अन्येभ्यो ब्राह्मणाः श्रेष्ठास्तेभ्यश्चैव क्रियापराः
anyebhyo brāhmaṇāḥ śreṣṭhāstebhyaścaiva kriyāparāḥ
इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे याज्ञवल्क्योक्तदानधर्मनिरूपणं नामाष्टनवतितमोऽध्यायः ॥
20 श्लोक · 98 में से 241
क्रियानिष्ठ ब्राह्मण दूसरों से श्रेष्ठ हैं, और ब्रह्मवेत्ता उनसे भी; विद्या और तप से युक्त व्यक्ति ही सच्चा पात्र है। गाय, भूमि, अन्न और स्वर्ण उसे आदरपूर्वक देना चाहिए। जिसमें विद्या और तप न हो वह दान न ले, क्योंकि लेने पर वह दाता को और स्वयं को भी नीचे ले जाता है। प्रतिदिन श्रद्धा से और सामर्थ्य के अनुसार दान दे, माँगने पर भी। याज्ञवल्क्य बछड़े सहित गोदान बताते हैं: दाता गाय के रोमों जितने वर्ष स्वर्ग में रहता है, और कपिला गाय सात पीढ़ियाँ तारती है। वेद का ज्ञान देना, या अपने धन से शास्त्र लिखवाकर देना, ब्रह्मलोक दिलाता है। कुशा, शाक, दूध, गन्ध और जल का दान कभी न ठुकराए, और बिना माँगे मिला दान ग्रहण किया जा सकता है।
याज्ञवल्क्य उवाच
अन्येभ्यो ब्राह्मणाः श्रेष्ठास्तेभ्यश्चैव क्रियापराः
anyebhyo brāhmaṇāḥ śreṣṭhāstebhyaścaiva kriyāparāḥ
ब्रह्मवेत्ता च तेभ्योऽपि पात्रं विद्यात्तपोऽन्विताः ।
गोभूधान्यहिरण्यादि पात्रे दातव्यमर्चितम्
brahmavettā ca tebhyo'pi pātraṃ vidyāttapo'nvitāḥ |
gobhūdhānyahiraṇyādi pātre dātavyamarcitam
विद्यातपोभ्यां हीनेन न तु ग्राह्यः प्रतिग्रहः ।
गृह्णन्प्रदातारमधो नयत्यात्मानमेव च
vidyātapobhyāṃ hīnena na tu grāhyaḥ pratigrahaḥ |
gṛhṇanpradātāramadho nayatyātmānameva ca
दातव्यं प्रत्यहं पात्रे निमित्तेषु विशेषतः ।
याचितेनापि दातव्यं श्रद्धापूतं तु शक्तितः
dātavyaṃ pratyahaṃ pātre nimitteṣu viśeṣataḥ |
yācitenāpi dātavyaṃ śraddhāpūtaṃ tu śaktitaḥ
हेमश्रृङ्गी शफैः रौप्यैः सुशीला वस्त्रसंयुता ।
सकांस्यापात्रा दातव्या क्षीरिणी गौः सदक्षिणा
hemaśrṛṅgī śaphaiḥ raupyaiḥ suśīlā vastrasaṃyutā |
sakāṃsyāpātrā dātavyā kṣīriṇī gauḥ sadakṣiṇā
दशसौवर्णिकं श्रृङ्गं शफं सप्तपलैः कृतम् ।
पञ्चाशत्पलिकं पात्रं कांस्यं वत्सस्य कीर्त्त्यते
daśasauvarṇikaṃ śrṛṅgaṃ śaphaṃ saptapalaiḥ kṛtam |
pañcāśatpalikaṃ pātraṃ kāṃsyaṃ vatsasya kīrttyate
स्वर्णपिप्पलपात्रेण वत्सो वा वत्सिकापि वा ।
अस्या अपि च दातव्यमपत्यं रोगवर्जितम्
svarṇapippalapātreṇa vatso vā vatsikāpi vā |
asyā api ca dātavyamapatyaṃ rogavarjitam
दाता स्वर्गमवाप्नोति वत्सरान्रोमसंमितान् ।
कपिला चेत्तारयते भूयश्चासप्तमं कुलम्
dātā svargamavāpnoti vatsarānromasaṃmitān |
kapilā cettārayate bhūyaścāsaptamaṃ kulam
यावद्वत्सस्य द्वौ पादौ मुखं योन्यां प्रदृश्यते ।
