उत्तर खण्ड — प्रेत काण्ड (धर्म काण्ड)

अध्याय 13: वृषोत्सर्ग, दान और स्वस्थ रहते धर्म

इति श्रीगारुडे महापुराणे उत्तरखण्डे द्वितीयांशे धर्मकाण्डे प्रेतकल्पे श्रीकृष्णगरुडसंवादे वृषोत्सर्गदानधर्मपुत्रादिप्रशंसनं नाम त्रयोदशोऽध्यायः ॥

25 श्लोक · 13 में से 49

इस अध्याय में क्या होता है

वृषोत्सर्ग, दान और स्वस्थ रहते धर्म

श्रीकृष्ण गरुड़ से कहते हैं कि मोक्ष चाहने वाले अपनी क्रिया अपने हाथ से करें, विशेषकर वृषोत्सर्ग; जीते-जी या मरने पर जिसके लिए वृषभ छोड़ा जाए, वह प्रेत नहीं बनता। उसके बिना दिए पिण्ड फल नहीं देते। यह कर्म पुत्र, भाई, पौत्र या बन्धु करे; पुत्र न हो तो पत्नी, दौहित्र या पुत्री। पुत्रहीन की स्वर्ग-गति नहीं, इसलिए पुत्र के लिए यत्न करे। अपने हाथ से दिए दान जीव के आगे जाते हैं और जहाँ वह रहे वहाँ मिलते हैं। अध्याय एक श्लोक पर समाप्त होता है: जब तक शरीर स्वस्थ है और बुढ़ापा दूर है, अपने कल्याण का यत्न कर लो, घर में आग लगने पर कुआँ कौन खोदता है?

गरुड उवाच

13.1

कर्मणा केन देवेश प्रेतत्वं नैव जायते ।
पृथिव्यां सर्वजन्तूनां तद्ब्रूहि परमेश्वर

karmaṇā kena deveśa pretatvaṃ naiva jāyate |
pṛthivyāṃ sarvajantūnāṃ tadbrūhi parameśvara

श्रीकृष्ण उवाच

13.2

अथ वक्ष्यामि संक्षेपात्क्षयाहादौर्ध्वदैहिकम् ।
स्वहस्तेनैव कर्तव्यं मोक्षकामैस्तु मानवैः

atha vakṣyāmi saṃkṣepātkṣayāhādaurdhvadaihikam |
svahastenaiva kartavyaṃ mokṣakāmaistu mānavaiḥ

13.3

स्त्रीणामपि विशेषेण पञ्चवर्षाधिके शिशौ ।
वृषोत्सर्गादिकं कर्म प्रेतत्वविनिवृत्तये ।
वृषोत्सर्गादृते नान्यत्किञ्चिदस्ति महीतले

strīṇāmapi viśeṣeṇa pañcavarṣādhike śiśau |
vṛṣotsargādikaṃ karma pretatvavinivṛttaye |
vṛṣotsargādṛte nānyatkiñcidasti mahītale

13.4

जीवन्वापि मृतो वापि वृषोत्सर्गं करोति यः ।
प्रेतत्वं न भवेत्तस्य विना दानमखव्रतैः

jīvanvāpi mṛto vāpi vṛṣotsargaṃ karoti yaḥ |
pretatvaṃ na bhavettasya vinā dānamakhavrataiḥ

गरुड उवाच

13.5

कस्मिन्काले वृषोत्सर्गं जीवन्वापि मृतोऽपि वा ।
कुर्यात्सुरवरश्रेष्ठ ब्रूहि मे मधुसूदन

kasminkāle vṛṣotsargaṃ jīvanvāpi mṛto'pi vā |
kuryātsuravaraśreṣṭha brūhi me madhusūdana

13.6

किं फलं तु भवेदन्ते कृतैः श्राद्धैस्तु षोडशैः

kiṃ phalaṃ tu bhavedante kṛtaiḥ śrāddhaistu ṣoḍaśaiḥ

श्रीकृष्ण उवाच

13.7

अकृत्वा तु वृषोत्सर्गं कुरुते पिण्डपातनम् ।
नोपतिष्ठति तच्छ्रेयो दातुः प्रेतस्य निष्फलम्

akṛtvā tu vṛṣotsargaṃ kurute piṇḍapātanam |
nopatiṣṭhati tacchreyo dātuḥ pretasya niṣphalam

13.8

एकादशाहे प्रेतस्य यस्य नोत्सृज्यते वृषः ।
प्रेतत्वं सुस्थिरं तस्य दत्तैः श्राद्धशतैरपि

ekādaśāhe pretasya yasya notsṛjyate vṛṣaḥ |
pretatvaṃ susthiraṃ tasya dattaiḥ śrāddhaśatairapi

गरुड उवाच

13.9

सर्पाद्धि प्राप्तमृत्यूनामग्निदाहादि न क्रिया ।
जलेन शृङ्गिणा वापि शस्त्राद्यैर्म्रियते यदि

sarpāddhi prāptamṛtyūnāmagnidāhādi na kriyā |
jalena śṛṅgiṇā vāpi śastrādyairmriyate yadi

13.10

असन्मृत्युमृतानां च कथं शुद्धिर्भवत्प्रभो ।
एतन्मे संशयं देव च्छेत्तुमर्हस्यशेषतः

asanmṛtyumṛtānāṃ ca kathaṃ śuddhirbhavatprabho |
etanme saṃśayaṃ deva cchettumarhasyaśeṣataḥ

श्रीकृष्ण उवाच

13.11

षण्मासैर्ब्राह्मणः शुध्येद्युग्मे सार्धे तु बाहुजः ।
सार्धमासेन वैश्यस्तु शूद्रो मासेन शुध्यति

