अमावस्याष्टकावृद्धिकृष्णपक्षायनद्वयम्
amāvasyāṣṭakāvṛddhikṛṣṇapakṣāyanadvayam
इति श्रागारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे याज्ञवल्क्योक्तश्राद्धविधिनिरूपणं नाम नवनवतितमोऽध्यायः ॥
45 श्लोक · 99 में से 241
याज्ञवल्क्य श्राद्ध के काल गिनाते हैं: अमावस्या, अष्टका, वृद्धि अवसर, कृष्णपक्ष, दोनों अयन, विषुव और संक्रान्ति, व्यतीपात, गजच्छाया, सूर्य और चन्द्र ग्रहण, उत्तम सामग्री या योग्य ब्राह्मण का मिलना, और जब मन में श्रद्धा उठे। निमन्त्रण योग्य ब्राह्मण बताए गए हैं: श्रोत्रिय, वेदार्थ जानने वाला, त्रिणाचिकेत, त्रिसुपर्ण, भानजा, ऋत्विक्, जामाता, श्वसुर और मामा। फिर विधि आती है: पितरों का आवाहन, उल्टा रखा पात्र, ब्राह्मणों की अनुमति से अग्नि में आहुति, ब्राह्मण भोजन, पिण्डदान, देवभाग रहित एकोद्दिष्ट श्राद्ध, और ब्राह्मणों का विसर्जन। कृत्तिका से भरणी तक हर नक्षत्र पर किए श्राद्ध का अलग फल बताया गया है; प्रसन्न पितर आयु, सन्तान, धन, विद्या, स्वर्ग और मोक्ष देते हैं।
याज्ञवल्क्य उवाच
अमावस्याष्टकावृद्धिकृष्णपक्षायनद्वयम्
amāvasyāṣṭakāvṛddhikṛṣṇapakṣāyanadvayam
द्रव्यं ब्राह्मणसम्पत्तिर्विषुवत्सूर्य्यसंक्रमः ।
व्यतीपातो गजच्छाया ग्रहणं चन्द्रसूर्य्ययोः
dravyaṃ brāhmaṇasampattirviṣuvatsūryyasaṃkramaḥ |
vyatīpāto gajacchāyā grahaṇaṃ candrasūryyayoḥ
श्राद्धं प्रतिरुचिश्चैव श्राद्धकालाः प्रकीर्त्तिताः ।
अग्नियः सर्वदेवेषु श्रोत्रियो वेदविद्युवा
śrāddhaṃ pratiruciścaiva śrāddhakālāḥ prakīrttitāḥ |
agniyaḥ sarvadeveṣu śrotriyo vedavidyuvā
वेदार्थविज्ज्येष्ठसामा त्रिमधुस्त्रिसुपर्णिकः ।
स्वस्त्रीयऋत्विगजामातायज्यश्वशुरमातुलाः
vedārthavijjyeṣṭhasāmā trimadhustrisuparṇikaḥ |
svastrīyaṛtvigajāmātāyajyaśvaśuramātulāḥ
त्रिणाचिकेतदौहित्रशिष्यसम्बन्धिबान्धवाः ।
कर्मनिष्ठास्तपोनिष्ठाः पञ्चाग्निब्रह्मचारिणः
triṇāciketadauhitraśiṣyasambandhibāndhavāḥ |
karmaniṣṭhāstaponiṣṭhāḥ pañcāgnibrahmacāriṇaḥ
पितृमातृपराश्चैव ब्राह्मणाः श्राद्धदेवताः ।
रोगी हीनातिरिक्ताङ्गः काणः पौनर्भवस्तथा
pitṛmātṛparāścaiva brāhmaṇāḥ śrāddhadevatāḥ |
rogī hīnātiriktāṅgaḥ kāṇaḥ paunarbhavastathā
अवकीर्ण्याद यो ये च ये चाचारविवर्जिताः ।
अवैष्णवाश्च ते सर्वे न श्राद्धार्हाः कदाचन
avakīrṇyāda yo ye ca ye cācāravivarjitāḥ |
avaiṣṇavāśca te sarve na śrāddhārhāḥ kadācana
निमन्त्रयेच्च पूर्वेद्युर्द्विजैर्भाव्यं च संयतैः ।
आजान्तांश्चैव पूर्वाह्णेह्यासनेषूपवेशयेत्
nimantrayecca pūrvedyurdvijairbhāvyaṃ ca saṃyataiḥ |
ājāntāṃścaiva pūrvāhṇehyāsaneṣūpaveśayet