तावद्गौः पृथिवी ज्ञेया यावद्गर्भं न मुञ्चति
yāvadvatsasya dvau pādau mukhaṃ yonyāṃ pradṛśyate |
tāvadgauḥ pṛthivī jñeyā yāvadgarbhaṃ na muñcati
यथा कथञ्चिद्दत्त्वा गां धेनुं वाऽधेनुमेव वा ।
अरोगामपरिक्लिष्टां दाता स्वर्गे महीयते
yathā kathañciddattvā gāṃ dhenuṃ vā'dhenumeva vā |
arogāmaparikliṣṭāṃ dātā svarge mahīyate
श्रान्तसंवाहनं रोगिपरिचर्य्या सुरार्चनम् ।
पादशौचं द्विजोच्छिष्टमार्जनं गोप्रदानवत्
śrāntasaṃvāhanaṃ rogiparicaryyā surārcanam |
pādaśaucaṃ dvijocchiṣṭamārjanaṃ gopradānavat
द्विजाय यदभीष्टं तु दत्त्वा स्वर्गमवाप्नुयात् ।
भूदीपांश्चान्नवस्त्राणि सर्पिर्दत्त्वा व्रजेच्छ्रियम्
dvijāya yadabhīṣṭaṃ tu dattvā svargamavāpnuyāt |
bhūdīpāṃścānnavastrāṇi sarpirdattvā vrajecchriyam
गृहधान्यच्छत्रमाल्यवृक्षयानघृतं जलम् ।
शय्यानुलेपनं दत्त्वा स्वर्गलोके महीयते
gṛhadhānyacchatramālyavṛkṣayānaghṛtaṃ jalam |
śayyānulepanaṃ dattvā svargaloke mahīyate
ब्रह्मदाता ब्रह्मलोकं प्राप्नोति सुरदुर्लभम् ।
वेदार्थयज्ञशास्त्राणि धर्मशास्त्राणि चैव हि
brahmadātā brahmalokaṃ prāpnoti suradurlabham |
vedārthayajñaśāstrāṇi dharmaśāstrāṇi caiva hi
मूल्येनापि लिखित्वापि ब्रह्मलोकमवाप्नुयात् ।
एतन्मूलं जगद्यस्मादसृजत्पूर्वमीश्वरः
mūlyenāpi likhitvāpi brahmalokamavāpnuyāt |
etanmūlaṃ jagadyasmādasṛjatpūrvamīśvaraḥ
तस्मात्सर्वप्रयत्नेन कार्य्यो वेदार्थसंग्रहः ।
इतिहासपुराणं वा लिखित्वा यः प्रयच्छति
tasmātsarvaprayatnena kāryyo vedārthasaṃgrahaḥ |
itihāsapurāṇaṃ vā likhitvā yaḥ prayacchati
ब्रह्मदानसमं पुण्यं प्राप्नोति द्विगुणोन्नतिम् ।
लोकायतं कुतर्कश्च प्राकृतम्लेच्छभाषितम्
brahmadānasamaṃ puṇyaṃ prāpnoti dviguṇonnatim |
lokāyataṃ kutarkaśca prākṛtamlecchabhāṣitam
न श्रोतव्यं द्विजेनैतदधो नयति तं द्विजम् ।
समर्थो यो न गृह्णीयाद्दातृलोकानवाप्नुयात्
na śrotavyaṃ dvijenaitadadho nayati taṃ dvijam |
samartho yo na gṛhṇīyāddātṛlokānavāpnuyāt
कुशाः शाकं पयो गन्धाः प्रत्याख्येया न वारि च ।
अयाचिताहृतं ग्राह्यमपि दुष्कृतकर्मणः
kuśāḥ śākaṃ payo gandhāḥ pratyākhyeyā na vāri ca |
ayācitāhṛtaṃ grāhyamapi duṣkṛtakarmaṇaḥ
अन्यत्र कुलटाषण्डपतितेभ्यो द्विषस्तथा ।
देवातिथ्यर्चनकृते पितृतृप्त्यर्थमेव च ।
सर्वतः प्रतिगृह्णीयादात्मतृप्त्यर्थमेव च
anyatra kulaṭāṣaṇḍapatitebhyo dviṣastathā |
devātithyarcanakṛte pitṛtṛptyarthameva ca |
sarvataḥ pratigṛhṇīyādātmatṛptyarthameva ca
पाठ का स्रोत: Wikisource · CC BY-SA 4.0 (Wikisource transcription of a public-domain text)