पूर्व खण्ड — आचार काण्ड

अध्याय 88: रुचि और पितरों का कर्म संवाद

इति श्रागारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे कर्मज्ञानमा नामाष्टाशीतितमोऽध्यायः ॥

28 श्लोक · 88 में से 241

इस अध्याय में क्या होता है

रुचि और पितरों का कर्म संवाद

सूत बताते हैं कि मार्कण्डेय ने क्रौञ्चुकि को रुचि की कथा सुनाई। प्रजापति रुचि बिना अग्नि, बिना घर, बिना पत्नी और आश्रम के, आसक्ति से मुक्त होकर पृथ्वी पर घूमते थे। उनके पितर प्रकट हुए और पूछा कि उन्होंने विवाह क्यों नहीं किया, जबकि गृहस्थ धर्म स्वर्ग और मोक्ष दोनों का कारण है। रुचि ने उत्तर दिया कि परिग्रह दुःख और पाप का कारण है, और वेद कर्ममार्ग को अविद्या कहता है, तो वे उन्हें उसमें क्यों लगाते हैं? पितरों ने कहा कि कर्म ही विद्या की प्राप्ति का साधन है, देव, ऋषि और पितृ ऋण चुकाने ही होंगे, और श्राद्ध के बिना उनका पतन होगा तथा रुचि की भी अधोगति होगी। इतना कहकर वे वैसे ही अदृश्य हो गए जैसे हवा से दीपक बुझ जाते हैं।

सूत उवाच

88.1

हरिर्मन्वन्तराण्याह ब्रह्मादिभ्यो हराय च ।
मार्कण्डेयः पितृस्तो त्रं क्रौञ्चुकिं प्राह तच्छृणु

harirmanvantarāṇyāha brahmādibhyo harāya ca |
mārkaṇḍeyaḥ pitṛsto traṃ krauñcukiṃ prāha tacchṛṇu

मार्कण्डेय उवाच

88.2

रुचिः प्रजापतिः पूर्वं निर्ममो निरहंकृतिः ।
अत्रस्तोऽमितमायी च चचार पृथिवीमिमाम्

ruciḥ prajāpatiḥ pūrvaṃ nirmamo nirahaṃkṛtiḥ |
atrasto'mitamāyī ca cacāra pṛthivīmimām

88.3

अनग्निमनिकेतं तमेकाहारमनाश्रमम् ।
विमुक्तसङ्गं तं दृष्ट्वा प्रोचुः स्वपितरो मुनिम्

anagnimaniketaṃ tamekāhāramanāśramam |
vimuktasaṅgaṃ taṃ dṛṣṭvā procuḥ svapitaro munim

पितर ऊचुः

88.4

वत्स कस्मात्त्वया पुण्यो न कृतो दार संग्रहः ।
स्वर्गापवर्गहे
तुत्वाद्वन्धस्तेनानिशं
विना

vatsa kasmāttvayā puṇyo na kṛto dāra saṃgrahaḥ |
svargāpavargahe
tutvādvandhastenāniśaṃ
vinā

88.5

गृही समस्तदेवानां पितॄणां च तथार्हणम् ।
ऋषीणामर्थिनां चैव कुर्वल्लो कानवाप्नुयात्

gṛhī samastadevānāṃ pitṝṇāṃ ca tathārhaṇam |
ṛṣīṇāmarthināṃ caiva kurvallo kānavāpnuyāt

88.6

स्वाहोच्चारणतो देवान्स्वधोच्चारणतः पितृन् ।
विभजत्यन्नदानेन भृत्याद्यानतिथीनपि

svāhoccāraṇato devānsvadhoccāraṇataḥ pitṛn |
vibhajatyannadānena bhṛtyādyānatithīnapi

88.7

सत्त्वं दैवादृणाद्वन्धमिममस्मदृणादपि ।
अवाप्तोऽसि मनुष्यर्षे भूतेभ्यश्च दिनेदिने

sattvaṃ daivādṛṇādvandhamimamasmadṛṇādapi |
avāpto'si manuṣyarṣe bhūtebhyaśca dinedine

