇa dātavyaṃ brāhmaṇe dhanam |
eva manukrameṇaiva cāturvarṇyaṃ viśudhyati
सप्ताष्टमान्तरै शीर्णे गृह्यसंस्कारवर्जिते ।
अहस्तु सूतकं तस्य त्वब्दानां संख्यया स्मृतम्
saptāṣṭamāntarai śīrṇe gṛhyasaṃskāravarjite |
ahastu sūtakaṃ tasya tvabdānāṃ saṃkhyayā smṛtam
ब्राह्मणार्थे विपन्ना ये नारीणां गोग्रहेषु च ।
आहवेषु विपन्नानामेकरात्त्रमशौचकम्
brāhmaṇārthe vipannā ye nārīṇāṃ gograheṣu ca |
āhaveṣu vipannānāmekarāttramaśaucakam
न तेषामशुभं किञ्चिद्विप्राणां शुभकर्मणि ।
अनाथप्रेतसंस्कारं ये कुर्वन्तु नरोत्तमः
na teṣāmaśubhaṃ kiñcidviprāṇāṃ śubhakarmaṇi |
anāthapretasaṃskāraṃ ye kurvantu narottamaḥ
न तेषामशुभङ्किञ्चिद्विप्रेण सहकारिणा ।
जलावगाहनात्तेषां सद्यः शुद्धिरुदाहृता
na teṣāmaśubhaṅkiñcidvipreṇa sahakāriṇā |
jalāvagāhanātteṣāṃ sadyaḥ śuddhirudāhṛtā
विनिवृत्ता यदा शूद्रा उदकान्तमुपस्थिताः ।
तदाविप्रेणद्रष्टव्या इति वेदविदोविदुः
vinivṛttā yadā śūdrā udakāntamupasthitāḥ |
tadāvipreṇadraṣṭavyā iti vedavidoviduḥ
पाठ का स्रोत: Wikisource · CC BY-SA 4.0 (Wikisource transcription of a public-domain text)