येयं प्रेतशिला ख्याता गयायां सा त्रिधा स्थिता ।
प्रभासे प्रेतकुण्डे च गयासुरशिरस्यपि
yeyaṃ pretaśilā khyātā gayāyāṃ sā tridhā sthitā |
prabhāse pretakuṇḍe ca gayāsuraśirasyapi
इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे गयामाहात्म्यं नाम षडशीतितमोऽध्यायः ॥
40 श्लोक · 86 में से 241
गया की प्रेतशिला तीन स्थानों पर है: प्रभास, प्रेतकुण्ड और गयासुर के सिर पर। धर्म द्वारा धारण की गई यह शिला सर्वदेवमयी है और प्रेत बने बन्धु बान्धवों के उद्धार के लिए है; इसलिए मुनि, राजा और रानियाँ उस पर श्राद्ध करके ब्रह्मलोक पाते हैं। असुर के मुण्ड पर शिला होने से पर्वत का नाम मुण्डपृष्ठ पड़ा; उसके चरणों में अरविन्द और क्रौञ्चपाद पर्वत हैं। गदाधर आदि देव शिलारूप में अव्यक्त होकर वहाँ स्थित रहे, फिर समय आने पर आदि गदाधर प्रकट हुए, जैसे हरि मत्स्य, कूर्म, वराह, नृसिंह, वामन, राम, कृष्ण, बुद्ध और कल्कि रूप में प्रकट होते हैं। ब्रह्मा उनकी पूजा की सामग्री तथा बलभद्र, सुभद्रा, पुरुषोत्तम और नारायण की पूजा का फल बताते हैं। जैसे तीर्थों में गया श्रेष्ठ है, वैसे ही वहाँ गदाधर श्रेष्ठ हैं।
ब्रह्मोवाच
येयं प्रेतशिला ख्याता गयायां सा त्रिधा स्थिता ।
प्रभासे प्रेतकुण्डे च गयासुरशिरस्यपि
yeyaṃ pretaśilā khyātā gayāyāṃ sā tridhā sthitā |
prabhāse pretakuṇḍe ca gayāsuraśirasyapi
धर्मेण धारिता भूत्यै सर्वदेवमयी शिला ।
प्रेतत्वं ये गता नॄणां मित्राद्या बान्धवादयः
dharmeṇa dhāritā bhūtyai sarvadevamayī śilā |
pretatvaṃ ye gatā nṝṇāṃ mitrādyā bāndhavādayaḥ
तेषामुद्धरणार्थाय यतः प्रेतशिला शुभा ।
अतोऽत्र मुनयो भूपा राजपत्न्यादयः सदा
teṣāmuddharaṇārthāya yataḥ pretaśilā śubhā |
ato'tra munayo bhūpā rājapatnyādayaḥ sadā
तस्यां शिलायां श्राद्धादिकर्त्तारो ब्रह्मलोकगाः ।
गयासुरस्य यन्मुण्डं तस्य पृष्ठे शिला यतः
tasyāṃ śilāyāṃ śrāddhādikarttāro brahmalokagāḥ |
gayāsurasya yanmuṇḍaṃ tasya pṛṣṭhe śilā yataḥ
मुण्डपृष्ठो गिरिस्तस्मात्सर्वदेवमयो ह्ययम् ।
मुण्डपृष्ठस्य पादेषु यतो ब्रह्मसरोमुखाः
muṇḍapṛṣṭho giristasmātsarvadevamayo hyayam |
muṇḍapṛṣṭhasya pādeṣu yato brahmasaromukhāḥ
अरविन्दवनं तेषु तेन चैवोपलक्षितः ।
अरविन्दो गिरिर्नाम क्रौञ्चपादाङ्कितो यतः
aravindavanaṃ teṣu tena caivopalakṣitaḥ |
aravindo girirnāma krauñcapādāṅkito yataḥ
तस्माद्गिरिः क्रौञ्चपादः पितॄणां ब्रह्मलोकदः ।