युग्मान्देवे तथा पित्र्ये स्वप्रदेशेषु शक्तितः ।
द्वौ दैव प्रागुदक् पित्र्ये त्रीण्येकं चोभयोः पृथक्
yugmāndeve tathā pitrye svapradeśeṣu śaktitaḥ |
dvau daiva prāgudak pitrye trīṇyekaṃ cobhayoḥ pṛthak
मातामहानामप्येवं तन्त्रं वा वैश्वदेविकम् ।
हस्तप्रक्षालनं दत्त्वा विष्टरार्थे कुशानपि
mātāmahānāmapyevaṃ tantraṃ vā vaiśvadevikam |
hastaprakṣālanaṃ dattvā viṣṭarārthe kuśānapi
आवाह्य तदनुज्ञातो विश्वदेवासइत्यृचा ।
यवैरन्नं विकीर्य्याथ भोजने सपवित्रके
āvāhya tadanujñāto viśvadevāsaityṛcā |
yavairannaṃ vikīryyātha bhojane sapavitrake
शन्नोदेव्या पयः क्षिप्त्वा यवोऽसीति यवांस्तथा ।
यादिव्या इति मन्त्रेण हस्तेष्वेव विनिः क्षिपेत्
śannodevyā payaḥ kṣiptvā yavo'sīti yavāṃstathā |
yādivyā iti mantreṇa hasteṣveva viniḥ kṣipet
गन्धोदके तथा दीपमाल्यदामप्रदीपकम् ।
अपसव्यं ततः कृत्वा पितॄणामप्रदक्षिणम्
gandhodake tathā dīpamālyadāmapradīpakam |
apasavyaṃ tataḥ kṛtvā pitṝṇāmapradakṣiṇam
द्विगुणांस्तु कुशान्दत्त्वा उशन्तस्त्वेत्यृचा पितॄन् ।
आवाह्य तदनु ज्ञातो जपेदायन्तुनस्ततः
dviguṇāṃstu kuśāndattvā uśantastvetyṛcā pitṝn |
āvāhya tadanu jñāto japedāyantunastataḥ
यवार्थस्तु तिलैः कार्य्यः कुर्य्यादर्घ्यादि पूर्ववत् ।
दत्त्वार्घ्यं संस्रंवांस्तेषां पात्रे कृत्वा विधानतः
yavārthastu tilaiḥ kāryyaḥ kuryyādarghyādi pūrvavat |
dattvārghyaṃ saṃsraṃvāṃsteṣāṃ pātre kṛtvā vidhānataḥ
पितृभ्यः स्थानमसीति न्युब्जं पात्रं करोत्यधः ।
अग्नौ करिष्य आदाय पृच्छत्यन्नं घृप्लुतम्
pitṛbhyaḥ sthānamasīti nyubjaṃ pātraṃ karotyadhaḥ |
agnau kariṣya ādāya pṛcchatyannaṃ ghṛplutam
कुरुष्वेति तथोक्तोसौ हुत्वाग्नौ पितृयज्ञवत् ।
हुतशेषं प्रदद्याच्च भाजनेषु समाहितः
kuruṣveti tathoktosau hutvāgnau pitṛyajñavat |
hutaśeṣaṃ pradadyācca bhājaneṣu samāhitaḥ
यथालाभोपपन्नेषु रौप्येषु च विशेषतः ।
दत्त्वान्नं पृथिवीपात्रमिति पात्राभिमन्त्रणम्
yathālābhopapanneṣu raupyeṣu ca viśeṣataḥ |
dattvānnaṃ pṛthivīpātramiti pātrābhimantraṇam
कृत्वे दंविष्णुरित्येवं द्विजाङ्गुष्ठं निवेशयेत् ।
सव्याहृतिं च गायत्त्रीं मधुवातेत्यृचस्तथा
kṛtve daṃviṣṇurityevaṃ dvijāṅguṣṭhaṃ niveśayet |
savyāhṛtiṃ ca gāyattrīṃ madhuvātetyṛcastathā
जप्त्वा यथासुखं वाच्यं भुञ्जीरंस्तेऽपि वाग्यताः ।
अन्नमिष्टं हविष्यं च दद्यादक्रोधनोत्वरः
japtvā yathāsukhaṃ vācyaṃ bhuñjīraṃste'pi vāgyatāḥ |
annamiṣṭaṃ haviṣyaṃ ca dadyādakrodhanotvaraḥ
आतृप्तेस्तु पवित्राणि जप्त्वा पूर्वजपं तथा ।
