अजानजस्वरूपं च ब्रूहि कृष्ण महामते ।
तदन्यांश्च क्रमेणेव वक्तुं कृष्ण त्वमर्हसि
ajānajasvarūpaṃ ca brūhi kṛṣṇa mahāmate |
tadanyāṃśca krameṇeva vaktuṃ kṛṣṇa tvamarhasi
इति श्रीगारुडे महापुराणे तृती० उत्त० ब्रह्मकाण्डे देवकृतविष्णुस्तुतिदेवतातारतम्यनिरूपणं नाम नवमोऽध्यायः ॥
27 श्लोक · 9 में से 29
गरुड़ पूछते हैं कि आजानज देवता कौन हैं। श्रीकृष्ण बताते हैं कि वे देवकुलों में जन्मे हैं और कर्मज देवताओं से नीचे हैं। वे चित्ररथ, हाहा, हूहू और विश्वावसु आदि पन्द्रह मुख्य गन्धर्वों तथा घृताची, मेनका, रम्भा, उर्वशी और तिलोत्तमा अप्सराओं के नाम लेते हैं। उसी श्रेणी के ऋषियों में कश्यप, पराशर, देवल, भरद्वाज, अगस्त्य, कण्व और शौनक गिनाते हैं। पूर्वजन्म में अग्निपुत्र रहीं उनकी सोलह सहस्र रानियाँ भी इसी श्रेणी में हैं। इनके नीचे पितर, देवगन्धर्व, राजा और श्रेष्ठ मनुष्य आते हैं, प्रत्येक आनन्द में सौ गुना कम। स्तुतियाँ पूरी होने पर हरि सबको आयतन देने का संकल्प करते हैं। यह स्तुति पवित्र, आरोग्यदायी और पापनाशिनी कही गई है।
श्रीगरुड उवाच
अजानजस्वरूपं च ब्रूहि कृष्ण महामते ।
तदन्यांश्च क्रमेणेव वक्तुं कृष्ण त्वमर्हसि
ajānajasvarūpaṃ ca brūhi kṛṣṇa mahāmate |
tadanyāṃśca krameṇeva vaktuṃ kṛṣṇa tvamarhasi
श्रीकृष्ण उवाच
अजानाख्या देवतास्तु तत्तद्देवकुले भवाः ।
अजानदेवतास्ता हि तेभ्योग्र्याः कर्मदेवताः
ajānākhyā devatāstu tattaddevakule bhavāḥ |
ajānadevatāstā hi tebhyogryāḥ karmadevatāḥ
विराधश्चारुदेष्णश्च तथा चित्ररथस्तथा ।
धृतराष्ट्रः किशोरश्च हूहूर्हाहास्तथैव च
virādhaścārudeṣṇaśca tathā citrarathastathā |
dhṛtarāṣṭraḥ kiśoraśca hūhūrhāhāstathaiva ca
विद्याधरश्चोग्रसेनो विश्वावसुपरावसू ।
चित्रसेनश्च गोपालो बलः पञ्चदश स्मृताः
vidyādharaścograseno viśvāvasuparāvasū |
citrasenaśca gopālo balaḥ pañcadaśa smṛtāḥ
एवमाद्याश्च गन्धर्वाः शतसंख्याः खगेश्वर ।
अजानजसमा ज्ञेया मुक्तौ संसार एव च
evamādyāśca gandharvāḥ śatasaṃkhyāḥ khageśvara |
ajānajasamā jñeyā muktau saṃsāra eva ca
अज्ञानजास्तु मे देवाः कर्मजेभ्यः शतावराः ।
घृताची मेनका रंभा उर्वशी च तिलोत्तमा
ajñānajāstu me devāḥ karmajebhyaḥ śatāvarāḥ |
ghṛtācī menakā raṃbhā urvaśī ca tilottamā
सुकेतुः शबरी चैव मञ्जुघोषा च पिङ्गला ।
इत्यादिकं यक्षरत्नं सह संपरिकीर्तितम्
suketuḥ śabarī caiva mañjughoṣā ca piṅgalā |
ityādikaṃ yakṣaratnaṃ saha saṃparikīrtitam
अजानजसमा ह्येते कर्मजेभ्यः शतावराः ।
विश्वामित्रो वसिष्ठश्च नारदश्च्यवनस्तथा
ajānajasamā hyete karmajebhyaḥ śatāvarāḥ |
viśvāmitro vasiṣṭhaśca nāradaścyavanastathā
उतथ्यश्च मुनिश्चैतान्द्राजपित्वा खगेश्वर ।
ऋषयश्च महात्मानो ह्यजानजसमाः स्मृताः
utathyaśca muniścaitāndrājapitvā khageśvara |
ṛṣayaśca mahātmāno hyajānajasamāḥ smṛtāḥ
शतर्चिः कश्यपो ज्ञेयो मध्यमश्च पराशरः ।
पावमान्यः प्रगाथश्च क्षुद्रसूक्तश्च देवलः
śatarciḥ kaśyapo jñeyo madhyamaśca parāśaraḥ |
pāvamānyaḥ pragāthaśca kṣudrasūktaśca devalaḥ
गृत्समदो ह्यासुरिश्च भरद्वाजोथ मुद्गलः ।
उद्दालको ह्यृष्यशृङ्गः शङ्खः सत्यव्रतस्तथा
gṛtsamado hyāsuriśca bharadvājotha mudgalaḥ |
uddālako hyṛṣyaśṛṅgaḥ śaṅkhaḥ satyavratastathā
सुयज्ञश्चैव बाभ्रव्यो माण्डूकश्चैव बाष्कलः ।
धर्माचार्यस्तथागस्त्यो दाल्भ्यो दार्ढ्यच्युतस्तथा
