उत्तर खण्ड — प्रेत काण्ड (धर्म काण्ड)

अध्याय 28: मृत्यु के बाद के कर्मों पर गरुड के प्रश्न

इति श्रीगारुडे महापुराणे उत्तरखण्डे द्वितीयांशे धर्मकाण्डे प्रेतकल्पे श्रीकृष्णगरुडसंवादे और्ध्वदहिककर्मकालक्रियमाणनानादानादिफलप्रश्रनिरूपणं नामाष्टाविंशोऽध्यायः ॥

34 श्लोक · 28 में से 49

इस अध्याय में क्या होता है

मृत्यु के बाद के कर्मों पर गरुड के प्रश्न

श्रीकृष्ण प्रेतत्व मिटाने के लिए ब्राह्मण को दिए जाने वाले स्वर्ण प्रेतघट का श्लोक दोहराते हैं। फिर गरुड मृत्यु से जुड़ी हर रीति पर प्रश्नों की लम्बी शृंखला रखते हैं। मरणासन्न को तिल और दर्भ पर, पैर दक्षिण की ओर करके क्यों लिटाते हैं और मुख में पञ्चरत्न क्यों रखते हैं? गोबर का मण्डल, विष्णु-स्मरण, दीप, और तिल, लोहा, स्वर्ण, कपास, नमक, सप्तधान्य, भूमि तथा गौ का दान क्यों? जीव कैसे मरता है, और पञ्चभूत तथा काम-लोभ आदि कहाँ जाते हैं? वे आतिवाहिक शरीर, पुत्र द्वारा अर्थी उठाने, नवपिण्ड, अस्थिसञ्चयन, शय्यादान, ग्यारहवें दिन के वृषोत्सर्ग, सोलह श्राद्ध, सपिण्डन, और आत्मघाती तथा महापापियों की गति के विषय में पूछते हैं।

गरुड उवाच

28.1

सर्वेपामनुकम्पार्थं ब्रूहि मे मधुसूदन ।
प्रेतत्वान्मुच्यते येन दानेन सुकृतेन वा

sarvepāmanukampārthaṃ brūhi me madhusūdana |
pretatvānmucyate yena dānena sukṛtena vā

शृकृष्ण उवाच

28.2

शृणु दानं प्रवक्ष्यामि सर्वाशु भविनाशनम् ।
सन्तप्तहाटकमयं घटकं विधाय ब्रह्मेशकेशवयुतं सह लोकपालैः ।
क्षीराज्यपूर्णविविरं प्रणिपत्य भक्त्या विप्राय देहि तव दानशतैः किमन्यैः

śṛṇu dānaṃ pravakṣyāmi sarvāśu bhavināśanam |
santaptahāṭakamayaṃ ghaṭakaṃ vidhāya brahmeśakeśavayutaṃ saha lokapālaiḥ |
kṣīrājyapūrṇaviviraṃ praṇipatya bhaktyā viprāya dehi tava dānaśataiḥ kimanyaiḥ

गरुड उवाच

28.3

किमेत्कथितं देव विस्तरेण वदस्व मे ।
आमुष्मिकीं क्रीयां देव उत्क्रान्तिसमयादनु

kimetkathitaṃ deva vistareṇa vadasva me |
āmuṣmikīṃ krīyāṃ deva utkrāntisamayādanu

28.4

संसारे साधु मे नाथ ब्रूहि कृत्यं जनार्दन ।
यथा कार्या नरैः सम्यक्क्रिया चैवौर्ध्वदैहिकी

saṃsāre sādhu me nātha brūhi kṛtyaṃ janārdana |
yathā kāryā naraiḥ samyakkriyā caivaurdhvadaihikī

28.5

कथं प्रेता महाकाया रौद्ररूपा भयानकाः ।
कम्भवन्ति सुरश्रेष्ठ कर्मभिः कैः शुभाशुभैः

kathaṃ pretā mahākāyā raudrarūpā bhayānakāḥ |
kambhavanti suraśreṣṭha karmabhiḥ kaiḥ śubhāśubhaiḥ

28.6

पिशाचाः सम्भवन्तीह कस्येदं कर्मणः फलम् ।
तन्मे कथय देवेश अहमिच्छामि वेदितुम्

piśācāḥ sambhavantīha kasyedaṃ karmaṇaḥ phalam |
tanme kathaya deveśa ahamicchāmi veditum

28.7

भूम्यां प्रक्षिप्यते कस्मात्पञ्चरत्नं कुतो मुखे ।
अधस्ताच्च तिला दर्भाः पादौ याम्यां व्यवस्थिताः

bhūmyāṃ prakṣipyate kasmātpañcaratnaṃ kuto mukhe |
adhastācca tilā darbhāḥ pādau yāmyāṃ vyavasthitāḥ