अन्नमादाय तृप्ताः स्थः शेषं चैवान्नमन्वहम् च
ātṛptestu pavitrāṇi japtvā pūrvajapaṃ tathā |
annamādāya tṛptāḥ sthaḥ śeṣaṃ caivānnamanvaham ca
तदन्नं विकिरेद्भूमौ दद्याच्चापः सकृत्सकृत् ।
सर्वमन्नमुपादाय सतिलं दक्षिणामुखः
tadannaṃ vikiredbhūmau dadyāccāpaḥ sakṛtsakṛt |
sarvamannamupādāya satilaṃ dakṣiṇāmukhaḥ
उच्छिष्टसन्निधौ पिण्डान्प्रदद्यात्पितृयज्ञवत् ।
मातामहानामप्यवं दद्यादाचमनं ततः
ucchiṣṭasannidhau piṇḍānpradadyātpitṛyajñavat |
mātāmahānāmapyavaṃ dadyādācamanaṃ tataḥ
स्वस्ति वाच्यं ततो दद्यादक्षय्योदकमेव च ।
दत्त्वा च दक्षिणां शक्त्या स्वधाकारमुदाहरेत्
svasti vācyaṃ tato dadyādakṣayyodakameva ca |
dattvā ca dakṣiṇāṃ śaktyā svadhākāramudāharet
वाच्यतामिन्यनुज्ञातः पितृभ्यश्च स्वधोच्यताम् ।
विप्रैरस्तु स्वधेत्युक्तो भूमौ सिञ्चेत्ततो जलम्
vācyatāminyanujñātaḥ pitṛbhyaśca svadhocyatām |
viprairastu svadhetyukto bhūmau siñcettato jalam
प्रीयन्तामिति चाहैवं विश्वेदेव्यं जलं ददत् ।
दातारो नोऽभिवर्धन्तां वेदाः सन्ततिरेव च
prīyantāmiti cāhaivaṃ viśvedevyaṃ jalaṃ dadat |
dātāro no'bhivardhantāṃ vedāḥ santatireva ca
श्रद्धा च नो मा व्यगमद्वहु देयं च नोऽस्त्विति ।
इत्युक्तोऽपि प्रिया वाचः प्रणिपत्य विसर्जयेत्
śraddhā ca no mā vyagamadvahu deyaṃ ca no'stviti |
ityukto'pi priyā vācaḥ praṇipatya visarjayet
वाजेवाजे इति प्रीत्या पितृपूर्वं विसर्जनम् ।
यस्मिंस्ते संस्रवाः पूर्वमर्घ्यपात्रे निपातिताः
vājevāje iti prītyā pitṛpūrvaṃ visarjanam |
yasmiṃste saṃsravāḥ pūrvamarghyapātre nipātitāḥ
पितृपात्रं तदुत्तानं कृत्वा विप्रान्विसर्जयेत् ।
प्रदक्षिणमनुव्रज्य भुञ्जीत पितृसेवितम्
pitṛpātraṃ taduttānaṃ kṛtvā viprānvisarjayet |
pradakṣiṇamanuvrajya bhuñjīta pitṛsevitam
ब्रह्मचारीं भवेत्तां तु रजनीं भार्य्यया सह ।
एवं प्रदक्षिणं कृत्वा वृद्धौ नान्दीमुखानपि
brahmacārīṃ bhavettāṃ tu rajanīṃ bhāryyayā saha |
evaṃ pradakṣiṇaṃ kṛtvā vṛddhau nāndīmukhānapi
यजेत्तदधिकर्कन्धूमिश्राः पिण्डा यैवः श्रिताः ।
एकोद्दिष्टं दैवहीनं एकान्नैकपवित्रकम्
yajettadadhikarkandhūmiśrāḥ piṇḍā yaivaḥ śritāḥ |
ekoddiṣṭaṃ daivahīnaṃ ekānnaikapavitrakam
आवाहनाग्नौकरणरहितं त्वपसव्यवत् ।
उपतिष्ठतामित्यक्षय्यस्थाने विप्रान्विसर्जयेत्
āvāhanāgnaukaraṇarahitaṃ tvapasavyavat |
upatiṣṭhatāmityakṣayyasthāne viprānvisarjayet
अभिरम्यतां प्रबूयाद् ब्रुयुस्तेभिरताः स्म ह ।
गन्धो दकतिलैर्मिश्रं कुर्य्यात्पात्रचतुष्टयम्
abhiramyatāṃ prabūyād bruyustebhiratāḥ sma ha |