गदाधरादयो देवा आद्या आदौ व्यवस्थिताः
tasmādgiriḥ krauñcapādaḥ pitṝṇāṃ brahmalokadaḥ |
gadādharādayo devā ādyā ādau vyavasthitāḥ
शिलारूपेण चाव्यक्तास्तस्माद्देवमयी शिला ।
गया शिरश्छादयित्वा गुरुत्वादास्थिता शिला
śilārūpeṇa cāvyaktāstasmāddevamayī śilā |
gayā śiraśchādayitvā gurutvādāsthitā śilā
कालान्तरेण व्यक्तश्चस्थित आदिगदाधरः ।
महारुद्रादिदेवैस्तु आनादिनिधनो हरिः
kālāntareṇa vyaktaścasthita ādigadādharaḥ |
mahārudrādidevaistu ānādinidhano hariḥ
धर्म संरक्षणार्थाय अधर्मादिविनष्टये ।
दैत्यराक्षसनाशार्थं मत्स्यः पूर्वं यथाभवत्
dharma saṃrakṣaṇārthāya adharmādivinaṣṭaye |
daityarākṣasanāśārthaṃ matsyaḥ pūrvaṃ yathābhavat
कूर्मो वराहो नृहरिर्वामनो राम ऊर्जितः ।
यथा दाशरथी रामः कृष्णोबुद्धोऽथ कल्क्यपि
kūrmo varāho nṛharirvāmano rāma ūrjitaḥ |
yathā dāśarathī rāmaḥ kṛṣṇobuddho'tha kalkyapi
तथा व्यक्तोऽव्यक्तरूपी आसीदादिर्गदाधरः ।
आदिरादौ पूजितोऽत्र देवैर्ब्रह्मादिभिर्यतः
tathā vyakto'vyaktarūpī āsīdādirgadādharaḥ |
ādirādau pūjito'tra devairbrahmādibhiryataḥ
पाद्याद्यैर्गन्धपुष्पाद्यैरत आदिगदाधरः ।
गदाधरं सुरैः सार्द्धमाद्यं गत्वा ददाति यः
pādyādyairgandhapuṣpādyairata ādigadādharaḥ |
gadādharaṃ suraiḥ sārddhamādyaṃ gatvā dadāti yaḥ
अर्घ्यं पात्रं च पाद्यं च गन्धपुष्पं च धूपकम् ।
दीपं नैवैद्यमुत्कृष्टं माल्यानि विविधानि च
arghyaṃ pātraṃ ca pādyaṃ ca gandhapuṣpaṃ ca dhūpakam |
dīpaṃ naivaidyamutkṛṣṭaṃ mālyāni vividhāni ca
वस्त्राणि मुकुटं घण्टां चामरं प्रेक्षणीयकम् ।
अलङ्कारादिकं पिण्डमन्नदानादिकं तथा
vastrāṇi mukuṭaṃ ghaṇṭāṃ cāmaraṃ prekṣaṇīyakam |
alaṅkārādikaṃ piṇḍamannadānādikaṃ tathā
तेषां तावद्धनं धान्यमायुरारो ग्यसम्पदः ।
पुत्त्रादिसन्ततिश्रेयोविद्यार्थं काम ईप्सितः
teṣāṃ tāvaddhanaṃ dhānyamāyurāro gyasampadaḥ |
puttrādisantatiśreyovidyārthaṃ kāma īpsitaḥ
भार्य्या स्वर्गादिवासश्च स्वर्गादागत्य राज्यकम् ।
कुलीनः सत्त्वसम्पन्नो रणे मर्दितशात्रवनः
bhāryyā svargādivāsaśca svargādāgatya rājyakam |
kulīnaḥ sattvasampanno raṇe marditaśātravanaḥ
वधबन्धविनिर्मुक्तश्चान्ते मोक्षमवाप्नुयात् ।
श्राद्धपिण्डादिकर्त्तारः पितृभिर्ब्रह्मलोकगाः
vadhabandhavinirmuktaścānte mokṣamavāpnuyāt |
śrāddhapiṇḍādikarttāraḥ pitṛbhirbrahmalokagāḥ