28.8

किमर्थं मण्डलं भूमौ गोमयेनोपलिप्यते ।
किमर्थं स्मर्यते विष्णुः विष्णुसूक्तञ्च पठ्यते

kimarthaṃ maṇḍalaṃ bhūmau gomayenopalipyate |
kimarthaṃ smaryate viṣṇuḥ viṣṇusūktañca paṭhyate

28.9

किमर्थं पुत्रपुत्राश्च तस्य तिष्ठन्ति चाग्रतः ।
किमर्थं दीपदानञ्च किमर्थं विष्णुपूजनम्

kimarthaṃ putraputrāśca tasya tiṣṭhanti cāgrataḥ |
kimarthaṃ dīpadānañca kimarthaṃ viṣṇupūjanam

28.10

किमर्थमातुरो दानं ददाति द्विजपुङ्गवे ।
बन्धून्मित्राण्यमित्रांश्च क्षमापयति तत्कथम्

kimarthamāturo dānaṃ dadāti dvijapuṅgave |
bandhūnmitrāṇyamitrāṃśca kṣamāpayati tatkatham

28.11

तिला लोहं हिरण्यं च कार्पासं लवणं तथा ।
सप्तधान्यं क्षितिर्गावो दीयते केन हे तुना

tilā lohaṃ hiraṇyaṃ ca kārpāsaṃ lavaṇaṃ tathā |
saptadhānyaṃ kṣitirgāvo dīyate kena he tunā

28.12

कथं च म्रियते जन्तुर्मृतस्य च कुतो गतिः ।
अतिवाहशरीरं च कथं विश्रमते तदा

kathaṃ ca mriyate janturmṛtasya ca kuto gatiḥ |
ativāhaśarīraṃ ca kathaṃ viśramate tadā

28.13

शंव स्कन्धे वहेत्पुत्रो वह्निदाता च पौत्रकः ।
किमर्थं देव देवेश आज्येनाभ्यञ्जनं कुतः

śaṃva skandhe vahetputro vahnidātā ca pautrakaḥ |
kimarthaṃ deva deveśa ājyenābhyañjanaṃ kutaḥ

28.14

यमसूक्तं किमर्थं च उदीचीं दिशमाहरेत् ।
पानीयमेकवस्त्रेण सूर्यबिम्बनिरीक्षणम्

yamasūktaṃ kimarthaṃ ca udīcīṃ diśamāharet |
pānīyamekavastreṇa sūryabimbanirīkṣaṇam

28.15

यवसर्षपदूर्वाश्चपाषाणे निम्बचर्वणम् ।
वस्त्रं नरश्च नारी च विदध्यादधरोत्तरम्

yavasarṣapadūrvāścapāṣāṇe nimbacarvaṇam |
vastraṃ naraśca nārī ca vidadhyādadharottaram

28.16

अन्नाद्यं गृहमागत्य भोक्तव्यं गोत्रिभिः सह ।
नवकानि च पिण्डानि किमर्थं वितरेत्सुतः

annādyaṃ gṛhamāgatya bhoktavyaṃ gotribhiḥ saha |
navakāni ca piṇḍāni kimarthaṃ vitaretsutaḥ

28.17

किमर्थं चत्वरे दुग्धं पात्रे पक्वे च मृन्मये ।
काष्ठत्रयं गुणे बद्ध्वा कृत्वा रात्रौ चतुष्पथे

kimarthaṃ catvare dugdhaṃ pātre pakve ca mṛnmaye |
kāṣṭhatrayaṃ guṇe baddhvā kṛtvā rātrau catuṣpathe

28.18

निशायां दीयते दीपो यावदब्दं दिनेदिने ।
दाहोदकं किमर्थं च संवादः स्वजनैः सह

niśāyāṃ dīyate dīpo yāvadabdaṃ dinedine |
dāhodakaṃ kimarthaṃ ca saṃvādaḥ svajanaiḥ saha

28.19

भगवन्नतिवाहस्य नवपिण्डैस्तु किं भवेत् ।
कथं देवपितृभ्यश्च वाहस्यावाहनं कथम् ।
इदं च क्रियते देव कस्मात्पिण्डं प्रदापयेत्

bhagavannativāhasya navapiṇḍaistu kiṃ bhavet |
kathaṃ devapitṛbhyaśca vāhasyāvāhanaṃ katham |
idaṃ ca kriyate deva kasmātpiṇḍaṃ pradāpayet

28.20

किं तत्प्रदीयते तस्य पिण्डदानादनन्तरम् ।
अस्थिसञ्चयनं चैव शय्यादानं किमर्थकम्

kiṃ tatpradīyate tasya piṇḍadānādanantaram |
asthisañcayanaṃ caiva śayyādānaṃ kimarthakam

28.21

द्वितीयेऽह्नि कुतः स्नानं चतुर्थे साग्निके द्विजे ।
दशमे किं मलस्नानं कार्यं सर्वजनैः सह

dvitīye'hni kutaḥ snānaṃ caturthe sāgnike dvije |
daśame kiṃ malasnānaṃ kāryaṃ sarvajanaiḥ saha