88.8

अनुत्पाद्य सुतान्देवानसन्तर्प्य पितॄस्तथा ।
अकृत्वा च कथं मौण्ड्यं स्वर्गतिं प्राप्तुमिच्छसि

anutpādya sutāndevānasantarpya pitṝstathā |
akṛtvā ca kathaṃ mauṇḍyaṃ svargatiṃ prāptumicchasi

88.9

क्लेशबोधैककं पुत्रं अन्यायेन भवेत्तव ।
मृतस्य नरकं त्यक्त्वा क्लेशं एवान्यजन्मनि

kleśabodhaikakaṃ putraṃ anyāyena bhavettava |
mṛtasya narakaṃ tyaktvā kleśaṃ evānyajanmani

रुचिरुवाच

88.10

परिग्रहोऽतिदुः खाय पापाया धोगतेस्तथा ।
भवत्यतो मया पूर्वं न कृतो दारसंग्रहः

parigraho'tiduḥ khāya pāpāyā dhogatestathā |
bhavatyato mayā pūrvaṃ na kṛto dārasaṃgrahaḥ

88.11

आत्मनः संशयोपायः क्रियते क्षणमन्त्रणात् ।
स्वमुक्तिहेतुर्न भवत्यसावपि परिग्रहात्

ātmanaḥ saṃśayopāyaḥ kriyate kṣaṇamantraṇāt |
svamuktiheturna bhavatyasāvapi parigrahāt

88.12

प्रक्षाल्यतेऽनुदिवसं य आत्मा निष्परिग्रहः ।
मम त्वपङ्कदिग्धोऽपि विद्याम्भोभिर्वरं हि तत्

prakṣālyate'nudivasaṃ ya ātmā niṣparigrahaḥ |
mama tvapaṅkadigdho'pi vidyāmbhobhirvaraṃ hi tat

88.13

अनेकभवसंभूतकर्मपङ्काङ्कितो बुधैः ।
आत्मा तत्त्वज्ञानतोयैः प्रक्षाल्यो नियतेन्द्रियैः

anekabhavasaṃbhūtakarmapaṅkāṅkito budhaiḥ |
ātmā tattvajñānatoyaiḥ prakṣālyo niyatendriyaiḥ

पितर ऊचुः

88.14

युक्तं प्रक्षालनं कर्त्तुमात्मनोऽपि यतेन्द्रियैः ।
किं तु नोपायमार्गोऽयं यतस्त्वं पुत्र वर्त्तसे

yuktaṃ prakṣālanaṃ karttumātmano'pi yatendriyaiḥ |
kiṃ tu nopāyamārgo'yaṃ yatastvaṃ putra varttase

88.15

पञ्चयज्ञैस्तपोदानैरशुभं नुदतस्तव ।
फलाभिसन्धिरहितैः पूर्वकम शुभाशुभैः

pañcayajñaistapodānairaśubhaṃ nudatastava |
phalābhisandhirahitaiḥ pūrvakama śubhāśubhaiḥ

88.16

एवं न बन्धो भवति कुर्वतः कारणात्मकम् ।
न च बन्धाय तत्कर्म भवत्यनतिसन्निभम्

evaṃ na bandho bhavati kurvataḥ kāraṇātmakam |
na ca bandhāya tatkarma bhavatyanatisannibham

88.17

पूर्वकर्म कृतं भोगैः क्षीयते ह्यनिशन्तथा ।
सुखदुः खात्मकैर्वत्स पुण्या पुण्यात्मकं नृणाम्

pūrvakarma kṛtaṃ bhogaiḥ kṣīyate hyaniśantathā |
sukhaduḥ khātmakairvatsa puṇyā puṇyātmakaṃ nṛṇām

