मुक्तिं यान्ति कथं प्रेतास्तदहं प्रष्टुमुत्सुकः ।
यन्मुक्तौ च मनुष्याणां न पीडा जायते पुनः
muktiṃ yānti kathaṃ pretāstadahaṃ praṣṭumutsukaḥ |
yanmuktau ca manuṣyāṇāṃ na pīḍā jāyate punaḥ
इति श्रीगारुडे महापुराणे उत्तरखण्डे द्वितीयांशे धर्मकादृप्रेतकल्पे श्रीकृष्णगरुडसंवादे स्वप्नाध्यायो नामैकविंशोऽध्यायः ॥
34 श्लोक · 21 में से 49
गरुड़ पूछते हैं कि प्रेत कैसे मुक्त होते हैं। श्रीकृष्ण कहते हैं कि प्रेत-बाधा का सन्देह हो तो ज्ञानी से पूछे; स्वप्न में फलदार आम का वृक्ष, ब्राह्मण, वृषभ या तीर्थ में देवता दिखे तो वह किसी मृत गोत्रज का संकेत है। प्रेत तीर्थयात्रा और शुभ कर्मों में विघ्न डालता है। जब परिवार प्रेत के नाम से दान देता है, तब प्रेत तृप्त होकर कृपालु बनता है, बन्धुओं की रक्षा करता है और समय पर मुक्त होता है। जहाँ कोई चिह्न न मिले, वहाँ ब्राह्मणों का वचन मानकर जप, होम और दान के साथ कृष्णबलि करे, या पितरों के लिए नारायणबलि, और नवें या दसवें वर्ष दस हज़ार गायत्री जप करे। माता-पिता प्रत्यक्ष देवता हैं; पुत्र पिता को पुत् नामक नरक से बचाता है, इसलिए पुत्र कहलाता है।
गरुड उवाच
मुक्तिं यान्ति कथं प्रेतास्तदहं प्रष्टुमुत्सुकः ।
यन्मुक्तौ च मनुष्याणां न पीडा जायते पुनः
muktiṃ yānti kathaṃ pretāstadahaṃ praṣṭumutsukaḥ |
yanmuktau ca manuṣyāṇāṃ na pīḍā jāyate punaḥ
एतैश्च लक्षणैर्देव पीडोक्ता प्रेतजा त्वया ।
तेषां कदा भवेन्मुक्तिः प्रेतत्वं न कथं भवेत्
etaiśca lakṣaṇairdeva pīḍoktā pretajā tvayā |
teṣāṃ kadā bhavenmuktiḥ pretatvaṃ na kathaṃ bhavet
प्रेतत्वे हि प्रमाणं च कति वर्षाणि संख्यया ।
चिरं प्रेतत्वमापन्नः कथं मुक्तिमवाप्नुयात्
pretatve hi pramāṇaṃ ca kati varṣāṇi saṃkhyayā |
ciraṃ pretatvamāpannaḥ kathaṃ muktimavāpnuyāt
श्रीकृष्ण उवाच
मुक्तिं प्रायन्ति ते प्रेतास्तदहं कथयामि ते ।
यदैव मनुजोऽवैति मम पीडा कृता त्वियम्
muktiṃ prāyanti te pretāstadahaṃ kathayāmi te |
yadaiva manujo'vaiti mama pīḍā kṛtā tviyam
पृच्छार्थं हितमन्विच्छन्दै वज्ञे विनिवदयेत् ।
स्वप्ने दृष्टः शुभो वृक्षः फलितश्चूतचम्पकः
pṛcchārthaṃ hitamanvicchandai vajñe vinivadayet |
svapne dṛṣṭaḥ śubho vṛkṣaḥ phalitaścūtacampakaḥ
विप्रो वा वृषभो देवो भ्रमते तीर्थगो यदि ।
एवं दृष्टो यदा स्वप्नो मृतः कोऽपिस्वगोत्रजः
vipro vā vṛṣabho devo bhramate tīrthago yadi |
evaṃ dṛṣṭo yadā svapno mṛtaḥ ko'pisvagotrajaḥ
स्वप्ने सत्यं परिज्ञाय दृष्टं प्रेतप्रभावतः ।
अद्भुतानि प्रदृश्यन्ते प्रेतदोषाद्विनिश्चितम्
svapne satyaṃ parijñāya dṛṣṭaṃ pretaprabhāvataḥ |
adbhutāni pradṛśyante pretadoṣādviniścitam
तीर्थस्नाने मतिर्यावच्चित्तं धर्मपरायणम् ।
धर्मापायं प्रकुरुते प्रेतपीडा तदा व्रजेत्
tīrthasnāne matiryāvaccittaṃ dharmaparāyaṇam |
dharmāpāyaṃ prakurute pretapīḍā tadā vrajet