gandho dakatilairmiśraṃ kuryyātpātracatuṣṭayam
अर्घ्यार्थं पितृपात्रेषु प्रेतपात्रं प्रसेचयेत् ।
ये समाना इति द्वाभ्यां शेषं पूर्ववदाचरेत्
arghyārthaṃ pitṛpātreṣu pretapātraṃ prasecayet |
ye samānā iti dvābhyāṃ śeṣaṃ pūrvavadācaret
एतत्सपिण्डीकरणमेकोद्दिष्टं स्त्रिया अपि ।
अर्वाक् सपिण्डीकरणं यस्य संवत्सराद्भवेत्
etatsapiṇḍīkaraṇamekoddiṣṭaṃ striyā api |
arvāk sapiṇḍīkaraṇaṃ yasya saṃvatsarādbhavet
तस्याप्यन्नं सोदकुम्भं दद्यात्संवत्सरं द्विजः ।
पिण्डांश्च गोज विप्रेभ्यो दद्याद्ग्नौ जलेऽपि वा
tasyāpyannaṃ sodakumbhaṃ dadyātsaṃvatsaraṃ dvijaḥ |
piṇḍāṃśca goja viprebhyo dadyādgnau jale'pi vā
हविष्यान्नेन वै मासं पायसेन तु वत्सरम् ।
मात्स्यहारिणकौरभ्रशाकुनच्छागपार्षतैः
haviṣyānnena vai māsaṃ pāyasena tu vatsaram |
mātsyahāriṇakaurabhraśākunacchāgapārṣataiḥ
ऐणरौरववा राहशाशमांसैर्यथाक्रमम् ।
मासवृद्ध्यापि तुष्यन्ति दत्तैरिह पितामहाः
aiṇarauravavā rāhaśāśamāṃsairyathākramam |
māsavṛddhyāpi tuṣyanti dattairiha pitāmahāḥ
दद्याद्वर्षात्रयोदश्यां मघासु च न संशयः ।
प्रतिपत्प्रभृतिष्वेवं कन्या दीश्राद्धदो लभेत्
dadyādvarṣātrayodaśyāṃ maghāsu ca na saṃśayaḥ |
pratipatprabhṛtiṣvevaṃ kanyā dīśrāddhado labhet
शस्त्रेण निहतानां तु चतुर्दश्यां प्रदीयते ।
स्वर्गं ह्यपत्यमोजश्च शौर्य्यं क्षेत्रं बलं तथा
śastreṇa nihatānāṃ tu caturdaśyāṃ pradīyate |
svargaṃ hyapatyamojaśca śauryyaṃ kṣetraṃ balaṃ tathā
पुत्रश्रैष्ट्यं स सौभाग्यं समृद्धिं मुख्यतां शुभम् ।
प्रवृत्तचक्रतां चैव वाणिज्यप्रभृतींस्तथा
putraśraiṣṭyaṃ sa saubhāgyaṃ samṛddhiṃ mukhyatāṃ śubham |
pravṛttacakratāṃ caiva vāṇijyaprabhṛtīṃstathā
अरोगित्वं यशो वीतशोकतां परमां गतिम् ।
धनं विद्यां च वाक्सिद्धिं कुप्यं गोजाविकं तथा
arogitvaṃ yaśo vītaśokatāṃ paramāṃ gatim |
dhanaṃ vidyāṃ ca vāksiddhiṃ kupyaṃ gojāvikaṃ tathā
अश्वानायुश्च विधिवद्यः श्राद्धं संप्रयच्छति ।
कृत्तिकादिभरण्यन्तं स कामान्प्राप्नुयादिमान्
aśvānāyuśca vidhivadyaḥ śrāddhaṃ saṃprayacchati |
kṛttikādibharaṇyantaṃ sa kāmānprāpnuyādimān
वस्त्राद्याः प्रीणयन्त्येव नरं श्राद्धकृतं द्विजाः ।
आयुः प्रजा धनं विद्यां स्वर्गमोक्षसुखानि च
vastrādyāḥ prīṇayantyeva naraṃ śrāddhakṛtaṃ dvijāḥ |
āyuḥ prajā dhanaṃ vidyāṃ svargamokṣasukhāni ca
प्रयच्छति यथा राज्यं प्रीत्या नित्यं पितामहः
prayacchati yathā rājyaṃ prītyā nityaṃ pitāmahaḥ
पाठ का स्रोत: Wikisource · CC BY-SA 4.0 (Wikisource transcription of a public-domain text)