जगन्नाथं येऽप्चयन्ति सुभद्रां बलभद्रकम् ।
ज्ञानं प्राप्य श्रियं पुत्रान्व्रजन्ति पुरुषोत्तमम्
jagannāthaṃ ye'pcayanti subhadrāṃ balabhadrakam |
jñānaṃ prāpya śriyaṃ putrānvrajanti puruṣottamam
पुरुषोत्तमराजस्य सूर्य्यस्य च गणस्य च ।
पुरतस्तत्र पिण्डादि पितॄणां ब्रह्मलोकदः
puruṣottamarājasya sūryyasya ca gaṇasya ca |
puratastatra piṇḍādi pitṝṇāṃ brahmalokadaḥ
नत्वा कपर्द्दिविघ्नेशं सर्वविघ्नैः प्रमुच्यते ।
कार्त्तिकेयं पूजयित्वा ब्रह्मलोकमवाप्नुयात्
natvā kaparddivighneśaṃ sarvavighnaiḥ pramucyate |
kārttikeyaṃ pūjayitvā brahmalokamavāpnuyāt
द्वादशादित्यमभ्यर्च्य सर्वरोगैः प्रमुच्यते ।
वैश्वानरं समभ्यर्च्य उत्तमां दीप्तिमाप्नुयात्
dvādaśādityamabhyarcya sarvarogaiḥ pramucyate |
vaiśvānaraṃ samabhyarcya uttamāṃ dīptimāpnuyāt
रेवन्तं पूजयित्वाथ अश्वानाप्नोत्यनुत्तमान् ।
अभ्यर्च्येन्द्रं महैश्वर्य्यं गौरीं सौभाग्यमाप्नुयात्
revantaṃ pūjayitvātha aśvānāpnotyanuttamān |
abhyarcyendraṃ mahaiśvaryyaṃ gaurīṃ saubhāgyamāpnuyāt
विद्यां सरस्वतीं प्रार्च्य लक्ष्मीं संपूज्य च श्रियम् ।
गरुडं च समभ्यर्च्य विघ्नवृन्दात्प्रमुच्यते
vidyāṃ sarasvatīṃ prārcya lakṣmīṃ saṃpūjya ca śriyam |
garuḍaṃ ca samabhyarcya vighnavṛndātpramucyate
क्षेत्रपालं समभ्यर्च्य ग्रहवृन्दैः प्रमुच्यते ।
मुण्डपृष्ठं समभ्यर्च्य सर्वकाममवाप्नुयात्
kṣetrapālaṃ samabhyarcya grahavṛndaiḥ pramucyate |
muṇḍapṛṣṭhaṃ samabhyarcya sarvakāmamavāpnuyāt
नागाष्टकं समभ्यर्च्य नागदष्टो विमुच्यते ।
ब्रह्माणं पूजयित्वा च ब्रह्मलोकमवाप्नुयात्
nāgāṣṭakaṃ samabhyarcya nāgadaṣṭo vimucyate |
brahmāṇaṃ pūjayitvā ca brahmalokamavāpnuyāt
बलभद्रं समभ्यर्च्य बलारोग्यमवाप्नुयात् ।
सुभद्रां पूजयित्वा तु सौभाग्यं परमाप्नुयात्
balabhadraṃ samabhyarcya balārogyamavāpnuyāt |
subhadrāṃ pūjayitvā tu saubhāgyaṃ paramāpnuyāt
सर्वान्कामानवाप्नोति संपूज्य पुरुषोत्तमम् ।
नारायणं तु संपूज्य नराणामधिपो भवेत्
sarvānkāmānavāpnoti saṃpūjya puruṣottamam |
nārāyaṇaṃ tu saṃpūjya narāṇāmadhipo bhavet
स्पृष्ट्वा नत्वा नारसिंहं संग्रामे विजयी भवेत् ।
वराहं पूजयित्वा तु भूमिराज्यमवाप्नुयात्
spṛṣṭvā natvā nārasiṃhaṃ saṃgrāme vijayī bhavet |
varāhaṃ pūjayitvā tu bhūmirājyamavāpnuyāt
मालाविद्याधरौ स्पष्ट्वा विद्याधरपदं लभेत् ।