88.18

एवं प्रक्षाल्यते प्राज्ञैरात्मा बन्धाच्च रक्ष्यते ।
रक्ष्यश्च स्वविवेकैर्न पापपङ्केन दह्यते

evaṃ prakṣālyate prājñairātmā bandhācca rakṣyate |
rakṣyaśca svavivekairna pāpapaṅkena dahyate

रुचिरुवाच

88.19

अविद्या पच्यते वेदे कर्ममार्गात्पितामहाः ।
तत्कथं कर्मणो मार्गे भवन्तो योजयन्ति माम्

avidyā pacyate vede karmamārgātpitāmahāḥ |
tatkathaṃ karmaṇo mārge bhavanto yojayanti mām

88.20

पितर उचुः ।
अविद्या सर्वमेवैतत्कर्मणैतन्मृषा वचः ।
किं तु विद्यापरिप्राप्तौ हेतुः कर्म न संशयः

pitara ucuḥ |
avidyā sarvamevaitatkarmaṇaitanmṛṣā vacaḥ |
kiṃ tu vidyāpariprāptau hetuḥ karma na saṃśayaḥ

88.21

विहिताकरणानर्थो न सद्भिः क्रियते तु यः ।
संयमो मुक्तये योऽन्यः प्रत्युताधोगतिप्रदः

vihitākaraṇānartho na sadbhiḥ kriyate tu yaḥ |
saṃyamo muktaye yo'nyaḥ pratyutādhogatipradaḥ

88.22

प्रक्षालयामीति भवान्यदेतन्मन्यते वरम् ।
विहिताकरणोद्भूतैः पापैस्त्वमपि दह्यसे

prakṣālayāmīti bhavānyadetanmanyate varam |
vihitākaraṇodbhūtaiḥ pāpaistvamapi dahyase

88.23

अविद्याप्युपकाराय विषवज्जायते नृणाम् ।
अनुष्ठानाभ्युपायेन बन्धयोग्यापि नो हि सा

avidyāpyupakārāya viṣavajjāyate nṛṇām |
anuṣṭhānābhyupāyena bandhayogyāpi no hi sā

88.24

तस्माद्वत्स कुरुष्व त्वं विधिवद्दारसंग्रहम् ।
आजन्म विफलन्तेऽस्तु असम्प्राप्यान्यलौकिकम्

tasmādvatsa kuruṣva tvaṃ vidhivaddārasaṃgraham |
ājanma viphalante'stu asamprāpyānyalaukikam

88.25

वृद्धोऽहं साम्प्रतं को मे पितरः सम्प्रिदास्यति ।
भार्यान्तथा दरिद्रस्य दुष्करो दारसंग्रहः

vṛddho'haṃ sāmprataṃ ko me pitaraḥ sampridāsyati |
bhāryāntathā daridrasya duṣkaro dārasaṃgrahaḥ

पितर ऊचुः

88.26

अस्माकं पतनं वत्स भवतश्चाप्यधोगतिः ।
नूनं भावि भवित्री च नाभिनन्दसि नो वचः

asmākaṃ patanaṃ vatsa bhavataścāpyadhogatiḥ |
nūnaṃ bhāvi bhavitrī ca nābhinandasi no vacaḥ

88.27

इत्युक्त्वा पितरस्तस्य पश्यतो मुनिसत्तम ।
बभूवुः सहसाऽदृश्या दीपा वातहता इव

ityuktvā pitarastasya paśyato munisattama |
babhūvuḥ sahasā'dṛśyā dīpā vātahatā iva

88.28

मुनिः क्रौंचुकये प्राह मार्कण्डेयो महातपाः ।
रुचिवृत्तान्तमखिलं पितृसंवादलक्षणम्

muniḥ krauṃcukaye prāha mārkaṇḍeyo mahātapāḥ |
rucivṛttāntamakhilaṃ pitṛsaṃvādalakṣaṇam

पाठ का स्रोत: Wikisource · CC BY-SA 4.0 (Wikisource transcription of a public-domain text)