तदा तत्र विनाशाय चित्तभङ्गं करोति सा ।
श्रेयांसि बहुविघ्नानि सम्भवन्ति पदेपदे
tadā tatra vināśāya cittabhaṅgaṃ karoti sā |
śreyāṃsi bahuvighnāni sambhavanti padepade
अश्रेयसि प्रवृत्ति च प्रेरयन्ति पुनः पुनः ।
उच्चाटनं च क्रूरत्वं सर्वं प्रेतकृतं खग
aśreyasi pravṛtti ca prerayanti punaḥ punaḥ |
uccāṭanaṃ ca krūratvaṃ sarvaṃ pretakṛtaṃ khaga
सर्वविघ्नानि सन्त्यज्य मुक्त्युपायं करोति यः ।
तस्य कर्मफलं साधु प्रेतवृत्तिश्च शाश्वती
sarvavighnāni santyajya muktyupāyaṃ karoti yaḥ |
tasya karmaphalaṃ sādhu pretavṛttiśca śāśvatī
स भवेत्तेन मुक्तस्तु दत्तं श्रेयस्करं परम् ।
स्वयं तृप्यति भोः पक्षिन्यस्योद्देशेन दीयते
sa bhavettena muktastu dattaṃ śreyaskaraṃ param |
svayaṃ tṛpyati bhoḥ pakṣinyasyoddeśena dīyate
शृणु सत्यमिदं तार्क्ष्य यद्ददाति भुनक्ति सः ।
आत्मानं श्रेयसा युञ्ज्यात्प्रेतस्तृप्तिं चिरं व्रजेत्
śṛṇu satyamidaṃ tārkṣya yaddadāti bhunakti saḥ |
ātmānaṃ śreyasā yuñjyātpretastṛptiṃ ciraṃ vrajet
ते तृप्ताः शुभमिच्छन्ति निजबन्धुषु सर्वदा ।
अज्ञातयस्तु ये दुष्टाः पीडयन्ति स्ववंशजान्
te tṛptāḥ śubhamicchanti nijabandhuṣu sarvadā |
ajñātayastu ye duṣṭāḥ pīḍayanti svavaṃśajān
निवारयन्ति तृप्तास्ते जायमानानुकम्पकाः ।
पश्चात्ते मुक्तिमायन्ति काले प्राप्ते स्वपुत्रतः ।
सदा बन्धुषु यच्छन्ति वृद्धिमृद्धिं खगाधिप
nivārayanti tṛptāste jāyamānānukampakāḥ |
paścātte muktimāyanti kāle prāpte svaputrataḥ |
sadā bandhuṣu yacchanti vṛddhimṛddhiṃ khagādhipa
दर्शनाद्भाषणाद्यस्तु चेष्टातः पीडनाद्गतिम् ।
न प्रापयति मूढात्मा प्रेतशापैः स लिप्यते
darśanādbhāṣaṇādyastu ceṣṭātaḥ pīḍanādgatim |
na prāpayati mūḍhātmā pretaśāpaiḥ sa lipyate
अपुत्रकोऽपशुश्चैव दरिद्रो व्याधितस्तथा ।
वृत्तिहीनश्च हीनश्च भवेज्जन्मनिजन्मनि
aputrako'paśuścaiva daridro vyādhitastathā |
vṛttihīnaśca hīnaśca bhavejjanmanijanmani
एवं ब्रुवन्ति ते प्रेताः पुनर्याभ्यं समाश्रिताः ।
तत्रस्थानां भवेन्मुक्तिः स्वकाले कर्मसंक्षये
evaṃ bruvanti te pretāḥ punaryābhyaṃ samāśritāḥ |
tatrasthānāṃ bhavenmuktiḥ svakāle karmasaṃkṣaye
गरुड उवाच
नाम गोत्रं न दृश्येत प्रतीतिर्नैव जायते ।
केचिद्वदन्ति दैवज्ञाः पीडां प्रेतसमुद्भवाम्
nāma gotraṃ na dṛśyeta pratītirnaiva jāyate |
kecidvadanti daivajñāḥ pīḍāṃ pretasamudbhavām
न स्वप्नश्चैष्टितं नैव दर्शनं न कदाचन ।
किं कर्तव्यं सुरश्रेष्ठ तत्र मे ब्रूहि निश्चितम्
na svapnaścaiṣṭitaṃ naiva darśanaṃ na kadācana |
kiṃ kartavyaṃ suraśreṣṭha tatra me brūhi niścitam
श्रीभगवानुवाच
सत्यं वाप्यनृतं वापि वदन्ति क्षितिदेवताः ।
तदा सञ्चिन्त्य हृदये सत्यमेतद्द्विजेरितम्
satyaṃ vāpyanṛtaṃ vāpi vadanti kṣitidevatāḥ |
tadā sañcintya hṛdaye satyametaddvijeritam
भावभक्तिं पुरस्कृत्य पितृभक्तिपरायणः ।
