किङ्किं कुर्वन्ति वै प्रेताः पिशाचत्वेव्यवस्थिताः ।
वदन्ति वा कदाचित्किं तद्वदस्व सुरेश्वर
kiṅkiṃ kurvanti vai pretāḥ piśācatvevyavasthitāḥ |
vadanti vā kadācitkiṃ tadvadasva sureśvara
इति श्रीगारुडे महापुराणे उत्तरखण्डे द्वितीयांशे धर्मकाण्डे प्रेतकल्पे श्रीकृष्णगरुडसंवादे प्रेतकृतितदुक्तितच्चिह्नतद्विमुक्त्युपायनिरूपणं नाम त्रयोविंशोऽध्यायः ॥
15 श्लोक · 23 में से 49
गरुड़ पूछते हैं कि प्रेत क्या करते हैं और कौन-से चिह्न देते हैं। भगवान कहते हैं कि भूख-प्यास से पीड़ित वे अपने पुराने घर में आते हैं और सोते परिजनों को चिह्न दिखाते हैं। स्वप्न में टेढ़े मुख वाला घोड़ा, बैल या मनुष्य दिखे; बुरे वेश में मृत पूर्वज अन्न माँगे; कोई थाली से भोजन छीनकर भागे; व्यक्ति बेड़ियों में बँधा दिखे, बैल पर चढ़े या भूखा तीर्थ जाए; जीवित पत्नी, पुत्र या पति मृत दिखे। ये प्रेत-दोष के चिह्न हैं। उपाय यह है कि घर या तीर्थ में स्नान करे, बिल्व वृक्ष पर जल से तर्पण करे, वेदज्ञ ब्राह्मण को काले धान्य दे, यथाशक्ति होम करे। इस अध्याय को श्रद्धा से पढ़ने या सुनने से ये चिह्न मिट जाते हैं।
गरुड उवाच
किङ्किं कुर्वन्ति वै प्रेताः पिशाचत्वेव्यवस्थिताः ।
वदन्ति वा कदाचित्किं तद्वदस्व सुरेश्वर
kiṅkiṃ kurvanti vai pretāḥ piśācatvevyavasthitāḥ |
vadanti vā kadācitkiṃ tadvadasva sureśvara
श्रीभगवानुवाच
तेषां स्वरूपं वक्ष्यामि चिह्नं स्वप्नं यथातथम् ।
क्षुत्पिपासार्दितास्ते वै प्रविशेयुः स्ववेश्मनि
teṣāṃ svarūpaṃ vakṣyāmi cihnaṃ svapnaṃ yathātatham |
kṣutpipāsārditāste vai praviśeyuḥ svaveśmani
प्रतिष्ठा वायुदेहेषु शयानांस्तु स्ववंशजान् ।
तत्र यच्छन्ति लिङ्गानि दर्शयन्ति खगेश्वर
pratiṣṭhā vāyudeheṣu śayānāṃstu svavaṃśajān |
tatra yacchanti liṅgāni darśayanti khageśvara
स्वपुत्रस्वकलत्राणि स्वबन्धुन्तत्र गच्छति ।
हयो गजो वृषो मर्त्योदृश्यते विकृताननः
svaputrasvakalatrāṇi svabandhuntatra gacchati |
hayo gajo vṛṣo martyodṛśyate vikṛtānanaḥ
शयानं विपरीतं तु आत्मानं च विपर्ययम् ।
उत्थितः पश्यति यस्तु तद्विन्द्यात्प्रेतनिर्मितम्
śayānaṃ viparītaṃ tu ātmānaṃ ca viparyayam |
utthitaḥ paśyati yastu tadvindyātpretanirmitam
स्वप्ने नरौ हि निगडैर्बध्यते बहुधा यदि ।
अन्नं च याचते स्वप्ने कुवेषः पूर्वजो मृतः
svapne narau hi nigaḍairbadhyate bahudhā yadi |
annaṃ ca yācate svapne kuveṣaḥ pūrvajo mṛtaḥ
स्वप्ने यो भुज्यमानस्य गृहीत्वान्नं पलायते ।
आत्मनस्तु परो वापि तृषार्तस्तु जलं पिबेत्
svapne yo bhujyamānasya gṛhītvānnaṃ palāyate |
ātmanastu paro vāpi tṛṣārtastu jalaṃ pibet
वृषभारोहणं स्वप्ने वृषभैः सह गच्छति ।
उत्पत्य गगनं याति तीर्थे याति क्षुधातुरः
vṛṣabhārohaṇaṃ svapne vṛṣabhaiḥ saha gacchati |
utpatya gaganaṃ yāti tīrthe yāti kṣudhāturaḥ
स्ववाचा वदते यस्तु गोवृषद्विजावाजिषु ।
लिङ्गे गजे तथा देवे भूते प्रेते निशाचरे
svavācā vadate yastu govṛṣadvijāvājiṣu |
liṅge gaje tathā deve bhūte prete niśācare
स्वप्नमध्ये तु पक्षीन्द्र प्रेतलिङ्गान्यनेकधा ।
स्वकलत्रं स्वबन्धुं वा स्वसुतं स्वपतिं विभुम् ।
विद्यमानं मृतं पश्येत्प्रेतदोषेण निश्चितम्
svapnamadhye tu pakṣīndra pretaliṅgānyanekadhā |
svakalatraṃ svabandhuṃ vā svasutaṃ svapatiṃ vibhum |
vidyamānaṃ mṛtaṃ paśyetpretadoṣeṇa niścitam
याचते यः परं स्वप्ने क्षुत्तृड्भ्यां च परिप्लुतः ।
तीर्थे गत्वा दहेत्पिण्डान्प्रेतदौषैर्न संशयः
yācate yaḥ paraṃ svapne kṣuttṛḍbhyāṃ ca pariplutaḥ |
tīrthe gatvā dahetpiṇḍānpretadauṣairna saṃśayaḥ
निर्गच्छेद्वा गृहाद्वापि स्वप्ने पुत्रस्तथा पशुः ।
पिता भ्राता कलत्रं च प्रेतदोषैस्तु पश्यति
nirgacchedvā gṛhādvāpi svapne putrastathā paśuḥ |
pitā bhrātā kalatraṃ ca pretadoṣaistu paśyati
चिह्नान्येतानि पक्षीन्द्र प्रायश्चित्तं निवेदयेत् ।
कृत्वा स्नानं गृहे तीर्थे श्रीवृक्षे तर्पणं जलैः
cihnānyetāni pakṣīndra prāyaścittaṃ nivedayet |
kṛtvā snānaṃ gṛhe tīrthe śrīvṛkṣe tarpaṇaṃ jalaiḥ
कृष्णधान्यानि पूजां च प्रदद्याद्वेदपारगे ।
होमं कुर्याद्यथाशक्ति सम्पूर्णं वाचयेत्सुधीः
kṛṣṇadhānyāni pūjāṃ ca pradadyādvedapārage |
homaṃ kuryādyathāśakti sampūrṇaṃ vācayetsudhīḥ
एतद्धि श्रद्धया यस्तु प्रेतलिङ्गनिदर्शनम् ।
पठते शृणुते वापि प्रेतचिह्नं विनश्यति
etaddhi śraddhayā yastu pretaliṅganidarśanam |
paṭhate śṛṇute vāpi pretacihnaṃ vinaśyati
पाठ का स्रोत: Wikisource · CC BY-SA 4.0 (Wikisource transcription of a public-domain text)