28.22

कस्मात्तैलोद्वर्तनं च स्कन्धवाहान् गृहं नयेत् ।
तैः समुद्वर्तनं चापि दद्युः स्थलजलाश्रये

kasmāttailodvartanaṃ ca skandhavāhān gṛhaṃ nayet |
taiḥ samudvartanaṃ cāpi dadyuḥ sthalajalāśraye

28.23

देशमेऽहनि यः पिण्डस्तं दद्यादामिषेण तु ।
पिण्डं चैकादशे कस्माद्वृषोत्सर्गः कथं भवेत्

deśame'hani yaḥ piṇḍastaṃ dadyādāmiṣeṇa tu |
piṇḍaṃ caikādaśe kasmādvṛṣotsargaḥ kathaṃ bhavet

28.24

श्राद्धानि षोडशैतानि अब्दं यावत्कुतो वद ।
अन्नादिचोदकेनैव षष्ट्यधिकशतत्रयम्

śrāddhāni ṣoḍaśaitāni abdaṃ yāvatkuto vada |
annādicodakenaiva ṣaṣṭyadhikaśatatrayam

28.25

दिनेदिने च दातव्यं घटान्नं प्रेततृप्तये ।
प्राप्ते काले च म्रियते अनित्यो मानवः प्रभो

dinedine ca dātavyaṃ ghaṭānnaṃ pretatṛptaye |
prāpte kāle ca mriyate anityo mānavaḥ prabho

28.26

छिद्रं तु नैव पश्यामि कुतो जीवः स निर्गतः ।
कुतो गच्छन्ति भूतानि पृथिव्यापो मनस्तथा

chidraṃ tu naiva paśyāmi kuto jīvaḥ sa nirgataḥ |
kuto gacchanti bhūtāni pṛthivyāpo manastathā

28.27

तेजो वदस्व मे नाथ वायुराकाशमेव च ।
वायवश्चैव पञ्चैते कथं गच्छन्ति चाप्तये

tejo vadasva me nātha vāyurākāśameva ca |
vāyavaścaiva pañcaite kathaṃ gacchanti cāptaye

28.28

लोभमोहादयः पञ्च शरीरे चैव तस्कराः ।
तृष्णा कामोऽप्यहङ्कारः कुतो यान्ति जनार्दन

lobhamohādayaḥ pañca śarīre caiva taskarāḥ |
tṛṣṇā kāmo'pyahaṅkāraḥ kuto yānti janārdana

28.29

पुण्यं वाप्यथ वापुण्यं यत्किञ्चित्सुकृतं तथा ।
नष्टे देहे कुतो यान्ति दानानि विविधानि च

puṇyaṃ vāpyatha vāpuṇyaṃ yatkiñcitsukṛtaṃ tathā |
naṣṭe dehe kuto yānti dānāni vividhāni ca

28.30

सपिण्डनं किमर्थं च पूर्णे संवत्सरेऽपि वा ।
प्रेतस्य मेलनं सार्धं कैः समं तत्र को विधिः

sapiṇḍanaṃ kimarthaṃ ca pūrṇe saṃvatsare'pi vā |
pretasya melanaṃ sārdhaṃ kaiḥ samaṃ tatra ko vidhiḥ

28.31

ये दग्धा ये त्वदग्धाश्च पतिता ये नराभुवि ।
यानि चान्यानि भूतानि तेषामन्ते भवेच्च किम्

ye dagdhā ye tvadagdhāśca patitā ye narābhuvi |
yāni cānyāni bhūtāni teṣāmante bhavecca kim

28.32

पापिनो ये दुराचारा मुद्गलत्वं च ये गताः ।
आत्मघाती ब्रह्महा च स्तेयी विश्वासघातकः

pāpino ye durācārā mudgalatvaṃ ca ye gatāḥ |
ātmaghātī brahmahā ca steyī viśvāsaghātakaḥ

28.33

कपिलां यः पिबेच्छूद्रो यः पठेद्वैदिकाक्षरम् ।
धारयेद्वा ब्रह्मसूत्रं का गतिस्तस्य माधव

kapilāṃ yaḥ pibecchūdro yaḥ paṭhedvaidikākṣaram |
dhārayedvā brahmasūtraṃ kā gatistasya mādhava

28.34

विप्रस्य ब्राह्मणी भार्या संगृही ता यदा भवेत् ।
तस्मात्पापाच्च भीतोऽहं तन्मे वद जगत्पते ।
सर्वमेतन्मया पृष्टो वद लोकहिताय वै

viprasya brāhmaṇī bhāryā saṃgṛhī tā yadā bhavet |
tasmātpāpācca bhīto'haṃ tanme vada jagatpate |
sarvametanmayā pṛṣṭo vada lokahitāya vai

पाठ का स्रोत: Wikisource · CC BY-SA 4.0 (Wikisource transcription of a public-domain text)