सर्वान्कामानवाप्नोति संपूज्यादिगदाधरम्
mālāvidyādharau spaṣṭvā vidyādharapadaṃ labhet |
sarvānkāmānavāpnoti saṃpūjyādigadādharam
सोमनाथं समभ्यर्च्य शिवलोकमवाप्नुयात् ।
रुद्रेश्वरं नमस्कृत्य रुद्रलोके महीयते
somanāthaṃ samabhyarcya śivalokamavāpnuyāt |
rudreśvaraṃ namaskṛtya rudraloke mahīyate
रामेश्वरं नरो नत्वा रामवत्सुप्रियो भवेत् ।
ब्रह्मेश्वरं नरः स्तुत्वा ब्रह्मलोकाय कल्प्यते
rāmeśvaraṃ naro natvā rāmavatsupriyo bhavet |
brahmeśvaraṃ naraḥ stutvā brahmalokāya kalpyate
कालेश्वरं समभ्यर्च्य नरः कालञ्जयो भवेत् ।
केदारं पूजयित्वा तु शिवलोके महीयते
kāleśvaraṃ samabhyarcya naraḥ kālañjayo bhavet |
kedāraṃ pūjayitvā tu śivaloke mahīyate
सिद्धेश्वरं च संपूज्य सिद्धो ब्रह्मपुरं व्रजेत् ।
आद्यै रुद्रादिभिः सार्द्धं दृष्ट्वा ह्यादिगदाधरम्
siddheśvaraṃ ca saṃpūjya siddho brahmapuraṃ vrajet |
ādyai rudrādibhiḥ sārddhaṃ dṛṣṭvā hyādigadādharam
कुलानां शतमुद्धृत्य नयेद्ब्रह्मपुरं नरः ।
धर्मार्थी प्राप्नुयाद्धर्ममर्थार्थो चार्थमाप्नुयात्
kulānāṃ śatamuddhṛtya nayedbrahmapuraṃ naraḥ |
dharmārthī prāpnuyāddharmamarthārtho cārthamāpnuyāt
कामान्संप्राप्नुयात्कामी मोक्षार्थी मोक्षमाप्नुयात् ।
राज्यार्थो राज्यमाप्नोति शान्त्यर्थी शान्तिमाप्नुयात्
kāmānsaṃprāpnuyātkāmī mokṣārthī mokṣamāpnuyāt |
rājyārtho rājyamāpnoti śāntyarthī śāntimāpnuyāt
सर्वार्थी सर्वमाप्नोति संपूज्यादिगदाधरम् ।
पुत्रान्पुत्रार्थिनी स्त्री च सौभाग्यं च तदर्थिनी
sarvārthī sarvamāpnoti saṃpūjyādigadādharam |
putrānputrārthinī strī ca saubhāgyaṃ ca tadarthinī
वंशार्थिनी च वंशान्वै प्राप्यार्च्यादिगदाधरम् ।
श्राद्धेन पिण्डदानेन अन्नदानेन वारिदः
vaṃśārthinī ca vaṃśānvai prāpyārcyādigadādharam |
śrāddhena piṇḍadānena annadānena vāridaḥ
ब्रह्मलोकमवाप्नोति संपूज्यादिगदाधरम् ।
पृथिव्यां सर्वतीर्थेभ्यो यथा श्रेष्ठा गया पुरी
brahmalokamavāpnoti saṃpūjyādigadādharam |
pṛthivyāṃ sarvatīrthebhyo yathā śreṣṭhā gayā purī
तथा शिलादिरूपश्च श्रेष्ठश्चैव गदाधरः ।
तस्मिन्दृष्टे शिला दृष्टा यतः सर्वं गदाधरः
tathā śilādirūpaśca śreṣṭhaścaiva gadādharaḥ |
tasmindṛṣṭe śilā dṛṣṭā yataḥ sarvaṃ gadādharaḥ
पाठ का स्रोत: Wikisource · CC BY-SA 4.0 (Wikisource transcription of a public-domain text)