कृत्वा कृष्णबलिं चैव पुरश्चरण पूर्वकम्
bhāvabhaktiṃ puraskṛtya pitṛbhaktiparāyaṇaḥ |
kṛtvā kṛṣṇabaliṃ caiva puraścaraṇa pūrvakam
जपहोमैस्तथा दानैः प्रकुर्याद्देहसोधनम् ।
कृतेन तेन विघ्नानि विनश्यन्ति खगेश्वर
japahomaistathā dānaiḥ prakuryāddehasodhanam |
kṛtena tena vighnāni vinaśyanti khageśvara
भूतप्रेतपिशाचैर्वा स चेदन्यैः प्रपीड्यते ।
पित्रुद्देशेन वै कुर्यान्नारायणबलिं तदा ।
विमुक्तः सर्वपीडाभ्य इति सत्यं वचो मम
bhūtapretapiśācairvā sa cedanyaiḥ prapīḍyate |
pitruddeśena vai kuryānnārāyaṇabaliṃ tadā |
vimuktaḥ sarvapīḍābhya iti satyaṃ vaco mama
पितृपीडा भवेद्यत्र कृत्यैरन्यैर्न मुच्यते ।
तस्मात्सर्वप्रयत्नेन पितृभक्तिपरो भवेत्
pitṛpīḍā bhavedyatra kṛtyairanyairna mucyate |
tasmātsarvaprayatnena pitṛbhaktiparo bhavet
नवमे दशमे वर्षे पिक्षुद्देशेन वै पुमान् ।
गायत्त्रीमयुतं जप्त्वा दशांशेन च होमयेत्
navame daśame varṣe pikṣuddeśena vai pumān |
gāyattrīmayutaṃ japtvā daśāṃśena ca homayet
कृत्वा कृष्णबलिं पूर्वं वृषोत्सर्गादिकाः क्रियाः ।
सर्वोपद्रवहीनस्तु सर्वसौख्यमवाप्नुयात् ।
उत्तमं लोकमाप्नोति ज्ञातिप्राधान्यमेव च
kṛtvā kṛṣṇabaliṃ pūrvaṃ vṛṣotsargādikāḥ kriyāḥ |
sarvopadravahīnastu sarvasaukhyamavāpnuyāt |
uttamaṃ lokamāpnoti jñātiprādhānyameva ca
पितृमा तृसमं लोके नास्त्यन्यद्दैवतं परम् ।
तस्मात्सर्वप्रयत्नेन पूजयेत्पितरौ सदा
pitṛmā tṛsamaṃ loke nāstyanyaddaivataṃ param |
tasmātsarvaprayatnena pūjayetpitarau sadā
हितानामुपदेष्टा हि प्रत्यक्षं दैवतं पिता ।
अन्या या देवता लोके न देहप्रभवो हि ताः
hitānāmupadeṣṭā hi pratyakṣaṃ daivataṃ pitā |
anyā yā devatā loke na dehaprabhavo hi tāḥ
शरीरमेव जन्तूनां स्वर्गमोक्षैकसाधनम् ।
देहो दत्तो हि येनैवं कोऽन्यः पूज्यतमस्ततः
śarīrameva jantūnāṃ svargamokṣaikasādhanam |
deho datto hi yenaivaṃ ko'nyaḥ pūjyatamastataḥ
इति सञ्चिन्त्यहृदये पक्षिन्यद्यत्प्रयच्छति ।
तत्सर्वमात्मना भुङ्क्ते दानं वेदविदो विदुः
iti sañcintyahṛdaye pakṣinyadyatprayacchati |
tatsarvamātmanā bhuṅkte dānaṃ vedavido viduḥ
पुन्नामनरकाद्यस्मात्पितरं त्रायते सुतः ।
तस्मात्पुत्त्र इति प्रोक्त इह चापि परत्र च
punnāmanarakādyasmātpitaraṃ trāyate sutaḥ |
tasmātputtra iti prokta iha cāpi paratra ca
अपमृत्युमृतौ स्यातां पितरौ कस्यचित्खग ।
व्रततीर्थाविवाहादिश्राद्धं संवत्सरं त्यजेत्
apamṛtyumṛtau syātāṃ pitarau kasyacitkhaga |
vratatīrthāvivāhādiśrāddhaṃ saṃvatsaraṃ tyajet
स्वप्नाध्यायमिमं यस्तु प्रेत लिङ्गनिदर्शकम् ।
यः पठेच्छृणुयाद्वापि प्रेतचिह्नं न पश्यति
svapnādhyāyamimaṃ yastu preta liṅganidarśakam |
yaḥ paṭhecchṛṇuyādvāpi pretacihnaṃ na paśyati
पाठ का स्रोत: Wikisource · CC BY-SA 4.0 (Wikisource transcription of a public-domain text)