ṣaṇmāsairbrāhmaṇaḥ śudhyedyugme sārdhe tu bāhujaḥ |
sārdhamāsena vaiśyastu śūdro māsena śudhyati

13.12

दत्त्वा दानान्यशेषाणि सुतीर्थे म्रियते यदि ।
ब्रह्मचारी शुचिर्भूत्वा न स यातीह दुर्गतिम्

dattvā dānānyaśeṣāṇi sutīrthe mriyate yadi |
brahmacārī śucirbhūtvā na sa yātīha durgatim

13.13

वृषोत्सर्गादिकं कृत्वा यतिधर्मं समाचरेत् ।
यतित्वे मृत्युमाप्नोति स गच्छेद्ब्रह्मशाख्वतम्

vṛṣotsargādikaṃ kṛtvā yatidharmaṃ samācaret |
yatitve mṛtyumāpnoti sa gacchedbrahmaśākhvatam

13.14

विकर्म कुरुते यस्तु शिष्टाचारविवर्जितः ।
वृषोत्सर्गादिकं कृत्वा न गच्छेद्यमशासनम्

vikarma kurute yastu śiṣṭācāravivarjitaḥ |
vṛṣotsargādikaṃ kṛtvā na gacchedyamaśāsanam

13.15

पुत्त्रो वा सोदरो वापि पौत्रो बन्धुजनस्तथा ।
गोत्रिणश्चार्थभागी च मृते कुर्याद्वृषोत्सवम्

puttro vā sodaro vāpi pautro bandhujanastathā |
gotriṇaścārthabhāgī ca mṛte kuryādvṛṣotsavam

13.16

पुत्राभावे तु पत्नी स्याद्दौहित्त्रो दुहीतापि वा ।
पुत्त्रेषु विद्यमानेषु वृषं नान्येन कारयेत्

putrābhāve tu patnī syāddauhittro duhītāpi vā |
puttreṣu vidyamāneṣu vṛṣaṃ nānyena kārayet

गरुड उवाच

13.17

पुत्त्रा यस्य न विद्यन्ते नरा नार्यः सुरेश्वर ।
एतन्मे संशयं देव च्छेतुमर्हस्यशेषतः

puttrā yasya na vidyante narā nāryaḥ sureśvara |
etanme saṃśayaṃ deva cchetumarhasyaśeṣataḥ

श्रीकृष्ण उवाच

13.18

अपुत्त्रस्य गतिर्नास्ति स्वर्गो नैव च नैव च ।
तस्मात्केनाप्युपायेन पुत्त्रस्य जननं चरेत्

aputtrasya gatirnāsti svargo naiva ca naiva ca |
tasmātkenāpyupāyena puttrasya jananaṃ caret

13.19

यानि कानि च दानानि स्वयं दत्तानि मानवैः ।
तानितानि च सर्वाणि तूपतिष्ठन्ति चाग्रतः

yāni kāni ca dānāni svayaṃ dattāni mānavaiḥ |
tānitāni ca sarvāṇi tūpatiṣṭhanti cāgrataḥ

13.20

व्यञ्जनानि विचित्राणि भक्ष्यभोज्यानि यानि च ।
स्वहस्तेन प्रदत्तानि देहान्ते चाक्षयं फलम्

vyañjanāni vicitrāṇi bhakṣyabhojyāni yāni ca |
svahastena pradattāni dehānte cākṣayaṃ phalam

13.21

गोभूहिरण्यवासांसि भोजनानि पादनि च ।
यत्रयत्र वसेज्जन्तुस्तत्रतत्रोपतिष्ठति

gobhūhiraṇyavāsāṃsi bhojanāni pādani ca |
yatrayatra vasejjantustatratatropatiṣṭhati

13.22

यावत्स्वस्थं शरीरं हि तावद्धर्मं समाचरेत् ।
अस्वस्थः प्रेरितश्चान्यैर्नाकिञ्चित्कर्तुमर्हति

yāvatsvasthaṃ śarīraṃ hi tāvaddharmaṃ samācaret |
asvasthaḥ preritaścānyairnākiñcitkartumarhati

13.23

जीवतोऽपि मृतस्येह न भूतं चौर्ध्वदैहिकम् ।
वायुभूतः क्षुधाविष्टो भ्रमते च दिवानिशम्

jīvato'pi mṛtasyeha na bhūtaṃ caurdhvadaihikam |
vāyubhūtaḥ kṣudhāviṣṭo bhramate ca divāniśam

13.24

कृमिः कीटः पतङ्गो वा जायते म्रियते पुनः ।
असद्गर्भे भवेत्सोऽपि जातः सद्यो विनश्यति

kṛmiḥ kīṭaḥ pataṅgo vā jāyate mriyate punaḥ |
asadgarbhe bhavetso'pi jātaḥ sadyo vinaśyati

13.25

यावत्स्वस्थमिदं शरीरमरुजं यावज्जरा दूरतो यावच्चेन्द्रियशक्तिरप्रतिहता यावत्क्षयो नायुषः ।
आत्मश्रेयसि तावदेव विदुषा कार्यः प्रयत्नो महान्सन्दीप्ते भवने तु कूपखननं प्रत्युद्यमः कीदृशः

yāvatsvasthamidaṃ śarīramarujaṃ yāvajjarā dūrato yāvaccendriyaśaktirapratihatā yāvatkṣayo nāyuṣaḥ |
ātmaśreyasi tāvadeva viduṣā kāryaḥ prayatno mahānsandīpte bhavane tu kūpakhananaṃ pratyudyamaḥ kīdṛśaḥ

पाठ का स्रोत: Wikisource · CC BY-SA 4.0 (Wikisource transcription of a public-domain text)