suyajñaścaiva bābhravyo māṇḍūkaścaiva bāṣkalaḥ |
dharmācāryastathāgastyo dālbhyo dārḍhyacyutastathā
कवषो हरितः कण्वो विरूपो मुसलस्तथा ।
विष्णुवृद्धश्च आत्रेयः श्रीवत्सो वत्सलेत्यपि
kavaṣo haritaḥ kaṇvo virūpo musalastathā |
viṣṇuvṛddhaśca ātreyaḥ śrīvatso vatsaletyapi
भार्गवश्चाप्नवानश्च माण्डूकेयस्तथैव ।
मण्डूकश्चैव जाबचलिः वीतिहव्यस्तथैव च
bhārgavaścāpnavānaśca māṇḍūkeyastathaiva |
maṇḍūkaścaiva jābacaliḥ vītihavyastathaiva ca
गृत्समदः शौनकश्च इत्याद्या ऋषयः स्मृताः ।
एतेषां श्रवणादेव हरिः प्रीणाति सर्वदा
gṛtsamadaḥ śaunakaśca ityādyā ṛṣayaḥ smṛtāḥ |
eteṣāṃ śravaṇādeva hariḥ prīṇāti sarvadā
ब्रुवे द्व्यष्टसहस्रं च शृणु तार्क्ष्य मम स्त्रियः ।
अग्निपुत्रास्तु यद्द्व्यष्टसहस्रञ्च मम स्त्रियः ।
अजानजसमा ह्येता
नात्र कार्या विचारणा
bruve dvyaṣṭasahasraṃ ca śṛṇu tārkṣya mama striyaḥ |
agniputrāstu yaddvyaṣṭasahasrañca mama striyaḥ |
ajānajasamā hyetā
nātra kāryā vicāraṇā
त्वष्टुः पुत्री कशेरूश्च तासां मध्ये गुणाधिका ।
तदनन्तरजान्वक्ष्ये शृणु सम्यक्खगेश्वर
tvaṣṭuḥ putrī kaśerūśca tāsāṃ madhye guṇādhikā |
tadanantarajānvakṣye śṛṇu samyakkhageśvara
आजानेभ्यस्तु पितरः सप्तभ्योन्ये शतावराः ।
तथाधिका हि पितर इति वेदविदां मतम्
ājānebhyastu pitaraḥ saptabhyonye śatāvarāḥ |
tathādhikā hi pitara iti vedavidāṃ matam
तदनन्तराजान्वक्ष्ये शृणु त्वं द्विजसत्तम ।
अष्टाभ्यो देवगन्धर्वा अष्टोत्तरशतं विना
tadanantarājānvakṣye śṛṇu tvaṃ dvijasattama |
aṣṭābhyo devagandharvā aṣṭottaraśataṃ vinā
तेभ्यः शतगुणानन्दा देवप्रेष्यास्तु मुख्यतः ।
स्वमुखेनेव देवैश्च आज्ञाप्याः सर्वदा गणाः
tebhyaḥ śataguṇānandā devapreṣyāstu mukhyataḥ |
svamukheneva devaiśca ājñāpyāḥ sarvadā gaṇāḥ
आख्याता देवगन्धर्वास्तेभ्यस्ते च शतावराः ।
तेभ्यस्तु क्षितिपा ज्ञेया अवराश्च शतैर्गुणैः
ākhyātā devagandharvāstebhyaste ca śatāvarāḥ |
tebhyastu kṣitipā jñeyā avarāśca śatairguṇaiḥ
तेभ्यः शतगुणाज्ञेया मानुषेषूत्तमा गणाः ।
एवं प्रासंगिकानुक्त्वा प्रकृतं ह्यनुसराम्यहम् ।
एवं ब्रह्मादयो देवा लक्ष्म्याद्या अपि सर्वशः
tebhyaḥ śataguṇājñeyā mānuṣeṣūttamā gaṇāḥ |
evaṃ prāsaṃgikānuktvā prakṛtaṃ hyanusarāmyaham |
evaṃ brahmādayo devā lakṣmyādyā api sarvaśaḥ
स्तुत्वा तूष्णीं स्थिताः सर्वे प्राञ्जलीकृत्य भो द्विज
stutvā tūṣṇīṃ sthitāḥ sarve prāñjalīkṛtya bho dvija
इति स्तुतश्च देवेशो भगवान् हरिरव्ययः ।
तेषामायतनं दातुं मनसा समचिन्तयत्
iti stutaśca deveśo bhagavān hariravyayaḥ |
teṣāmāyatanaṃ dātuṃ manasā samacintayat
इदं पवित्रमारोग्यं पुण्यं पापप्रणाशनम् ।
हरिप्रसादजनकं स्वरूपसुखसाधनम्
idaṃ pavitramārogyaṃ puṇyaṃ pāpapraṇāśanam |
hariprasādajanakaṃ svarūpasukhasādhanam
इदं तु स्तवनं विप्रा न पठन्तीह मानवाः ।
न शृण्वन्ति च ये नित्यं ते सर्वे चैव मायिनः
idaṃ tu stavanaṃ viprā na paṭhantīha mānavāḥ |
na śṛṇvanti ca ye nityaṃ te sarve caiva māyinaḥ
नस्मरन्तोन्तरं नित्यं ये भुञ्जन्ति नराधमाः ।
तैर्भुक्ता सततं विष्ठा सदा क्रिमिशतैर्युता
nasmarantontaraṃ nityaṃ ye bhuñjanti narādhamāḥ |
tairbhuktā satataṃ viṣṭhā sadā krimiśatairyutā
पाठ का स्रोत: Wikisource · CC BY-SA 4.0 (Wikisource transcription of a public-domain text)